________________
२३२
(वा) '(वा-४।१ ।४९ ॥ ) इति ङीषानुकौ, पक्षे टाप्"[ अम. क्षीर. २।६।१४ ॥ ] इत्युक्त्वा "योपधाज्जातिलक्षणो ङीष् नास्ति " [ अम. क्षीर. २ ६ ॥ १४ ॥ ] इत्याह । दीर्घपाठे तु आर्यशब्दस्य अजातिवाचित्वादेव ङीषोऽप्राप्तेर्योपधत्वादिपरिहाराभिधानमनर्थकं स्यात्, अर्यशब्दस्य तु जातिवचनत्वादस्त्युपयोग इति ह्रस्वपाठमेव रोचयामहे इति । तथा च द्वयाश्रयटीकाकृत्
अभिधानचिन्तामणिनाममाला
“अर्याणीं क्षत्रियाण्यभीः किं शुभचातुर्यात् क्षत्रिया किमर्या' । इत्यूहाञ्चक्र आत्मसैन्ये धृतवत्सी (वात्सी) वात्स्यायनीपतिः सः ॥१॥" [(सटीकम्)द्वयाश्रयमहाकाव्यम्, सर्गः - ४, श्ले-७७] । १० अत्र अर्याणी प्रेक्षापूर्वकारिणी वणिगादिजातिः स्त्री किं क्षत्रि याणी क्षत्रियजातिः स्त्री वर्तते, अभीकत्वादेवमाशङ्का । क्षत्रियाणी ह्यभीः स्यात् । तथा क्षत्रियजाति: स्त्री शुभचातुर्यात् शुभं परिणामहितं यच्चातुर्यं पर्यालोचितकारित्वं तस्माद्धेतोः किमर्या वणिगादिजातिरित्यादि: "[ (सटीकम् ) द्वयाश्रयमहाकाव्यम्, सर्गः - ४, श्री- ७७] इति । वणिगादीनां वैश्यजातावन्तर्भावाद् वैश्यवाची ह्रस्वादिरेव अर्यशब्दो, न दीर्घादिः । ये तु दीर्घादिमार्यशब्दं पठन्ति स आर्य शब्दो वैश्यवाची व्याख्येयः, न सज्जनसौविदयोः पर्यायवाची, जातेरभावादिति । वैश्यजातिस्त्रीनाम्नी द्वे ॥ ५२४ ॥
२० दिधिषूस्तु पुनर्भूर्द्विरूढा
१ दधाति पापं दिधिषूः । 'अन्दूहम्भू - ' (उणा -९३) इत्यादिना दधातेरुप्रत्यये, सुटि, धात्वन्तस्येत्वे, द्वित्वे, षत्वे च दिधिषूः । ‘षष(धिष) शब्दे' (जु.प.से.), षज्यते (धिष्यते) निन्दिततया शब्दयते वा, पूर्ववदूप्रत्यये द्वित्वे च वा दिधिषूः । “दीधीङ् दीप्तिदेवनयोः'(अ.आ.से.), दीध्यनं' दीधी: दीप्तिः, क्विप्, दीधीं शोभां स्यति नाशयति, पूर्ववदूप्रत्यये, ईकारयोईस्वत्वे च दिधिषू: "[" ] इत्यन्ये । धृष्णोति वा । 'धृषेर्दिधिषदिधीषौ च ' (हैमोणा - ८४२ ) इत्यूः । " दिधिं धैर्यमिन्द्रिय
दौर्बल्यात् स्यतीति दिधिषूः "[ ] इत्युज्ज्वलदत्तः । दिधिष्वौ, ३० दिधिष्वः इत्यादि । दीधीषूरिति द्विचतुर्थस्वरोऽपि । २ पुनर्भवति पुनर्भूः, क्विबन्तः । अन्यस्य भूत्वाऽन्यस्य भवतीत्यर्थः ।
[ मर्त्यकाण्डः-३ पुनभ्वौ, पुनर्ध्वः इत्यादि । द्वौ वारावस्या द्विः ऊढा (द्विरूढा ) संस्कृता, "अक्षता च क्षता चैव पुनर्भूः संस्कृता पुनः " [ याज्ञवल्क्यस्मृतिः, आचाराध्यायः श्रो- ६७ ] इति । मनु
Jain Education International
स्त्वन्यथा प्राह
"ज्येष्ठायां यद्यनूढायां कन्यायामुह्यतेऽनुजा ।
