________________
२०८
[माधवनिदानम्, विद्रधिनिदानम् - ४०, ले-१-२ ( सुश्रुत - संहिता, निदानस्थानाम्, अध्या- ९, श्री - ४ - ५ ) ] इति । चरके तु दाहप्रकर्षात् संज्ञा, यथोक्तम् - " स वै शीघ्रविदाहित्वाद् विद्रधीत्यभिधीयते ''[ चरकसंहिता, सूत्रस्थानम्, अध्या-१७, लो-९५]इति । स्त्रीलिङ्गोऽयम् । पुंस्यपि वैजयन्ती, यदाह“विद्रधिर्न षण्”[वैजयन्तीकोष : ४|४|१३७ ॥ ] इति । ङीष विद्रधी, नदीवत् । भगन्दरलक्षणं चेदम्
"गुदस्य द्व्यङ्गुले क्षेत्रे पार्श्वतः पिटकार्त्तिकृत् ।
भिन्ना भगन्दरो ज्ञेयः स च पञ्चविधो मतः ॥३॥ " १० [ माधवनिदानम्, भगन्दरनिदानम् - ४६, श्रो- १] इति माधवनिदानम्। “गुदबस्तिभगं दरणाद् भगन्दर : " [सुश्रुतसंहिता, निदानस्थानम्, सू-३]इति शुश्रुतो निरुक्तवान्। तथा भोजोऽपि "भगं परिसमन्ताच्च गुदं बस्तिं तथैव च ।
भगवद् दारयेद् यस्मात् तस्माद् ज्ञेयों भगन्दरः ॥४॥" [ ]इति । ज्वरयति ज्वरः । 'ज्वर रोगे ' (भ्वा.प.से.), अच् । आदिशब्दादर्बुदादयः ॥
ज्ञस्तुभ वैद्य आयुर्वेदी चिकित्सकः । रोगहार्यगर्दङ्कारः
१ दोषान् वातपित्तश्लेष्मलक्षणान् जानाति दोषज्ञः । २० 'ज्ञा अवबोधने' (क्र्या.प.अ.), 'इगुपध- '३।१।१३५ ॥ इति कः, 'आतो लोप [इटि] च '६ ४ ६४ ॥ इत्यालोपः । २ भिषज्यते भिषक् । 'भिषज् चिकित्सायाम्,' कण्ड्वादिः, क्विप् । 'भिष् रुग्जये,' सौत्रो वा 'ऋधिपृथि - ' (हैमोणा - ८७४) इति किदच् । ३ भिषग्विद्यां वेत्ति वैद्यः । 'तदधीते तद्वेद ४ । २ । ५९ ॥ इत्यण् । ४ आयुर्वेत्तीत्यवंशील आयुर्वेदी । 'विद ज्ञाने' (अ.प.से.),
१. माधवनिदाने
अभिधानचिन्तामणिनाममाला [ मर्त्यकाण्डः-३ 'सुप्यजातौ - '३।२ ७८ ॥ इति णिनिः । आयुर्वेदिकोऽपि । ५ चिकित्सति रोगिणं चिकित्सकः । 'किति निवासे रोगापनयने, संशये चं' (भ्वा.प.से.) 'गुप्तिज्किद्भ्यः - '३।१।५ ॥ इति सन्, 'सन्यङोः '६।१।९ ॥ इति द्वित्वम्, 'कुहोश्रुः '७।४।६२॥, 'सन्यतः '७ १४ १७९ ॥ इति इत्त्वम्, ततो ण्वुल् । ६ रोगं हरतीत्येवंशीलो रोगहारी । 'हृञ् हरणे ' (भ्वा.उ. अ.), 'सुप्यजातौ - '३ ।२७८ ॥ इति णिनिः । ८ अगदमरोगं प्राणिनं करोति अगदङ्कारः । 'करे सत्यागदस्य '६ । ३ ७० ॥ इति मुम् । सप्त वैद्यस्य ॥
भेषजं तन्त्रमौषधम् ॥४७२॥
सुश्रुतसंहितायां च
Jain Education International
"त्वग्रक्तमांसमेदांसि संदूष्यास्थिसमाश्रिताः । दोषाः शोथं शनैर्घोरं जनयन्त्युच्छ्रिता भृशम् ॥१॥ महामूलं रुजावन्तं वृत्तं वाऽप्यथवाऽऽयतम् । स विधिरिति ख्यातो विज्ञेयः षड्विधश्च सः ॥ २ ॥ " इति, (माधवनिदानम्, उत्तरार्धम्, विद्रधिनिदानम्, -१-२, पृ.८० ॥ )
