________________
१०
२०
३०
२१४
तुक् । ३ धूर्वति हिनस्ति धूर्तः । उर्वी तुर्वी धुर्वी हिंसार्थो दण्डकधातुः, 'हसिमृग्रिण्वाऽमि - ' ( उणा - ३६६ ) इत्यादिना तन्, 'राल्लोपः '६ ४ ॥ २१ ॥ इति वलोपः । धावन्ती अर्तिः धूर्ति:, तद्योगाद्धूर्त इति वा । 'प्रज्ञादिभ्यश्च '५ । ४ १३८ ॥ इति अण्, 'अच्चौ ' इति दीर्घः । ४ अक्षेषु धूर्तः अक्षधूर्तः । 'सप्तमी
डैः २ १ ४० ॥ इति समासः । ५ अक्षैर्दीव्यति विजिगीषते अक्षदेवी । 'दिवु क्रीडादौ ' (दि.प.से.), ग्रहादित्वाणिनिः, तत्र। पञ्च धूर्तस्य । 'जूआरी' इति भाषा ॥ ४८५ ॥
अभिधानचिन्तामणिनाममाला
दुरोदरं कैतवं च द्यूतमक्षवती पणः ।
१ दुष्टमासमन्तादुदरमस्य दुरोदरम्, पुंक्ली । २ कितवस्य कर्म कैतवम् । युवादित्वादन् । ३ दीव्यते स्म द्यूतम्, पुंक्ली । 'दिवु क्रीडादौ ' (दि.प.से.), निष्ठा, 'यस्य विभाषा ७ । २ । १५ ॥ इति नेट्, 'च्छ्वोः शूडनुनासिके -'६ । ४ । - १९॥ इति वकारस्य ऊठ्, 'इको यणचि '६ ॥१॥ ७७ ॥ इति यणादेशः । ४ अक्षाः पाशका उपायत्वेनाऽत्र सन्तीति अक्षवती । ‘तदस्यास्ति-'५।२९४ ॥ इति मतुपिं शब्दशक्तिस्वाभाव्यात् स्त्रीत्वम् । ५ द्यूते यदुत्सृज्यते, स पणः, तद्योगादर्शआद्यचि पणः । पञ्च द्यूतस्य ॥
पाशकः प्रासकोऽक्षश्च देवनः
१ पाश्यते बध्यतेऽनेन पाशकः । पाशेः सौत्रात् तालव्यान्ताद् ण्वुल् । ‘पश बन्धने ' ( चु.उ.से.) णिजन्ताद्वा । २ प्रास्यन्ते क्षिप्यन्तेऽनेन प्रासकः । 'असु क्षेपणे '(दि.प.से.), दिवादिः, ण्वुल् । ३ अक्षति व्याप्नोति अक्षः | 'अक्ष (अक्षू) व्याप्तौ '(भ्वा.प.वे.), पचाद्यच् । यद्वा 'अशूङ् व्याप्तौ ' (स्वा.आ.वे.), 'अशेर्देवेन'(उणा-३४५ ) इतिं सप्रत्ययः, 'व्रश्च -' ८।२।३६॥ आदिना षत्वम्, षढोः कः सि' ८।२ ४१ ॥ इति कत्वम् । ४ दीव्यन्त्यनेन देवनः । ल्युट् । चत्वारि 'पासा' इति ख्यातस्य ॥
तत्पणो ग्लेहः ॥ ४८६ ॥
१ तेषु अक्षेषु पणो बन्धो जय्यत्वे स्थापितमित्यर्थः,
[ मर्त्यकाण्डः-३ तत्पणः । " पणोऽक्षेषु ग्लह : " [ अमरकोषः २ ॥१० ॥४५ ॥] इत्यमरः । पण्यते पणः बन्ध इति तट्टीका । “पणो द्यूतादिषूत्सृष्टे भृतौ मूल्ये धनेऽपि च ' [ अमरकोषः ३ | ३ |४६ ॥ ] इत्यमरसिंहानेकार्थः । ‘‘द्यूतादावुत्सृष्टं जय्यत्वें स्थापितम् "[अम. क्षीर. ३ | ३ |४६ ॥ ] इति क्षीरस्वामी । पणोऽप्यस्यार्थे । यच्छाश्वतः" ग्लहे माने श्वेतकानां मूल्ये कार्षापणे धने ।