सा चाग्रेदिधिषूर्ज्ञेया पूर्वा तु दिधिषूर्मता ॥१॥ ["]इति । तदा ज्येष्ठायां कन्यायामपरिणीतायां लघीयसी कन्या परिणीता, तन्नामैकम् । अग्रेदिधिषूः, पञ्चाक्षरः, षष्ठस्वरान्तोऽपरिणीतज्येष्ठकन्याया नाम वारद्वयपरिणीतस्त्रियाः । ' घरघरणुउं" " इति भाषा ॥ अस्या दिधिषूः पतिः ।
४०
१ अस्याः पुनर्ध्वाः पतिस्तन्नामैकं दिधिषूः इति । आत्मानो दिधिषूमिच्छति दिधिषूः । 'सुप आत्मनः क्यच् ' ३।१।८॥, ततः क्विपि, ‘लोपो व्योर्वलिं '६ १ ६६ ॥ इति यलोपः ॥ स तु द्विजोऽग्रेदिधिषूर्यस्य स्यात् सैव गेहिनी ॥ ५२५ ॥
१ यस्य द्विजस्य विप्रस्य पुनर्भूरेव गेहिनी गृहिणी, स द्विजः अग्रेऽनन्यभार्यत्वात् प्रधानं दिधिषूर्यस्य सः अग्रेदिधिषूः उच्यते, पञ्चाक्षरमखण्डम् । यस्य प्रथमत: स्त्री नास्ति परिणीतस्त्रियं च परिणीतस्तन्नामेत्यर्थः । द्विजस्यैव प्राधान्याद् 'द्विज' इत्युक्तम्, अधिवेदने" सामान्येनोक्तेः । "वर्णेषु सामान्ये- ५० नासौ क्षत्रियादिष्वप्ययं वर्तते, "दिधिषूः परपूर्वाग्रेदिधिषूस्तत्पुरपुरन्ध्रिक: "["] इति सामान्येन नाममालादर्शनात् ॥ ५२५॥ ज्येष्ठेऽनूढे परिवेत्ताऽनुजो दारपरिग्रही ।
१ ज्येष्ठे भ्रातरि अकृतविवाहे सति कनिष्ठो विवाहाद्धेतोः परिवेत्ता उच्यते । परिवर्ज्य विन्दति परिवेत्ता । परिपूर्वः 'विद्लृ लाभे' (तु.उ. अ.) अस्मात् तृच् । यत्स्मृति :
"येऽग्रजेष्वकलत्रेषु कुर्वते दारसङ्ग्रहम् ।
ज्ञेयास्ते परिवेत्तारः परिवित्तिस्तु पूर्वजः ॥१॥"[ ँ] । उपलक्षणं चैतत् यथाऽग्निहोत्रादावपि परिवेदनव्यवहारोऽस्ति । ६० एकं [ ज्येष्ठेऽकृतविवाहे कृतदारपरिग्रहस्य कनिष्ठस्य ] ॥
१. 'र्थकः' इति३ ॥ २. 'आर्याणी' इति द्वयाश्रये ॥ ३. 'किमार्या' इति द्वयाश्रये ॥ ४. 'आभि-' इति३, 'भीरु-' इति द्वयाश्रयटीका ॥ ५. इतोऽग्रे द्वयाश्रयटीकायां 'क्षत्रिया' इति दृश्यते ॥ ६. 'शुभ-' इति ॥ ७. 'परिणामे' इति द्वयाश्रयटीका ॥ ८. 'इत्यादिः' इत्यस्य स्थाने द्वयाश्रयटीकायां 'स्त्रीति' इति दृश्यते ॥ ९. 'दीधनं' इति३ ॥ १०. द्र. पदचन्द्रिका, भा-२, मनुष्यवर्गः, श्रो-२८१, पृ. ३५७ ॥ ११. अयं श्रोको मनुस्मृत्यां न दृश्यते ॥ द्र. अम. क्षीरस्वामिटीका २१६ ॥ २३ ॥ पृ. १३९ ॥, स्वोपज्ञटीका ३ । ५२५ ॥ पृ. ११८ ॥ १२. ' - रणू' इति ३, 'रणौ' इति४ ॥ १३. तुलनीयोऽमरकोषः २ १६ । २३ ॥ १४. 'लोपेर्वलि' इति३ ॥ १५. ' - वेदेने' इति४ ॥ १६. द्र टीकासर्वस्वम्, भा-२, २१६ ॥२३॥, पृ. २७९ ॥ तत्र " परपूर्वा स्त्री दिधिषूरग्रेदिधिषु (स्त ! स्तु त) त्पुरन्ध्रीकः" इति दृश्यते ॥ पदचन्द्रिका, भा-२, मनुष्यवर्गः, श्रो-२८१, पृ. ३५८ ॥, रामाश्रमी २।६।२३ ॥ पृ. २७१ ।। १७. द्र. अम. क्षीरस्वामिटीका २७५६ ॥ पृ.१७५ ॥ स्वोपज्ञटीका ३१५२६ ॥ पृ.११९ ॥
For Private & Personal Use Only
www.jainelibrary.org