________________
५०९-५११ ]
'अलङ्काराश्च नाट्यज्ञैर्ज्ञेया भावरसाश्रयः । यौवनेऽभ्यधिकाः स्त्रीणां विकारा वक्त्रगात्रजाः ॥१ ॥ [ नाट्यशास्त्रम्, सामान्याभिनयोऽध्यायः - २२, भो-४] देहात्मकं भवेत् सत्त्वं सत्त्वाद् भावः समुत्थितः । भावात् समुत्थितो हावो हावाद्धेला समुत्थिता ॥२॥" [ नाट्यशास्त्रम्, सामान्याभिनयोऽध्यायः - २२, श्रो- ७] इति ॥५०९ ॥
सा कोपना भामिनी स्यात्
व्युत्पत्तिरत्नाकरकलिता
१ सा स्त्री कोपना कोपशीला । 'कुप कोपे' (दि. - १० प.से.), 'क्रुधमण्डार्थेभ्यश्च ३।२।१५१ ॥ इति युच् । भामतेऽवश्यं भामिनी । ' भाम क्रोधे ' (भ्वा.आ.से.), आवश्यके णिनिः, 'ऋन्नेभ्यो ङीप् ४। १ । ५ ॥ । " कोपना सैव भामिनी " [ अमरकोषः २ ।६ ॥ ५ ॥ ] इत्यमरः । एकं कोपनायाः ॥ छेका मत्ता च वाणिनी ।
१ छेका अवसरज्ञा, 'दाक्ष्यातिशययुक्ता वा मत्ता चोन्मत्ता या स्त्री, तन्नामैकम् । वणत्यवश्यं वाणिनी । 'वण शब्दे'(भ्वा.प.से.), आवश्यके णिनिः, तृतीयवर्गपञ्चमतृतीयस्वरमध्यः । यन्महेश्वरः-‘“वाणिनी नर्तकीमत्तविदग्धवनितासु च”[विश्वप्रकाशकोशः, नान्तवर्ग:, श्रो- १२६] इति । चतुर्थ२० वर्गपञ्चमतृतीयस्वरमध्यो "वानिनी " [ अमरकोषः ३ । ३ ।११२ ॥] इत्यमरः ॥
केन्या कैनी कुमारी च
१ कन्यते काम्यते कन्या । 'कनी दीप्तिकान्तिगतिषु'(भ्वा.प.से.), `अघ्न्यादित्वाद् यत् । 'कमु कान्तौ' (भ्वा.आ.से.) इत्यतः 'अघ्न्यादयश्च' (उणा - ५५१ ) इति यति मकारस्य नकारे वा कन्या । 'कन्यायाः कनीन च ४ ।१ । - ११६॥ इति निपातनान्न 'वयसि प्रथमे ४ ११ ।२० ॥ इति ङीप् ।
Jain Education International
२२५
३०
२ कनति दीप्यते कनी । पचाद्यचि 'वयसि प्रथमे ४ । १ । २० ॥ इति ङीप् । ३ कुमारयति क्रीडयति कुमारी । चुरादौ 'कुमार क्रीडायाम्' (चु.उ.से.), अचि वयसि प्रथमे ४ ११ ॥२०॥ इति ङीप् । कुत्सितो मारोऽस्या वा । काम्यते कुमारी । 'कमु कान्तौ ' (भ्वा.आ.से.), 'कमेरुच्चोपधायां : ' (उणा-४१८) इत्यारन्प्रत्यये उपधाया उत्वम्, ङीप् । “पुंयोगे न कन्यात्वं निव[ ] इत्यन्ये । सामान्यतः त्रीणि कन्यायाः ॥ गौरी तु नग्निकाऽरजाः ॥५१० ॥
१ गूहयते उपादेयतया शब्दयते गौरी । 'गुङ् शब्दे' (भ्वा.आ.अ.), 'खुरक्षुर - ' (हैमोणा - ३९६ ) इति साधुः । 'ऋजेन्द्र-' (उणा-१८६ ) इत्यादिना वा । लज्जते नग्निका । ‘ओलस्जी व्रीडे’(तु.आ.से.), :, 'ओदितश्च ८ २ १४५ ॥ इति निष्ठानत्वम्, कुत्वम्, पृषोदरादित्वादादेर्नत्वम्, ततः स्वार्थे कनि इत्वे च नग्निका । केचित्तु ओलञ्जीति "तवर्गपञ्चमादि पठन्ति । २ नास्ति रजोऽस्या अरजाः, सकारन्तः, अप्राप्तर्तुरित्यर्थः । "अष्टवर्षा भवैद् गौरी दशमे नग्निका भवेत् "["]इति स्मार्तो भेदोऽत्र नाश्रितः । द्वे अष्टवर्षकन्यायाः ॥ ५१०॥ मध्यमा तु दृष्टरजास्तरुणी युवतिश्चरी । तलुनी दिवकरी
