________________
२०
२३०
कृताभिषेका महिषीं
१ श्रीमहादेवीत्वे कृतोऽभिषेकोऽस्याः कृताभिषेका, यथा वासवदत्ता उदायनराजस्य । मह्यते पूज्यतेऽसाविति महिषी । 'मह पूजायाम्' (भ्वा.प.से.), 'अविमह्योष्टिषच्' (उणा५४) इति टिषच्, षित्त्वात् 'षिद्गौरादिभ्यश्च '४ ।१ ४५ ॥ इति ङीष् । एकं पट्टराज्ञ्याः ॥
अभिधानचिन्तामणिनाममाला
भोगिन्योऽन्या नृपस्त्रियः ॥५२०॥
१ अन्या अकृताभिषेकाः पद्मावत्याद्याः भोगातिशययुक्तत्वाद् भोगिन्यः प्रोच्यन्ते नृपस्त्रिय एव ॥ ५२०॥ १० सैरन्ध्री याऽन्यवेश्मस्था स्वतन्त्रा शिल्पजीविनी ।
१ या स्त्री अन्यवेश्मस्थाऽपरगृहस्थिता, स्वतन्त्रा स्वायत्ता एकायत्ता न भवतीत्यर्थः । शिल्पं प्रसाधनांदिकलाकौशलम्, तेन जीवति या सा सैरन्ध्री । ( सहचरणमीरणं(सह ईरमीरणं) धरते सैरन्ध्री), पृषोदरादिः, प्रथमस्वरमध्यः । मिश्रास्तु - " स्वैरं स्वाच्छन्द्यं धरति मूलविभुजादित्वात् के, पृषोदरादित्वाद् वलोपे इकारनकारौ गौरादिङीषि सैरिन्ध्री, सानुस्वारतृतीयस्वरमध्या, दन्त्यादिः''[ ]इत्याहुः । “सैरिन्ध्री परवेश्मस्थाशिल्पकृत्स्ववशस्त्रियाम् "[ ] इति दन्त्यादौ रभसः ।
"चतुःषष्टिकलाभिज्ञा शीलरूपादिसेविनी ।
प्रसाधनोपचारज्ञा सैरन्ध्री [परिकीर्तिता] ॥ १ ॥ [] इति कात्यः । एकं [ विशेषणत्रयवत्याः ] ॥
असिक्न्यन्तःपुरप्रेष्या(-प्रैष्या)
१ 'षिञ् बन्धने' (स्वा.क्र्या. उ. अ.), 'युसिदृभ्यः (घृसिदूभ्यः) क्तः ' (कातन्त्रोणा - २।१२९ ॥ ), सिता शुक्लकेशादिमती, नञि, टापि, ततोऽन्या असिता कृष्णकेशादिमती ‘असितपलितयोः प्रतिषेधः’(वा-४।१।३९ ॥ ) इति ङीप्नकार - प्रतिषेधात्, ‘क्न इत्येके’(वा ४।१।३९ ॥ इति ङीप् नश्चान्तादेशः । अन्तःपुरे प्रैर्ष्या अन्तःपुरप्रैर्ष्या, 'प्रादूहोढोढ्येषैष्येषु '(वा६।१।८९॥) इति वृद्धिः । एकमन्तःपुरगमनयोग्यस्त्रियाः ॥
Jain Education International
For Private
[ मर्त्यकाण्डः-३
दूतीसञ्चारिके
॥५२१॥ ३०
१, दूयते मौखर्यात्, दुनोति वा 'कार्याकरणाद् दूती । 'दुञ् उपतापे ' (स्वा.प.अ.), 'दुतनिभ्यां दीर्घश्च' (उणा - ३७० ) इति क्तः, गौरादिः । २ सञ्चारयति सन्देशं प्रापयति सञ्चारिका । 'चर गतौ'(भ्वा.प.से.), णिजन्तादस्माद् ण्वुल्, टाप्, 'प्रत्ययस्थात्- '७।३।४४ ॥ इतीत्वम् । द्वे दूत्याः ॥ ५२१ ॥
