SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ २० २०४ इत्यादि गङ्गावत् । क्लीबे पाम, पामनी, पामानि इत्यादि । "कच्छ्वां [तु] पाम पामा विचर्चिका" [ अमरकोषः २ १६ । - ५३ ॥ ] इत्यमरः । २ खनति त्वचमिति खसः । 'खन खनने ' (भ्वा.उ.से.), बाहुलकादसप्रत्यये निपात्यते । ३ कषति हिनस्ति शरीरं कच्छूः, स्त्रीलिङ्ग: । 'कष हिंसायाम्' (भ्वा.प.से.), 'कषेश्छ च' (उणा-८४) इत्यूप्रत्ययः, छोऽन्तादेशश्च । ४ विरुद्धं विचर्च्यते शब्दयते विचर्चिका । 'चर्च अध्ययने' (चु.उ.से.), 'रोगाख्यायां ण्वुल् बहुलम् ३ | ३ | १०८ ॥ इति ण्वुल् । चत्वारि पाम्नः ॥ १० कण्डूः कण्डूयनं खर्जूः कण्डूया १ कण्डूयते कण्डूः । 'कण्डूञ् गात्रविघर्षणै (कण्ड्वादिः), [‘कण्ड्वादिभ्यो यक्' ३ । १ । २७॥], भावे क्विप्, [' अतो लोपः '६ । ४ । ४८ ॥ इत्यल्लोपः '], 'लोपो व्योर्वलि' ६|१|६६॥ । २ ल्युट' कण्डूयनम् । ३ खर्जति व्यथते खर्जूः, स्त्रीलिङ्ग: । खर्जति मार्ष्टि सुखमिति वा खर्जूः । 'खर्ज व्यथने मार्जने च ' (भ्वा.प.से.), 'कृषिचमि- '(उणा८१ ) इत्यूः । ४ कण्ड्वादियगन्ताद् 'अ: (अ) प्रत्ययात् ' ३ | ३ |१०२॥इत्यप्रत्यये कण्डूर्या । न्यासः कण्डूतिरपि । चत्वारि 'खाजि' इति ख्यातायाः ॥ अथ क्षेतं वर्णः ॥४६४॥ अभिधानचिन्तामणिनाममाला अरु क्षणनुश्च १ क्षण्यते स्म क्षतम् । 'क्षण ( क्षणु) हिंसायाम्' (त.उ.से.), निष्ठा, 'अनुदात्तोपदेश- ६ ४ ३७ ॥ इति ण्लोपः । २ व्रणयति व्रणः, पुंक्ली. । 'व्रण गात्रविचूर्णने ' (चु.उ.से.), चौरादिकोऽदन्तः, ततोऽच् ॥ ४६४ | ३ इयर्त्ति व्यथामनेन अरुः, क्लीबे। 'ऋ गतौ' (जु.प.अ.), 'धनर्त्तिचक्षिङ्वपि -' ( ) इत्युस् । अरुषी, अरूंषि इत्यादि । ४ ईरयत्यङ्गम् ईर्मम् । 'ईर गतिकम्पनयो: '(अ.आ.से.), बाहुलकाद् 'अर्तिस्तुसुहु-' (उणा - १३७ ) इत्यादिना मन् । वैजयन्तीकारस्तु- "व्रणोऽ३० पीर्मोऽपि न स्त्रियाम्" [वैजन्तीकोषः ३ ।७।२१७ ॥]इति पुंस्य [ मर्त्यकाण्डः-३ प्याह । ५ क्षण्यते क्षणनुः, पुंसि । क्षणु हिंसायाम्' (त.उ.से.), 'अनुप्रत्ययः। पञ्च व्रणस्य । 'चांदी' इति भाषा ॥ रूढव्रणपदं किणः । Jain Education International १ रूढव्रणानां पदं स्थानं रूढव्रणपदम् । कणत्यनेन किणः, पुंक्ली. । 'कण आर्तस्वरे ' ( ), पृषोदरादित्वाद् धातोरस्येत्वम् । 