________________
५२५-५२८ ]
तस्य ज्येष्ठः परिवित्तिः
१ तस्य परिवेत्तुः ज्येष्ठोऽग्रजः परिवर्ज्य यं विन्दति, स परिवित्तिः । 'क्तिच्तौ च संज्ञायाम् ' ३ । ३ । १७४ ॥ । एकं [ परिवेत्तुर्ज्येष्ठभ्रातुः ] ॥
व्युत्पत्तिरत्नाकरकलिता
जाया तु परिवेदिनी ॥ ५२६ ॥
१ तस्य परिवेत्तुः जाया जायते सुखकारणतां जाया । 'जनी प्रादुर्भावे'(दि.आ.से.), 'जनेर्यक्' (उणा - ५५० ) इति यक्, 'ये विभाषा '६ १४ १४३ ॥ इत्यस्य व्यवस्थितविभाषात्वान्नित्यमात्वम् । परिवर्ज्य विन्दति परिवेदिनी । 'विद्लृ लाभे' (तु.१० उ. अ.), नन्द्यादित्वाल्ल्युः, 'युवोरनाकौ ७ । १ । १ ॥, गौरादिः । एकं [ परिवेत्तुर्जाया] ॥५२६॥
वृषस्यन्ती कार्मुकी स्यात्
१ " वृषो नरो वृषः कामः''[ ] इत्यनेकार्थमञ्जरी । वृषं नरं पुमांसं रत्यर्थमिच्छतीति । "अश्ववृषयोमैथुनेच्छायामिष्यते ' (वा - ७।११५१ ॥ ) इति क्यचसुक्, लटः शत्रन्ताद् ङीषि (ङीपि) वृषस्यन्ती । २ कमनशीला कामुकी । कामुकशब्दाद् —जानपद-'४।१।४२ ॥इत्यादिना ङीष् । द्वे मैथुनाभिलाषिण्याः ॥ इच्छायुक्ता तु कोमुका ।
१ धनगीतनृत्यादाविच्छायुक्ता इच्छावती । कामयते२० ऽभिलषति कामुका । 'कमु कान्तौ ' (भ्वा.आ.से.), 'लषपतपद- '३।२।१५४॥ इत्यादिना उकञ्, 'नोदात्तोपदेशस्य-' ७ । ३ । ३४ ॥ इत्यादौ 'अनाचमे:' इति 'आचमि (अनाचमि) - कमिवमीनाम्'(वा-७।३।३४ ॥ ) इति निषेधाद् वृद्धौ कामुका (कामुक ), टाप् । एकमिच्छावत्याः ॥ कृतसापयिकांऽध्यूढाऽधिविन्ना
१ सपल्या भावः सापल्यम् । कृतं सापल्यं सपत्नीभावोऽस्याः कृतसापल्यिका, तकारनकारान्तःस्थाद्यसंयोगमध्यः । ‘उरःप्रभृतिभ्यः कप्’५।४।१५१ ॥, ' प्रत्ययस्थात्- '७१३ १४४ ॥ इतीत्वम् । मिश्रास्तु - " सपल्या भावः सापल्यम् । स्त्रियां ष्यञ्, ३० षित्त्वाद् ङीष्, 'हलस्तद्धितस्य '६ १४ १५० ॥ इति यलोपः, सापत्नी,
Jain Education International
२३३
ततः कनि ह्रस्वत्वे च सापलिका । कृता उत्पादिता सापलिका यस्याः सा कृतसापलिका । [ तथा ] "सपत्न्या आगतं द्वन्द्वं सापत्नम् । 'तत आगतः ’४ | ३ ७४ ॥ इत्यण्, ततः स्वार्थे कन्, कृतं सापत्नकमस्याः कृतसापत्निका " []इति तुहट्टचन्द्रः"[ ँ]इति निर्यकारं पेठुः । २ अधि प्रथममूढा अध्यूढा |" अध्यूढ ईश्वरेऽध्यूढा कृतसापल्ययोषिर्ति "[विश्व-लोचनकोश:, ढान्तवर्ग:, श्रो- ६ ] इति श्रीधरः । ३ अधिविन्द - त्यस्याम् अधिविन्ना । “प्रागूढा अधिशब्दस्य प्रागर्थत्वात्" []इति सुभूति: । अधिपूर्वः 'विद्लृ लाभे ' ( तु. उ. अ.), 'निष्ठा' ३।