________________
५१५-५२० ]
२०
व्युत्पत्तिरत्नाकरकलिता
विवाहः पाणिंपीडनम् ॥५१७ ॥ उपपतिस्तु जोरः स्यात्
पाणिग्रहणमुद्वाह उपाद् यामयमावपि ।
दारकर्म परिणयः
१ विवहनं विवाहः । विशिष्टोऽग्निसाक्षिको वाहो वहनं स्वीकार इति वा । 'वह प्रापणे' (भ्वा.उ. अ.), घञ् । २ पाणिः पीड्यतेऽस्मिन् पाणिपीडनम् । 'पीड पीडने ' (चु.उ.से.), ल्युट् अधिकरणे ॥५१७ ॥ ३ पाणिर्गृह्यतेऽत्र पाणिग्रहणम् । 'ग्रह उपादाने ' (क्र्या.उ.से.), अधिकरणे ल्युट् । ४ उद्वहनम् उद्वाहः । 'वह प्रापणे ' ( भ्वा. उ. अ.), घञ् । १० ५-६ उपात् परतो यामयमौ शब्दौ योज्यौ । उपपूर्वो यमिः स्वीकारार्थः, उपयमनम् उपयामः, उपयमः । 'यमु नियमनें ' (भ्वा.प.अ.), आद्ये घञ् । पक्षे 'यमः समुपनिविषु च ' ३ । ३ ।६३ ॥ इत्यप् । ७ दाराणां कर्म दारकर्म । ८ परिणयनं परिणयः । ' णीञ् प्रापणे' (भ्वा.उ. अ.), 'एरच् '३ | ३ |५६ ॥ इत्यच् । अष्टौ विवाहस्य ॥ शेषश्चात्र
""जम्बूलमालिकोद्वाहे वरयात्रा तु दौन्दु । गोपाली वर्णके शान्तियात्रा वरनिमन्त्रणे ॥१॥ स्यादिन्द्राणीमहे हेलिरुलूलुर्मङ्गलध्वनिः । स्यात्तु स्वस्त्ययनं पूर्णकलसे (-शे) मङ्गलाह्निकम् ॥२॥ शान्तिके मङ्गलस्नानं वारि पल्लववारिणा हस्तले तु करणं हस्तबन्धे तु पीडनम् ॥३॥ तच्छेदे समयभ्रंशो धूलिभक्ते तु वार्तिकम् ॥''[ ]इति। जामाता दुहितुःपतिः ॥५१८॥
1
१ जायां मिनोति सुवेश्मनि प्रक्षिपति जामाता । 'डुमिञ् प्रक्षेपणे' (स्वा.उ.अ.), 'नप्तृनेष्टृत्वष्टृ- '(उणा२५२) इत्यादिना साधुः । दुहितुः पुत्र्याः पतिः भर्ता दुहितुःपति: । 'विभाषा स्वसृपत्योः '६ |३ |२४ ॥ वा षष्ठ्यलुक् !! एकं जामातुः ॥ ५१८ ॥
Jain Education International
२२९
१ उपजातः पतिः उपपतिः । २ जीर्यतेऽनेन, जारयति वा जारः । 'ज्[ष्] वयोहानौ' (भ्वा.प.से.), 'दारजारौ कर्तरि णिलुक् च' (वा- ३।३।२० ॥ ) इति साधुः । द्वे जारस्य ॥
भुजङ्गो गणिकापतिः ।
१ भुजाभ्यां नृत्यद्भ्यामिव गच्छति भुजङ्गः । 'गमेः सुपि ' ( वा - ३।२।३८ ॥ ) इति खच्, 'खच्च डिद् वाच्य:'(वा२३ । २ । ३८ ॥ ) । गणिका वेश्या, तस्याः पतिः गणिकापतिः, तस्यैकम् ॥
जम्पती दम्पती जायापती भार्यापती समाः ॥ ५१९ ॥
१- ३ जाया च पतिश्च दम्पती । एवं जम्पती । जायाया जम्भावदम्भावौ वा निपात्यौ, राजदन्तादित्वात्, पक्षे जायापती । ४ भार्या च पतिश्च भार्यापती । चत्वारोऽप्येते पुंसि द्विवचनान्त एव । 'जम्पतीभ्यां' इति तृतीयाचतुर्थीपञ्चमीरूपम् । ‘जम्पत्योः' इति षष्ठीसप्तम्यो रूपम् । चत्वारि यौगपद्येन स्त्रीपुंसयोः ॥५१९॥
१. 'पीड गहने' इति स्वामी, 'पीड अवगाहने' इति मैत्रेयसायणौ ॥ २ नियमे' इति३, 'यम उपरमे' इति स्वामिसायणौ, 'यमु उपरमे' इति मैत्रेयः ॥ ३. 'जाम्बूल -' इति ३, तथा शेषनाममालास्वोपज्ञटीकायोः ॥ ४. 'दोन्दुभी' इति३.४ ॥ ५. 'हस्ते लेपे' इति १ ॥ ६. 'समवभ्रंशो' इति शेषनाममालास्वोपज्ञटीकयोः ॥ ७ तुलनीयोऽमरकोषः २६ ३२ ॥ ८. 'स्ववेश्मनि' इति ३ ॥ ९ 'प्रेक्षणे' इति १ ॥ १०. 'तत्र मर्ष' इति२ ॥ ११. द्र. पदचन्द्रिका, भा-२, क्षत्त्रवर्ग:, - ४८२, पृ. ५६८ ॥, रामाश्रमी २।८।२८ ॥, पृ. ३५८ ॥ १२. 'च तत्' इति २प्रतौ नारि विश्वप्रकाशकोशे, णान्तवर्ग:, श्रो- ४७, पृ.५१ ॥
॥ १३. 'यौतुक -' इति
For Private & Personal Use Only
३०
यौतकं युतयोर्देयं सुदयो हरणं च तत् ।
१ यौति युतकं योनिसम्बन्धः । तत्रामर्षः, (तत्र भवम्) । ['तत्र भवः '४ । ३ । ५३ ॥ इत्यण् ] । युतयोर्वधूवरयोरिदं वाऽण् यौतकम् । युतकमपि । “युतकं युगले युक्ते यौतके संशयेऽपि च"["]इति रभसः । युतयोर्वधूवरयोर्देयं दानं परिधापनवस्त्राभरणादि यौतुकमुकारमध्यमपि, "यौतुकं यौतकं ५० च तत्"["]इति वाचस्पतेः । २ सुष्ठु दीयते सुदायः । 'अकर्तरि च - ३ | ३ | १९ ॥ इति कर्मणि घञ् । दायोऽपि । यच्छाश्वत :“यौतकादिधनं दायो दायो दानमुदाहृतम् "[ शाश्वतकोश :- ४५] इति । ३ हियत इति हरणम् । 'हृञ् हरणे' (भ्वा.उ.अ.), कर्मणि ल्युट् ।‘“हरणं "यौतकद्रव्ये भुजेऽपि हरणं हृतौ "[विश्वप्रकाशकोशः, णान्तवर्गः, श्रो- ४७ ] इति महेश्वरः । त्रीणि कन्यादानकाले जामात्रादिभ्यो दीयमानद्रव्यस्य ॥
४०
www.jainelibrary.org