________________
२३४
स्वैरिणी कुलटा
१ न सती असती । २ स्वेच्छया सर्वत्र एति भ्रमति इत्वरी । 'इण् गतौ ' ( अ.प.अ.), 'इण्नश्जिसर्तिभ्यः क्वरप्' ३ ।२ । १६३ ॥, ' ह्रस्वस्य पिति - '६ | १ | ७१ ॥ इति तुक्, 'टिड्डाणञ् - ४।१।१५ ॥ इति ङीप् । ३ पत्युरन्यं पुमांसं वृत्ताच्चलयति च्यावयति पुंश्चली । चलेर्ण्यन्तात् 'कर्मण्यण् '३ ।२ ।१ ॥, 'टिड्डाणञ्- '४।१।१५ ॥ इति ङीप् । ४ कर्षति यूनां मनः चर्षणी । 'कृष विलेखने' (भ्वा.प.अ.), 'कृषेरादेश्च च: ' (उणा - २६१) इत्यनि:, 'कृदिकारात् - ' ( गणसू - ४१११४५ ॥ ) इति ङीष् १० चवर्ग प्रथमादिरयम् । "कर्षति यूनां मन इति धर्षणी । (`'कृषेरादेश्च धेः'(उणा-२६१ ) इत्यनिः धातोरादेश्च ध इति । धर्षणीति बहुसम्मतः पाठः " [ ]इति मिश्राः । यन्महेश्वरः" धर्षणं स्यात् परिभवे रतेऽसत्यां तु धर्षणी "[ विश्वप्रकाशकोशः, णान्तवर्गः, श्री - ४६ ] इति ) । " आवश्यके णिनौ धर्षिणी" [ ] इत्येके । ५ पुरुषान्तरे मनो बध्नाति बन्धकी । 'बन्ध बन्धने' (क्र्या.प.अ.), ण्वुल्, गौरादिः । ' क्वुन् शिल्पिसंज्ञयो: ' ( उणा - १९० ) इति क्वुन् वा । ६ न विनीता अविनीता । ७ मालिन्यहेतुत्वात् पांसुरत्र पापम्, तद्योगात् 'खनखमुखकुञ्जनगपाण्डुपांसुभ्यश्च' (वा - ५।२ । १०७ ॥ ) इति रः कपिरि२० (ल)कादित्वाद् लत्वम् । सिध्मादित्वाद् वा लच् पांसुला
दन्त्यान्ता तालव्यान्ता च ॥ ५२८ ॥ ८ स्वेन, लक्षणया स्वेच्छया ईरितुं गन्तुं शीलमस्या: स्वैरिणी । 'ईर गतौ ' (अ.आ.से.), 'सुप्यजातौ णिनिः - '३ ।२।७८ ॥ इति णिनिः, 'स्वादीरेरिणो:' (वा६ । १४८९ ॥ ) इति वृद्धिः । यत्स्मृतिः
" पतिं त्यक्त्वा तु या नारी गृहादन्यत्र गच्छति । विटैस्तु रमते नित्यं स्वैरिणी सा प्रकीर्त्यते ॥१॥"
अभिधानचिन्तामणिनाममाला
[ ]इति । ९ कुलानि गृहाण्यटति शीलं भेत्तुं कुलटा । 'अट गतौ ' (भ्वा.प.से.), अच्, टाप् । कुत्सितं लटतीत्येके । 'लट बाल्ये ' (भ्वा.प.से.), अच् । कोलति वा । 'कुल बन्धु - ३० संस्त्यानयो:'(भ्वा.प.से.), 'शकादिभ्योऽटन्' (उणा-५२१), कुटादित्वान्न गुणः । नव असत्याः ॥ शेषश्चात्र
"कुलटायां तु दु:शृङ्गी बन्धुदा कलकुणिका ।
धर्षणी लाञ्छनी खण्डशीला मदननालिका ॥१॥"
[ मर्त्यकाण्डः-३ त्रिलोचना मनोहारी ॥ [ शेषनाममाला ३ । ११२-११३] ॥ याति या प्रियं साऽभिसारिका ।
Jain Education International
१ या स्त्री मदनेन मदेन वा श्रिष्टा सती कान्तमभिसरत्यभिसारयति वा, सा अभिसारिका । 'सृ गतौ ' (भ्वा.प.अ.), ण्वुल्, 'प्रत्ययस्थात्- '७ १३ १४४ ॥ इतीत्वम् । "कान्तार्थिनी तु या याति सङ्केतं साऽभिसारिका "[ अमरकोषः २ | ६ | १० ॥ ] इत्यमरः । भरतस्तु
