________________
१०
२१६
वीतदम्भस्त्वकल्कनः ॥४९०॥
१ विशेषेण इतो गतो दम्भः कपटमस्माद् वीतदम्भः । २ नास्ति कल्कनं शाठ्यमस्य अकल्कनः । द्वे निः कपटस्य ॥४९०॥
अभिधानचिन्तामणिनाममाला
प्रणाय्योऽसम्मतः
१ प्रणीयते प्रणाय्यः । ' णीञ् प्रापणे' (भ्वा.उ. अ.), 'प्रणाय्योऽसम्मतौ ' ३ । १ । १२८ ॥ इति साधुः । २ न सम्मतः असम्मतः । द्वे सामान्येन अनभीष्टस्य । 'चोरादि असोहामणा' इति भाषा ॥
अन्वेष्टाऽनुपदी
१ अनु पश्चाद् एषति (इष्यति) गच्छति अन्वेष्टा । अनुपूर्वः 'इष गतौ ' ( दि.प.से.), तृच्, 'पुगन्तलघूप- '७।३।८६ ॥ इति गुणः । २ अनुपदमन्वेष्टा अनुपदी । 'अनुपद्यवेष्टा' ५ २ १९० ॥ हैमसू - ७ । १ । १७० ॥ ) इति सूत्रेण अनुपदीति निपात्यते, अन्वेष्टा चेद् भवति । अनुपदिनौ, अनुपदिनः इत्यादि । द्वे 'पागी' इति ख्यातस्य ॥
अथ सहः क्षमः ।
शक्तः प्रभूष्णुः
१ सहते सहः । ' षह मर्षणे ' (भ्वा.आ.से.), अच्। २० २ क्षमतें क्षमः । 'क्षमूष् सहने ' (भ्वा.आ.से.), अच् । ३ शक्नोति शक्तः । ' शक्लृ शक्तौ ' (स्वा.प.अ.), निष्ठा । ४ प्रभवतीत्येवंशीलः प्रभूष्णुः । ' ग्लाजिस्थश्च ग्स्नुः ३ ।२।१३९ ॥ अत्र सूत्रे 'चाद् भुवश्च' इति वचनाद् ग्स्नुः, 'युकः कितिः ७।४। ११ ॥ इत्यत्र गकारप्रशेषान्नेट् । प्रभविष्णुरपि । चत्वारि समर्थस्य । " समर्थ: अलम्भूष्णुः "[ शैषनाममाला ३ |१०८ ॥ ] शैषिके ॥
भूतांत्तस्त्वाविष्टः
१ भूतेन आत्तो गृहीतो भूतात्तः । २ आविशति संरभते स्म आविष्टः । 'विश प्रवेशने ' ( तु.प.अ.), निष्ठा । " प्रेतादिभिर्गृहीतो यः स आविष्टो भ्रमन् बहिः "[हारावली, ३० अर्धोकावधिः, श्रो- ६६ ] इति पुरुषोत्तमः । द्वे भूतपीडितस्य ॥ शिथिलः श्लथः ॥४९१॥
१ श्रन्थते शिथिलः । ' श्रथि शैथिल्ये' (भ्वा.आ.से.),
[ मर्त्यकाण्डः-३ 'अजिरशिशिरशिथिलस्थिरस्फिरस्थविरखदिरा: ' (उणा-५३) इति सूत्रे किरजन्तः साधुः, रलयोरभेदः । २ श्रथयति श्लथः । 'भूथ शैथिल्ये ( ), अच् । द्वे शिथिलस्य ॥४९१ ॥ संवाहेकोऽङ्गमर्दः स्यात्
Jain Education International
१ संवाहयत्यङ्गानि संवाहक: । 'वह प्रपाणे' (भ्वा.उ. अ.), णिजन्तः ण्वुल् । २ अङ्गानि मर्दयति अङ्गमर्दः । 'मृद मर्दने' (भ्वा.आ.से), पचाद्यच् । द्वे 'मर्दनीया' इति ख्यातस्य ॥
नष्टबस्तु निष्कलः ।
१ नष्टं विलीनं बीजं रेतोऽस्य नष्टबीजः । २ निर्गतं कलं रेतोऽस्य निःकलः । द्वे गतवीर्यस्य ॥ ओसीन उपविष्टः स्यात्
१ आस्ते आसीनः । 'आस् (आस) उपवेशने ' (अ.आ.से.), 'लटः शतृशानचावप्रथमासमानाधिकरणे ३ ।२ ।१२४॥ इति शानच्, 'ईदासः '७।२।८३ ॥ इत्याकारस्येकारः । २ उपविशति स्म उपविष्टः । 'विश प्रवेशने ' ( तु.प.अ.), क्तः । द्वे उपविष्टस्य । 'बइठा' इति भाषा ॥
ऊर्ध्व ऊर्ध्वन्दमः स्थितः ॥ ४९२ ॥ ५०
१ ऊर्दते परिमाति क्रीडति वा ऊर्ध्वः । 'ऊर्दङ् (उर्द) माने क्रीडायां च ' (भ्वा.आ.से.) 'उर्देर्ध च' (हैमाणा - ५०७ ) इति वः । २ ऊर्ध्वं दाम्यति ऊर्ध्वन्दमः । 'दम (दमु) उपशमे' (दि.प.से.), अच् । 'ऊर्ध्वम्' इति मान्तमव्ययम् । ३ तिष्ठति स्म कार्याय स्थितः । ष्ठा गतिनिवृत्तौ ' (भ्वा.प.अ.), निष्ठा, 'स्थाघ्वोरिच्च' १ ।२ । १७ ॥ । त्रीणि 'ऊभा' इति ख्यातस्य ॥ ४९२ ॥
अध्वनीनो ऽध्वगोऽध्वन्यः पान्थः पथिंकदेर्शिकौ । प्रवासी
१. प्राणा-' इति ४ ॥ २. 'चौरादि' इति१.२ ॥ ३. 'पगी' इति१.२ ॥ ४. 'क्षमन्ते' इति १ ॥ ५. 'संरंभते' इति ३ ॥ ६. 'श्रथ भूथ क्लथ क्रथ हिंसार्थाः ' इत्यत्र भूथधातुमैत्रेयेणैवोक्तत्वाद् हिंसार्थकः ॥ ७. 'बेठा' इति ३ ॥ ८. 'ऊ-' इति १.४ ॥
४०
१ अध्वानमलं गच्छति अध्वनीनः । ' अध्वनो ६० यत्खौ '५।२।१६॥ इति खः, 'आयनेयी- '७।१।२ ॥ इति खस्येनादेश:, 'ये चाभावकर्मणोः '६ १४ । १६८ ॥ इति प्रकृतिभावान्न टिलोपः । २ अध्वानं गच्छति अध्वगः । 'अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु ड : ' ३ ।२।४८ । । ३ अध्वानमलं गच्छति
For Private Personal Use Only
www.jainelibrary.org