'किण गतौ ' ( ), सौत्रो वा तत 'इगुपध-' ३।१।१३५॥ इति कः । एकं रूढव्रणस्थानस्य ॥ श्रीपदं पादवल्मीकः १४ १ ष्टिं पदं येन श्रीपदम् पृषोदरादिः । २ पादे वल्मीक इव पादवल्मीकः, पुंक्ली. । द्वे 'कीडी नगरुं' राफु' इति वा ख्यातस्यै ॥ पादस्फोटो विपदिकी ॥ ४६५ ॥ १ पादस्य स्फोटनं विशरणं पादस्फोटः । 'स्फुट भेदने ' (चु.उ.से.), घञ् । पादौ स्फोटयतीति, 'कर्मण्यण्-' ३ । २ ।१ ॥ वा । २ विरुद्धं पद्यते गम्यतेऽनया विपादिका । 'पद गतौ ' (दि.आ.अ.), 'रोगाख्यायां ण्वुल् - '३ |३ | १०८ ॥, टाप्, 'प्रत्ययस्थात्- '७३ ४४ ॥ इतीत्वम् । द्वे 'व्याऊ' इति ख्यातायाः ॥४६५ ॥ स्फोटक: पिटको गण्ड: १ स्फोट[य]ति स्फोट: । 'स्फुट भेदने' (चु.उ.से.), पचाद्यच्, ततः कन् [ स्फोटकः ] । विरुद्धः स्फोटों विशरणमस्मात्, 'स्फुटिर् विशरणे' (भ्वा.प.से.), घञि विस्फोटोऽपि । २ पिटति ( पेटति) संहतो भवति पिटकः, त्रिलिङ्गः । 'पिट शब्दसङ्घातयो:' (भ्वा.प.से.), कृञादिभ्यः [संज्ञायां] वुन्' (उणा७१३), औणादिकत्वाद् गुणाभावः । क्वन्नित्येके । स्त्रियां पिटका, क्षिपकादित्वात् 'प्रत्ययस्थात्- ७।३।४४ ॥ इतीत्वाभावः, पवर्गप्रथमादिः । ‘“विस्फोटा विटका स्त्रियाम् "["] इत्यमरमालायां वकारादिरपि । ३ गच्छति विकारं गण्डः । 'गम्लृ गतौ' (भ्वा.प.अ.), 'ञमन्ताड्डुः ' ( उणा - १११ ) । त्रीणि 'फोडा' इति ख्यातस्य ॥ १. 'खनु अवदारणे' इति क्षीरतरङ्गिण्यादौ ॥ २. १ प्रतौ नास्ति, 'स्त्री' इति ४ ॥ ३. 'कण्डूङ् गात्रविकर्षणे' इति १.२.३ ॥ ४. 'क्यप्' इति४ ॥ ५. 'ल्युट्' इति ३, 'ल्युटि:' इति४ ॥ ६. इतोऽग्रे १.२.४प्रतिषु 'इति' इति दृश्यते ॥ ७ 'इत्यादि' इति २ ॥ ८. 'णलोपः' इति ३ ॥ ९. उणादिगणे 'अर्त्तिपृवपियजि- '(उणा - २७४ ) इति दृश्यते ॥ १०. 'स्त्रियौ' इति वैजयन्तीकोषे, ३।७।२१७॥ पृ.८८ ॥ ११. 'अतु-' इति१.२.३ ॥ १२. 'चांडी' इति३ ॥ १३. ' - व्रणपदस्था-' इति४ ॥ १४. 'नगरूं' इति २ ॥ १५. 'व्याख्या-' इति ३ ॥ १६. तुलनीयोऽमरकोषः २।६ ॥ ५२ ॥ १७. द्र. टीकासर्वस्वम्, भा - २, २।६।५३ ॥ पृ.३१२ ॥, पदचन्द्रिका, भा-२, मनुष्यवर्गः श्रो-३११, पृ. ३९० ॥ रामाश्रमी २।६।५३ ॥, पृ. २८३ ॥ For Private Personal Use Only ४० ५० ६० www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy