________________
४८६-४९० ]
समयः प्राणिद्यूतम्
व्युत्पत्तिरत्नाकरकलिता
१ सं सम्यग् हर्षेणाऽऽहूयन्ते जना अत्र समाह्वयः । 'ह्वेञ् आह्वाने'(भ्वा.उ.अ.), 'पुंसि संज्ञायाम् ' ३ | ३ |११८ ॥ इति घः । प्राणिभिर्मेषकुक्कुटादिभिर्द्यूतं प्राणिद्यूतम्, तस्यैकम् । "समाह्वयः स्यात् सङ्ग्रामे द्युते पशुपक्षिणो: "[ विश्वप्रकाशकोशः, यान्तवर्ग:, श्रो- ११०] इति महेश्वरः ॥
व्यालग्राह्याहितुण्डिकः ।
१ व्यालान् सर्पान् गृह्णातीत्येवंशीलो व्यालग्राही ।
'ग्रह उपादाने '(क्र्या.उ.से.), 'नन्दिग्रहिपचा - ३ |१ | १३४॥ इत्या१० दिना णिनिः । २ अहितुण्डेन दीव्यति आहितुण्डिकः । तेन दीव्यतिखनति- '४।४।२ ॥ इति ठक् । अहितुण्डिको ह्रस्वादिपीति शब्दप्रभेदः । " व्यालग्राहोऽहितुण्डिकः''[ ']इत्यमरमाला । अस्तुण्डमस्यायत्तत्वेनास्तीति । 'अत इनिठनौ' ५।२।११५ ॥ इति ठन्, 'ठस्येकः ७।३।५० ॥ । द्वे 'गारुडी' इति ख्यातस्य ॥
स्यान्मनोजवसस्ताततुल्यः
१ मनो जवति प्रविशति मनोजवस: । 'जुः' सौत्रो गतौ, अत्रौणादिकोऽसच्प्रत्ययो बाहुलकात् । मनोजेऽभिलाषे वसतीति वा । 'वस निवासे' (भ्वा.प.अ.), अच् । मनो २० जवतेऽस्मिन् पिताऽयमिति धावति मनोजव इत्यपि । " जनः पितृसधर्मा यः स ताताऽर्हो मनोजवः " [] इति व्याडि: । तातेन पित्रा तुल्यः ताततुल्यः । एकं तातसदृशस्य ॥ शास्ता तु देशकः ॥ ४८८॥
१ शास्ति शास्ता । 'शासु अनुशिष्टौ ' ( अ.प.से.), 'तृन् '३ ।२।१३५ ॥ तृच् वा । २ दिशति देशकः । 'दिश अतिसर्जने'(तु.प.अ.), ण्वुल् । शासक: शिक्षकश्च । द्वे
शास्तुः । 'सीखावणहार' इति भाषा ॥४८८ ॥ सुकृती पुण्यवान् धन्यः
१ सुकृतमस्याऽस्ति सुकृती । 'अत इनिठनौ' ५२३० ११५ ॥ इतीनि । २ पुण्यमस्यास्ति पुण्यवान् । 'तदस्यास्ति-'
Jain Education International
२१५
५ । १ । ९४ ॥ इति मतुप् '[मादुपधायाश्च] मतोर्वोऽयवादिभ्यः ' ८।२ ।९ ॥ इति वत्वम् । ३ धनं लब्ध्वा धन्यः । 'धनगणं लब्ध्वा ४ ४ ८४ ॥ इति यत् । त्रीणि पुण्यवतः ॥
मित्रेयुर्मित्रवत्सलः ।
For Private
१ मित्रं स्नेहाद् याति मित्रयुः । ' या प्रापणे ' ( अ.प.अ.), मृगय्वादित्वात् कुः, 'आतो लोपः - '६ ४१६४ ॥ | मित्रेषु वत्सलो मित्रवत्सलः । एकं मित्रवत्सलस्य ॥
क्षेमङ्करो रिष्टतातिः शिवतातिः शिवङ्करः ॥४८९॥
१ क्षेमं करोति क्षेमङ्करः । 'क्षेमप्रियमद्रेऽण्च ३ ।२।४४॥ इति खच्, खित्त्वाद् मुम् । अणि क्षेमकरोऽपिं । (२ "रिष्टे क्षेमता भूयादस्य रिष्टतातिः) । ३ शिवस्य करः शिवतातिः । 'शिवशमरिष्टस्य करे ४ । ४ । १४३ ॥ तातिल् । ४ शिवं करोति शिवङ्करः । खच् । चत्वारि शुभकारिणः ॥४८९॥ श्रद्धलुरास्तिकः श्राद्धः
१ श्रद्धानशीलः श्रद्धालुः । 'स्पृहिगृहि - '३ ।२।१५८ ॥ इत्यालुच् । २ अस्ति परलोकः, पुण्यं पापं चेति परलोकै मतिरस्य आस्तिकः । ' अस्तिनास्तिदिष्टं मति : '४।४।६० ॥ इति ठक् । ३ श्रद्धाऽस्त्यस्य श्राद्धः । 'प्रज्ञा श्रद्धाचवृत्तिभ्यो णः '५ ।२ । १०१ ॥ । " श्राद्धं निवापे श्राद्धस्तु त्रिषु श्रद्धासमन्विते''[विश्वलोचनकोश:, धान्तवर्गः, श्रो- २२] इति ५० श्रीधरः । स्त्रियां टापि श्राद्धा, गङ्गावत् । त्रीणि श्रद्धावतः ॥ नास्तिकस्तद्विपर्यये ।
१ नास्ति परलोके मतिरस्य नास्तिकः । ' अस्तिनास्तिदिष्टं मति: ४ । ४ । ६० ॥ इति ठक् । तस्य आस्तिकस्य, विपर्ययो वैपरीत्यम्, तत्र । एकं श्रद्धारहितस्य ॥
वैरङ्गिको विरोगार्हः
१. ' पक्षिभिः' इति विश्वप्रकाशकोशे, यान्तवर्ग:, श्रो- ११०, पृ. १२३ ॥ २. द्र टीकासर्वस्वम्, भा-१, १८ १११ ॥, पृ. १७२ ॥ पदचन्द्रिका, भा१, भोगिवर्गः, श्रो- २२५, पृ. २६६ ॥ रामाश्रमी १।८।११ ॥, पृ. ११६ ॥ ३. 'मरनाममाला' इति४ ॥ ४. 'मनोजवः' इति१.२.३ ॥ ५. 'अ-णा- ' इति१, 'अत्रोणा' इतिर, 'उणा-' इति ३ ॥ ६. द्र. स्वोपज्ञटीका ३।४८८ ॥, पृ. ११२ ॥ ७ इतोऽग्रे ३प्रतौ 'इति' इति दृश्यते ॥ ८. 'शास्' इति ३ ॥ ९. ' - करोऽपि ' इति १ ॥ १०. कोष्ठान्तर्गतपाठः १.२.४प्रतिषु न दृश्यते ॥ ११. अनावश्यकोऽयं प्रतिभाति ॥ १२. 'अर्ह पूजायाम्' इति क्षीरतरङ्गिण्यादौ ॥
१ नित्यं विरङ्गमर्हति वैरङ्गिकः । 'छेदादिभ्यो नित्यम्' ५।१।६४ ॥ इति तदर्हतीति विषये विरङ्गाट्ठक् । २ विरागमर्हति विरागार्हः । 'अर्ह अर्हर्णे'' (भ्वा.प.से.), पचाद्यच् । द्वे 'विरागी' इति ख्यातस्य ॥
४०
Personal Use Only
६०
www.jainelibrary.org