भैषज्यमगदो जायुः
१ भिषज्यत्यनेन भेषजम् । 'भिषज् चिकित्सायाम्' (कण्ड्वादिः), अच्, 'अनन्तावसथ - ५ ४।२३ ॥ इति निर्देशाद् गुणः । भिषजो वैद्यस्येदमिति वा । 'तस्येदम् ४ | ३ | १३० ॥ इत्यण् । “भेषं रोगं जयति”[ ँ]इति दुर्ग: । २ तनोत्यारोग्यं तन्त्रम् । ४० 'तनु विस्तारे' (त.उ.से.), 'गुधृवीपचिवचियमिमनितनिसदिक्षदिभ्यस्त्रन् '(उणा-६०६) । तन्त्र्यत इति वा । ( "" तत्रि कुटुम्बधारणे' (चु.उ.से.), घञ्) । ३ ओषधिरेव औषधम्, पुंक्ली. । 'ओषधेरजातौ’५ ।४।३७ ॥ इत्यण् ॥४७२॥ ४ भेषजमेव भैषज्यम् । 'अनन्तावसथ - ५ ४ १२३ ॥ इति स्वार्थे ञ्यः । ५ अविद्यमानो गदोऽत्र अगदः । ६ जयति रोगान् जायुः, पुंसि । 'जि अभिभवे, ' ' जये' (भ्वा.प.अ.) वा, 'कृवापाजिमि - स्वदि- ' ( उणा - १ ) इत्युण्, णित्त्वाद् वृद्धि:, 'एचोऽयवायावः ' ६ ११ १७८ ॥ ॥ षडौषधस्य ॥
"त्वग्रक्तमांसमेदांसि प्रदूष्यास्थिसमाश्रिताः । दोषाः शोफं शने ( शनैर्घोरं जनयन्त्युच्छ्रिता भृशम् ॥१॥ महामूलं रुजावन्तं वृत्तं चाप्यथवाऽऽयतम् । तमाहुर्विद्रधिं धीरा विज्ञेयः स च षड्विधः ॥ २ ॥" इति दृश्यते (सुश्रुतसंहिता, निदानस्थानम्, अध्या-९, श्री - ४-५, पृ. ३०२ ) ॥ २. 'स वै' इत्यस्य स्थाने चरकसंहितायां ततः' इति दृश्यते ॥ चरकसंहिता, सूत्रस्थानम्, अध्या - १७, श्री - ९५, पृ.१०४ ॥ ३. " वातपित्तश्रेष्मसन्निपातागन्तुनिमित्ताः शतपोनकोष्ट्रग्रीवपरिस्त्राविशम्बूकावर्तो मार्गिणो यथासंख्यं पञ्च भगन्दरा भवन्ति । ते तु भगगुदबस्तिप्रदेशदारणाच्च 'भगन्दरा:' इत्युच्यन्ते । अभिन्नाः पिटकाः भिन्नास्तु भगन्दराः" इति सुश्रुतसंहिता, निदानस्थानम्, अध्या-४, सू-३, पृ. २८३ ॥ ४. 'श्रेयो' इति१ ॥ ५. द्र माधवनिदानस्य मधुकोशटीका, उत्तरार्द्धम्, भगन्दरनिदानम्, श्री-१, पृ.१३४ ॥ ६. 'रोगान्' इति २ ॥ ७. 'कित निवासे रोगापनयने च' इति स्वामिमैत्रेयसायणाः ॥ ८. 'कितेर्व्याधिप्रतीकारे निग्रहे अपनयने नाशने संशये च' इति वार्तिकेन सन् भवितुं योग्यम् ॥ ९. 'ह' इति १ । १०. द्र. अम. क्षीरस्वामिटीका २६५० ॥ पृ. १४४ ॥ ११. 'गुधृवीपचिवचियमिसदिक्षदिभ्यस्त्रः' इत्युणादिगणसूत्रम् ॥ १२. कोष्ठान्तर्गतपाठस्थाने प्रतौ 'तस्येदमित्यणे घञ्' इति दृश्यते ॥
३०
For Private & Personal Use Only
www.jainelibrary.org