________________
२०
४६८-४७१ ]
प.आ.), अधिकरणे किन् । २ कुत्सितं रमतेऽनेन कुरण्डः । 'रमु क्रीडायाम् ' (भ्वा.आ.अ.), 'ञमन्ताड्डुः' (उणा - १११) । अण्डस्य वर्धनं वृद्धिः अण्डवर्धनम्, तत्र ।
व्युत्पत्तिरत्नाकरकलिता
" अत ऊर्ध्वमण्डवृद्धिर्दृश्यते भिषजांवरं । । बाल्यान्मातुः पितुर्दोषाज्जायते वृषणानुगा ॥१॥" [ ] इत्यात्त्रेयः । द्वे अण्डवृद्धेः ॥
अश्मरी स्यान्मूत्रकृच्छ्रे
१ अश्मानं रात्यादत्ते अश्मरी 'रा दाने ' ( अ.प.अ.), 'आतोऽनुपसर्गे कः ३ ॥२॥३॥ आतो लोपः, गौरादिः । २ १० मूत्रे कृच्छ्रमस्माद् मूत्रकृच्छ्रम्, तत्र । द्वे मूत्रकृच्छ्रस्य । वैद्यशास्त्रेऽनयोर्भेद:
"पितृमातृकदोषेणाऽथवा मूत्रनिरोधनात् ।
अल्पपथ्याऽभिचारैश्च जायते वाऽश्मरीगदः ॥ १ ॥ " [ ] इत्यादिदर्शनादश्मरीशब्देन 'पाणहि' इत्युच्यते । मूत्रकृच्छ्रशब्दस्य 'दोषमूत्रा' इति भाषा । यदात्त्रेयः
"पित्तप्रकोपनैद्रव्यैः कट्वम्ललवणैस्तथा । गौरीस्त्रीसेवनेनाऽपि रक्तं चापि प्रवर्तते ॥२॥ मद्यपानेन चोष्णेन श्रमव्यायामपीडिते । पित्तं पक्वाशये प्राप्तं करोति मूत्रकृच्छ्रकम् ॥३॥ तेन मूत्रयते कृच्छ्रादुष्णधारा प्रवर्तते । मूत्रश्रोत्रं च वहति रतं चापि प्रवर्तते ॥४॥ [ ]इति भेदमनाश्रित्योक्तम्, तथापि भेदद्वयं व्याख्येयम् ॥ प्रमेहो बहुमूत्रता ॥४७०॥
१ प्रमेहयति मूत्रयति प्रमेहः । 'मिह सेचने ' ( भ्वा. प.अ.) अच् । प्रमेहनं वा भावे घञ् । मेहोऽपि दीप प्रदीपवत् । बहुमूत्रस्य भावो बहुमूत्रता । तस्य भावस्त्वतलौ' ५ । १ । ११९ ॥ इति तत् (तत्) । एकं प्रमेहस्य ॥४७० ॥ आनाहस्तु विबन्धः स्यात्
१ आनहनम् आनाहः । 'नह (गह ) बन्धने' (दि. - ३० उ. अ.), आङ्पूर्वः, 'भावे '३ | ३ |१८ ॥ घञ्, 'अत उपधायाः '
७२ । ११६ ॥ वृद्धिः । २ विबन्धनं विबन्धः । 'बन्ध बन्धने'
Jain Education International
(क्र्या.प.अ.), 'भावे '३ | ३ |१८ ॥ घञ् ।
"आमं शब्द वा निचितं क्रमेण भूयो विबद्धं विगुणानिलेन । प्रवर्तमानेन (मानं न ) यथास्वमेनं विकारमानाहमुदाहरन्तिं ॥१॥" [माधवनिदानम्, उदावर्तानाहनिदानम् - २७, श्रो- १७, (सुश्रुतसंहिता, उत्तरतन्त्रम्, अध्या ५६, श्री २०-२१ ॥ ) ] इति माधवनिदानम् । द्वे आनाहस्य 'बंध आफर ' इति भाषा ॥ ग्रहणी रुके
२०७
११
१ गृह्यतेऽनया ग्रहणी गृह्णा (ह्रा) तेरनि!' (उणा७४५) इत्यनिः, ततो ङीप् । 'कृत्यल्युटो बहुलम् ' ३ | ३ | ११३ ॥ ४० इति वा ल्युट् । ग्रहणी जाठरोऽग्निः, तच्छैथिल्याद् रुक् रोगः । यन्माधवनिदानम्
१३
44
'एकैकशस्सर्वशश्च दोषैरत्यर्थमूर्च्छितैः ।
सा दुष्टा बहुशो भुक्तमाममेव विमुञ्चति ॥१॥ पक्कं वा सरुजं पूर्ति मुहुर्बद्धं मुहुर्द्रवम् । ग्रहणी रोगमाहुस्तमायुर्वेदविदो जनाः ॥२॥" [माधवनिदानम्, ग्रहणीरोगनिदानम्-४, भो-२-३॥ सुश्रुतसंहिता, उत्तरतन्त्रम्, अध्या-४०, श्रो- १७१-१७२ ) ] इति । एक सङ्ग्रहणीरोगस्य ॥
प्रवाहिका ।
१ प्रकर्षेण वहति स्त्रवत्यस्या गुदमिति बहुवावे - प्रवहणं प्रवाहिका । 'वह प्रापणे' (भ्वा. उ. अ.), 'रोगाख्यायां ण्वुल् बहुलम् ३ ३ ११०८ ॥ । एकं 'मरोडा' इति ख्यातस्य ॥ व्याधिप्रभेदा विद्रधिभगन्दरज्वरादयः ॥ ४७१ ॥
१६.
विद्रधिश्च भगन्दरश्च ज्वरश्चेति द्वन्द्वे विद्रधिभगन्दरज्वराः, ते आदिर्येषां ते विद्रधिभगन्दरज्वरादयः । व्याधीनां रोगाणां प्रभेदा व्याधिप्रभेदाः । विद्रधिलक्षणं त्वेवं माधवनिदाने
" त्वग्रक्तमांसमेदांसि प्रदूष्यास्थिसमाश्रितः । पृथग्दोषशतं घोरं जनयत्युच्छ्रितो भृशम् ॥१॥ महामूलं सजीवं तं वृत्तं चाऽप्यथवाऽऽयतम् । स विद्रधिरिति ख्यातो विज्ञेयः षड्विधश्च सः ॥२॥"
१. ' - वरे' इति४ ॥ २. 'मदः' इति४ ॥ ३. 'पणहि' इति४ ॥ ४. मूर्त' इति४॥ ५. 'द्वयसं' इति१, 'द्वसं' इति४ ॥ ६. 'तुलनीयोऽमरकोषः २६५५ ॥ ७ - दीरयन्ति' इति ३ ॥ ८. 'रौ' इति ३ ॥ ९ तुलनीयोऽमरकोषः २ ६ १५५ ॥ अत्र ग्रन्थकृन्मते ग्रहणीप्रवाहिकयोरैक्यं दृश्यते, टीकाकृन्मते भेदो ज्ञायते ॥ १०. 'गृहा-' इति १.२.४ ॥ ११. 'ग्रहेरनिः' इत्युणादिसूत्रम् ॥ १२. 'ङीष्' इति १.२.४ ॥ १३. 'जठ' इति ३ । १४. 'पूतं' इति ३ ॥ १५. - श्रावे' इति३ ॥ १६. 'विद्रधि-' इति १.२.४प्रतिषु नास्ति ॥
For Private & Personal Use Only
५०
६०
www.jainelibrary.org