२।१०२ ॥ इति क्तः, 'रदाभ्याम् - ८।२।४२ ॥ इति तस्य नत्वम्, ४० पूर्वदकारस्यापि नत्वम्, टाप् । केचित्तु - " अधिपूर्वो विन्दतिरापेक्षिकप्राग्विवहने वर्तते "[ ] इत्याहुः । तन्मते "अवि(अधि) विदुरमात्यैराहृतास्तस्य यूनः प्रथमपरिगृहीते श्रीभुवौ राजकन्याः''[रघुवंशम्, सर्गः - १८, श्री - ५३] इति रघुः । त्रीणि सपल्या :
For Private
॥
पुंश्चली चर्षणी बन्धक्यविनीता च पांसुलौ ॥५२८॥
१. प्र. पदचन्द्रिका, भा-२, मनुष्यवर्गः, श्रो-२६७, पृ. ३४४ ॥ रामाश्रमी २६९ ॥ पृ. २६५ ॥ तयोः 'काम:' इत्यस्य स्थाने 'काल:' इति दृश्यते ॥ २. 'काम-' इति३.४ ॥ ३. ' - सापलिका' इति१.२.३ ॥ अभिधानचिन्तामणिस्वोपज्ञटीकयो: 'कृतसापत्निका' इति दृश्यते ॥ ४. 'सापलिका' इति३.४ ॥ ५. 'क्यप्' इति २.३.४ ॥ ६. 'सापल्यम्' इति२ ॥ ७. द्र. पदचन्द्रिका, भा-२, मनुष्यवर्गः, श्रो-२६५, पृ. ३४० ॥ ८. -पल्यायोषिति' इति४ ॥ ९. प्र. पदचन्द्रिका, भा- २, मनुष्यवर्गः, श्रो- २६५ पृ.३४० ॥ १०. 'सपल्यः' इति ३ ॥ ११. 'ङीप्' इति१.४ ॥ १२. 'असु' इति१.२.४ ॥ १३. 'उगितश्च ४ १ १६ ॥ इत्येव युक्तः ॥ १४. श्नसोरल्लोपः' इति सूत्रस्वरूपम् ॥ १५. 'पांशुला' इति३.४ ।।
अथ पतिव्रता ॥ ५२७ ॥
एकपत्नी सुचरित्रा साध्वी सती
१ पतिव्रतमिव सदैवोपास्योऽस्याः पतिव्रता । यत्स्मृति:- "नास्ति स्त्रीणां पृथग् यज्ञो न व्रतम् "[ मनुस्मृतिः, अध्या-५, श्री - १५५] इति ॥ ५२७ ॥ २ एकः पतिर्यस्याः सा ५० एकपत्नी । 'नित्यं सपल्यादिषु ४ । १ । ३५ ॥ इति नोन्तादेशः, नान्तत्वाद् 'ऋन्नेभ्यः - '४ । १ ॥५ ॥ इति ङीप् । ३ शोभनं चरित्र - मस्याः सुचरित्रा । ४ नियतैकपतित्वात् प्रशस्तात एव साध्वी । 'वोतो गुणवचनात् ' ४ । १ । ४४ ॥ इति ङीष् । ङीब(ङी) भावे साधुरपि । ५ अस्ति नित्यं भर्तृभक्तेति सती । 'असे भुवि' (अ.प.से.), 'लटः शतृशानचौ- '३ ।२ ।१ २४ ॥ इति शत्रादेशः, 'ऋन्ने : - '४।१ ॥ ५ ॥ इति ङीप्, 'अस्तिश्नसोरल्लोपः'६।४।१११॥इत्यस्तेरकारलोपः । पञ्च सतीति ख्यातायाः ॥ असतीत्व ।
Personal Use Only
६०
www.jainelibrary.org