" हित्वा लज्जाभये श्रिष्टा मदनेन मदेन च । अभिसारयते कान्तं सा भवेदभिसारिका ॥१॥"
[ नाट्यशास्त्रम्, अध्यायः - २२ - २०६ ] इत्याह । कान्ताऽभिलाषीणी या सङ्केतस्थलं व्रजति, तस्या एकम् ॥ वयस्यालिः संखी सध्रीची
१ वयसा तुल्या वयस्या । 'नौवयोधर्म- '४ १४ ।९१ ।। इत्यादिना यत् । २ 'अली (अल अलाँ) भूषणादौ' (भ्वा.प.से.), आङ्पूर्वः, आलयति भूषयति । बाहुलकाद् 'जनिघसिभ्यामिण् ' ( उणा - ५६९ ) । आलीयते विश्वासोऽस्याः [आलिः ] । आङ्पूर्वाद 'लीङ् शेषणे'(दि.आ.अ.) इत्यतो 'लीडो (वेञो) डि: ' ५० ( चान्द्रोणा - १ | ५८ ॥ ) इति बाहुलकाद् डिः, टिलोपे च, आलिर्वा । 'कृदिकारात्- '( गणसू-४।१।४५ ॥ ) इति ङीषि' आली । “ निवार्यतामालि ! किमप्ययं बटुः " [ कुमारसम्भवम्, सर्ग: ५, लो८३ ] इति कुमारः । ३ समानाख्यायते जनैरिति सखी । 'समाने ख्य:-' (उणा-५७६ ) इति सूत्रेण 'ख्या प्रकथने ' ( अ.प.अ.) अतो ड, डित्त्वाट्टिलोप:, 'सख्यशिश्वी - '४ ११ ॥ ६२ ॥ इति ङीष् । ४ सहाञ्चतीति सध्रीची । 'अञ्च गतौ ' (भ्वा.प.से.), सहपूर्व:, ‘ऋत्विग्दधृक्-'३ ।२ ।५९॥ इति क्विन्, 'सहस्य सध्रिः '६।३।९५ ॥ । चत्वारि संख्या: । 'सहेली' इति भाषा ॥
१ नास्ति शिशुरस्या अशिश्वी । 'सखशिश्वी [ ति] भाषायाम् ४ ११ ६२ ॥ इति साधुः । शिशुं पुत्रदुहितृरूपापत्यं विना रहिता । एकं सन्ततिरहितायाः ॥५२९ ॥
१. २.४ न दृश्यते ॥ २. कोष्ठान्तर्गतपाठः २प्रतौ न दृश्यते ॥ ३. १.४प्रत्योर्न दृश्यते ॥ ४. द्र. पदचन्द्रिका, भा-२, मनुष्यवर्गः, श्रो-२६८, पृ.३४५ ॥ ५. ‘पांशु-' इति३.४॥ ६. ‘पांशुभ्यश्च' इति३.४ ॥ सिद्धान्तकौमुद्यां 'रप्रकरणे खमुखमुञ्जभ्य उपसंख्यानम्,' तथा 'नगपांसुपाण्डुभ्यश्च' इति पृथक् पृथग् वार्त्तिकस्वरूपं दृश्यते ॥ ७ 'पांशुला' इति३.४ ॥ ८. 'प्रकीर्तिता' इति३ ॥ ९. 'कुल संस्त्याने बन्धुषु च 'इति स्वामिसायणौ, 'कुल सन्ताने बन्धुषु च ' इति मैत्रेयः ॥ १०. 'कुलटायां तु' इति १.२.४प्रतिषु नास्ति ॥ ११. 'बन्धुदा कलकुणिका' इत्यस्य स्थाने १.२. ४प्रतिषु 'बन्धुदारिका' इति दृश्यते ॥ १२. " हित्वा लज्जां समाकृष्टा मदेन मदनेन वा" इति नाट्यशास्त्रे, अध्या- २२, श्री- २०६, पृ. २५७ ॥ १३. 'ङीपि' इति३ ॥ १४. 'ङीन्' इति१.३ ॥ १५. ' ङीप् ' इति १.४ ।। १६. 'क्विप्' इति १ ॥
४०
अशिश्वी तु शिशुं विना ॥ ५२९ ॥ ६०
For Private & Personal Use Only
www.jainelibrary.org