प्रज्ञा प्रांज्ञी प्रजानत्याम्
१-२ प्रकर्षेण जानाति प्रज्ञा । 'ज्ञा अवबोधने' (क्र्या.प.अ.), 'इगुपध- '३ । १ । १३५ ॥ इति कः, टाप् । ततः 'प्रज्ञादिभ्यश्च ५ १४ ॥३८॥ इति स्वार्थेऽणि 'टिड्डाणञ्- '४।१/१५ ॥ इति ङीपं प्राज्ञी । प्रकर्षेण जानाति प्रजानती । 'ज्ञा ४० अवबोधने '(क्र्या.प.अ.), 'लट: शतृशानचावप्रथमासमानाधिकरणे '३ । २ । १२४ ॥ शित्त्वाद् 'ज्ञाजनोर्जा '७ । ३ । ७९ ॥ तस्याम् । द्वे प्रज्ञावत्याः । 'सुजाण स्त्री' इति भाषा ॥
प्रज्ञा तु प्रज्ञयाऽन्विता ।
१ प्रज्ञाऽस्त्यस्याः प्राज्ञा । 'प्रज्ञाश्रद्धावृत्तिभ्यो णः'५।२।१०१॥ । प्रज्ञया प्रशस्तबुद्धया, अन्विता युक्ता । एकं सुबुद्धिस्त्रियाः ॥
स्यादाभीरी महाशूद्र' जातिपुंयोगयोः समे ॥५२२॥
१ आभीरजातीया, आभीरस्य स्त्री वा आभीरी । अत्रोभयत्र जातिलक्षणः, पुंयोगलक्षणो वा ङीष् । एवं महाशूद्र । अत्रापि जातिलक्षणः, पुंयोगलक्षणो वा ङीप् (ङीष्) । वैश्यभेद एव आभीरो गवाद्युपजीवी, अन्यत्र महती चासौ शूद्रा च महाशूद्रेत्येव भवति । जातिपुंयोगयोः जातौ” पुंयोगे च, समे तुल्ये । द्वे आभीरस्त्रियाः ॥ ५२२॥
पुंयुज्याचर्यार्चार्यानी
१. तुलनीयोऽमरकोषः २१६ ॥ ५ ॥ २. 'उच्यन्ते' इति३ ॥ ३. कोष्ठान्तर्गतपाठः ३प्रतौ न दृश्यते ॥ ४. 'इकार-' इति१.२ ॥ ५. 'सैरन्ध्री' इति१.३.४ ॥ ६. 'सैरन्ध्री' इति१.३ ॥ ७. टीकासर्वस्वम्, भा-२, २६।१८ ॥ पृ. २७४ ॥, पदचन्द्रिका, भा-२, मनुष्यवर्गः, श्री- २७६, पृ. ३५१ ॥, रामाश्रमी २६।१८ ॥, पृ.२६८ ॥ ८. ' - चाराज्ञा' इति ३ ॥ ९ द्र. अम क्षीरस्वामिटीका २६ । १८ ॥, पृ.१३७॥, स्वोपज्ञटीका ३५२१ ॥ १०. 'क्न इति' इति १ ॥ ११. 'प्रेष्या' इति१.२.३॥ १२. तुलनीयोऽमरकोषः २।६।१७ ॥ १३. 'कार्य-' इति१ ॥ १४. 'टुदु उपतापे' इति क्षीरतरङ्गिण्यादौ ॥ १५. 'सञ्च-' इति२ ॥ १६. इतोऽग्रे ३.४प्रत्योः 'णित्' इति दृश्यते ॥ १७. 'ङीषि' इति १.२.४ ॥ १८. शूद्री' इति अभिधानचिन्तामणिस्वोपज्ञटीकयोः ॥ १९. 'ङीष्' इति १.२.४ ॥ २०. ' - शूद्री' इति ॥ २९. इतोऽग्रे १प्रतौ 'च' इति दृश्यते ॥
१ पुंसा योगः पुंयुक्, तत्र । स्वतो मन्त्रव्याख्याकृद् आचार्या । आचर्यत उपास्यत आचार्या । 'चर गतिभक्षणयोः ' (भ्वा.प.से.), 'ऋहलोर्ण्यत् ३ । १ । १२४ ॥ । २ आचार्यस्य स्त्री
Personal Use Only
५०
www.jainelibrary.org