द्यूतादौ कल्पिते चैव बद्धमुष्टौ भृतौ पणः ॥ १॥" [शाश्वतकोशः, श्ले - ६८ ]इति । गृह्यते ग्लहः । 'ग्रह उपादाने ' (क्र्या.उ.से.), ग्रहेर लत्वं च, 'अक्षेषु ग्लह : '३ ॥३ ॥ ७० ॥ इति निपातनात् साधुः । एकं द्यूतादौ जय्यत्वे स्थापितस्य ॥४८६ ॥ अष्टापदः शारिफलम्
४०
Jain Education International
१ अष्टौ पदानि स्थानान्यत्र अष्टापदः । 'अष्टनः संज्ञायाम् '६ |३ | १२५ ॥ इति दीर्घः । " अष्टापदोऽस्त्री कनके शारीणां फलकेऽपि चै"[मेदिनीकोशः, दान्तवर्ग:, श्रो- ४४] इति मेदिनिः । २ शारीणां फलं फलकं शारिफलम् । शारयः फैलन्त्यत्रेति वा । पुंक्लीबलिङ्गावेतौ । "फलं हेतुसमुत्थे स्यात् फलके व्युष्टिलाभयोः ''[विश्वप्रकाशकोशः, लान्तवर्गः, श्री२] इति विर्श्वः । द्वे खेलनाधारचतुरङ्गफलकादेः ॥ शोरः शौरिश्च खेलनी ।
१ शार्यते" मार्यते शारः, पुंस्त्री. । ' शृ हिंसायाम् ' ५० (क्र्या.प.से.), कर्मणि घञ् । २ शृणन्त्येनां शारिः, स्त्रीलिङ्गः । 'शृ हिंसायाम् ' (क्र्या.प.से.), इञ् । शाब्दिकास्तु परिणायेन शारीन् हन्तीति पुंस्यप्युदाहरन्ति । ३ खेल्यतेऽनया खेलनी । 'खिलृ क्रीडने ं'(भ्वा.प.से.), करणे ल्युट् गौरादिः । त्रीणि शारस्य । 'सारि' इति भाषा ॥
परिणयस्तु शारीणां नयनं स्यात् समन्ततः ॥४८७॥
१ वामदक्षिणयोः शारीणां परितः समन्तान्नयनं परिणायः । ' णीञ् प्रापणे' (भ्वा.उ. अ.), 'परिण्यो (परिन्यो)नणो:-'३।३।३७॥ द्यूते घञ् । एकं 'शारिनुं चलाविवउं", इति भाषायाः ॥ ४८७ ॥
१. 'उर्वी तुर्वी दुर्वी धुर्वी हिंसार्था:' इति स्वामी, भ्वादि:, धातुसं-३७८, पृ. ८८ ॥, 'उर्वी तुर्वी थुर्वी दुर्वी धुर्वी हिंसार्था:' इति सायणः, भ्वादि:, धातुसं-१५५ ॥ २. ‘वल्लोपः' इति२.३ ॥ ३. ' - णच्' इति ३ ॥ ४. 'क्रीडने' इति ३ ॥ ५. 'नेटा' इति४ ॥ ६. 'मतुप्' इति ४॥ ७. 'अच्' इति२.४ ॥ ८. स्वामिसम्मतोऽयं धात्वर्थः, 'व्याप्तौ सङ्घाते च' इति मैत्रेयसायणौ । अत्र ङकारानुबन्धोऽनावश्यकः ॥ ९ ३ प्रतौ नास्ति ॥ १०. 'जय्यते' इति१.२.४ ॥ ११. तुलनीयोऽमरकोषः २ ११० ॥ ४६ ॥ १२. 'फलके च' इति २ ॥ १३. 'फलत्य -' इति२ ॥ १४. 'विनिश्व:' इति१.२, 'श्विश्व:' इति ३ ॥ १५. 'शर्यते' इति१, 'शीर्यते' इति२ ॥ १६. 'खिल' इति ३.४ ॥ १७. क्रीडनेऽर्थे खिलृधातुर्न दृश्यते, परं तु क्षीरतरङ्गिण्यादौ चलनेऽर्थे दण्डात्मको 'खेल' धातुर्दृश्यते ॥ १८. ' - विवुं' इति३ ॥
For Private Personal Use Only
६०
www.jainelibrary.org