१. " अलंकाराश्च सत्त्वस्था ज्ञेया भावसमाश्रयाः ।" इति नाट्यशास्त्रे, अध्या- २२, ४, पृ. २४१ ॥ २. 'भामयते' इति ३, 'भायते' इति ४ ॥ ३. 'दाक्षिण्याति -' इति ३ ॥ ४. केषाञ्चिदमरकोषटीकाकृतां मतेऽयं सम्मतः, अत एवामरपदविवृतिटीकायां "केचिदत्र द्वितीयाक्षरं दन्त्यवर्गपञ्चमं पठन्ति " इत्युक्तम्, भा-२, ३ । ३ । ११२ ॥ पृ. ३७९ ॥ ५. ' आघ्रादि-' इति४ ॥ ६. 'ङीष्' इति१.३ ॥ ७ ङीष्' इति३ ॥ ८. १ प्रतौ नास्ति ॥ ९. 'कमे: किदुच्चोपधायाः' इत्युणादिगणसूत्रस्वरूपम् ॥ १०. " या तु विवाहसंस्कारेण विना पुरुषेण सम्प्रयुज्यते सा कन्यात्वं न जहाति" इति पदमञ्जरी, काशिकावृत्तिः, भा-३, ४ । १ । ११६ ॥ पृ. ४५९ ॥ ११. 'श्वीदितो निष्ठायाम् ७ १२ । १४ ॥ इतीडभावः ॥ १२. 'निष्ठायां नत्वम्' इति४, 'निष्ठायां न' इति३ ॥ १३. 'वर्ग-' इति१॥ १४. " अष्टवर्षा भवेद् गौरी दशवर्षा तु कन्यका । संप्राप्ते द्वादशे वर्षे कुमारीत्यभिधीयते ॥'' इति कः ॥ १५. 'कृवृ-' इति१.२.४ ॥ १६. 'वर्तने' इति३, 'वर्तमानो' इति४ ॥ १७. 'तलो' इति४ ॥ १८. 'डीष्' इति१.३ ॥ अत्र 'वयसि प्रथमे' इत्यस्य प्रवृत्तिर्विचारणीया, पदमञ्जय 'नञ्स्नयीकक्तरुणतलुनानामुपसंख्यानम्' इत्यत्र "एतयोरवयोऽर्थं ग्रहणम् इत्येव सिद्धम् ? न सिध्यति, गौरापाठान्डीष् प्राप्नोति । तस्माद् वयस्यवयसि च ङीब्डीषोर्विकल्पः । क्वचिद् गौरादिपाठात् सिद्धमिति पठ्यते, तद् रूपमात्रसिद्ध्यभिप्रायं द्रष्टव्यम्, स्वरार्थं तूपसंख्यानं कर्तव्यमेव " इत्युक्तत्वात्, भा-३, ४। १ । १५ ।।, पृ. २९९ ॥
१ बाल्ययौवनयोर्मध्ये भवा वर्तमाना मध्यमा । 'मध्यान्म: ४ | ३ |८ ॥ इति मः । बाल्ययौवनयोर्मध्ये मा लक्ष्मीर्यस्या वा । २ दृष्टमनुभूतं रजो यया, यस्या वा दृष्टरजाः, प्रथमप्राप्तरजा इत्यर्थः । ३-६ तरति प्लवते युवानमिति ५० तरुणी, तलुनी च । 'तृ प्लवनतरणयो:'(भ्वा.प.से.), 'कृवृदारिभ्य उनन् ' (उणा-३३३) इत्यनुवर्तमानें' 'त्रो रश्च वा (उणा - ३३४) इति सूत्रेण तरतेरुरन् रश्च वा लत्वम्, 'कपिलिकादीनां संज्ञाच्छन्दसोर्वा [रो] लत्वमापद्यते ' ( ) इति वा लत्वम्, 'वयसि प्रथमे ४ |१ | २० ॥ इति ङीप् । ४ यौति देहेन
४०
For Private & Personal Use Only
www.jainelibrary.org