________________
४६०-४६४]
पचाद्यच् । ४ स्नेहाद् भवति स्नेहभूः । क्विप् । ५ खति खटः।‘खट काङ्क्षायाम् ' (भ्वा.प.से.), पचाद्यच् । पञ्च कफस्य । “सिहानर्कः खेट: ' [ शेषनाममाला३ ॥१०७॥] शैषिके ॥ रोगो रुजा रुगातङ्को मान्द्यं व्याधिरपाटवम् ॥४६२॥ आम आमय आँकल्पमुपतपो गेंदः समाः ।
१ रुजति रोगः । 'रुजी रोगे ' (तु.प.अ.), 'पदरुजिविशस्पर्शो (पदरुजविशस्पृशो) घञ् '३ | ३ | १६ ॥ इति कर्तरि घञ् 'चजो: कु घिण्ण्यतो : '७ । ३ । ५२ ॥ इति कुत्वम् । २ रुज्यतेऽनया रुजा। 'रुजी रोगे '(तु.प.अ.), भिदादेराकृतिगणत्वादङ् । ३ १० रुजति देहं रुक्, स्त्रीलिङ्गौ । 'रुजो भङ्गे ' (तु.प.अ.), 'क्विप्-'३।२।७६ ॥ इति क्विप् । ४ आतङ्कत्यनेन आतङ्कः । 'तकि कृच्छ्रजीवने'(भ्वा.प.से.), घञ् । ५ मन्दस्य भावो मान्द्यम् । ६ विविधा आधयो मनः पीडा अस्माद् व्याधिः । " विविधान् यः करोत्याधीन् व्याधिः, स हि निरुच्यते "[]इति वाचस्पतिः । विशेषेणाधीयते स्थाप्यते कुपथ्यैरिति वा । 'डुधाञ् धारणादौ' (जु.उ. अ.), ‘उपसर्गे घोः किः'३।३।९२ ॥ । ७ न पाटवम् अपाटवम् ॥४६२ ॥ ८ आमयति रुजति आम: । 'अम रोगे' (चु.उ.से.), चुरादिः, पचाद्यच् । अमनं' वा 'भावे '३ ३ ११८ ॥ घञ् । “अमोऽपि''[ ]इति शब्दप्रभेदः । ९ आ समन्ताद् २० मीनाति हिनस्ति देहम् आमयः । 'मीञ् हिंसायाम् ' (क्र्या.उ.अ.),
व्युत्पत्तिरत्नाकरकलिता
पचाद्यच् । यद्वा आमयति । 'अम् ( अम) रोगे ' ( चु.उ.से.), ण्यन्तात् पचाद्यचिं 'क्यस्य विभाषा '६ । ४ । ५० ॥ इत्यतो विभाषाग्रहणस्य व्यवस्थितविभाषात्वाद् [न] णिलोप:, संज्ञापूर्वकानित्यवात् []इत्यन्यः । १० अकलस्य भाव आकल्यम् । ११ उपतापयति देहमनसी उपतापः । 'तप सन्तापे ' (भ्वा.प.अ.), णिजन्तः, पचाद्यच् । करणे वा घञ् । १२ गदति व्यनक्ति व्यथां गदः । 'गद व्यक्तायां वाचि' (भ्वा.प.से.), पचाद्यच् । सामान्येन द्वादश रोगस्य ॥
अथ विशेषत आह
३० क्षयः शोषो राजयक्ष्मा यक्ष्मा
Jain Education International
२०३
१ क्षीयते शरीरमनेन क्षयः । 'क्षि क्षये' (भ्वा.प.अ.), 'एरच् '३ । ३ । ५६ ॥ | क्षीयतेऽस्माद्वा । 'पुंसि संज्ञायाम्- '३।३।११८ ॥ इति घः । २ शोषयति रसादिधातून् शोषः । 'शुष शोषणे ' ( दि.प.अ.), णिजन्त:, ततोऽच् । ३ यक्ष्यते पूज्यते रोगराजत्वाद् यक्ष्मा । 'यक्ष पूजायाम्' (चु.-' उ.से.), ‘-मनिन्’(उणा - ५८४) । राजा चासौ यक्ष्मा च राजयक्ष्मा । यक्ष्यते पूज्यते रोगराजत्वाद् यक्ष्मा, पुंसि । 'यक्ष पूजायाम्' (चु.उ.से), 'मनिन् ' ( उणा - ५८४) । “जक्ष भक्षहसनयो:'(अ.प.से.)इत्यतौ मनिनि जक्ष्मा "[" ] इति पुरुषोतः । चत्वारि क्षयनस्य ॥
१३
:
अथ क्षेत् क्षुतं
वः ॥४६३॥
१ क्षवणं क्षुत्, स्त्रीलिङ्ग: । 'टुक्षु शब्दे ' ( अ.प.से.), सम्पदादित्वात् क्विप्, 'ह्रस्वस्य पिति - १६ ।१ ७१ ॥ इति तुक् । २ क्षू मक्षुतम् । भावे निष्ठा । ३ क्षूयते क्षवः । 'ऋदोरप् '३ । ३ । ५७ ॥ इत्यप् । त्रीणि छिक्कायाः । 'छिक्का' देश्याम् ॥४६३ ॥
कोसस्तु र्क्षवथुः
१ कास्यते कुत्सितशब्दः क्रियतेऽनेन कास:, दन्त्यसः । 'कासृ शब्दकुत्सायाम् ' (भ्वा.आ.से.), 'हलश्च' ३।३।१२१ ॥ इति घञ् । कासयतीति पचाद्यच् वा । तालव्यशकारवानपि ।‘“शालूककाशशल्लक्य: "[ ]इति द्विशकारे तालव्यभेदात् ।“ वाराणस्यां भवेत् काशी क्षवथौ ना तृणेऽस्त्रि-यम्"[] तालव्यान्तेषु रभसः । २ क्षौत्यनेन क्षवथुः पुंसि । 'टुक्षु शब्दे' (अ.प.से.), 'ट्वितोऽथुच्' ३ । ३ ।८९ ॥ । द्वे 'ऊर्स'' इति
ख्यातस्य ॥
पोमा खसः कच्छूर्विचर्चिका ।
२०
१ पान्त्यस्मादात्मानं पामा । 'पा रक्षणे ' ( अ.प.अ.), -मनिन् ' ( उणा-५८४) । स्त्रियाम् पामानौ, पामान: इति, ङीषभावे'। ‘डाबुभ्याम्- '४।१।१३ ॥ इति डापि पामे, पामाः
१. ‘शिङ्खानक:' इति शेषनाममालास्वोपज्ञटीकयोः ॥ २. 'रुजो भङ्गे' इति स्वामिमैत्रेयसायणाः ॥ ३. 'ह' इति१.२.४ ॥ ४. द्र. स्वोपज्ञटीका ३ ४६२ ॥ पृ.१०६ ॥ ५. इतोऽग्रे ३प्रतौ 'व्याधिः' इति दृश्यते ॥ ६. 'आमनं' इति १ । ७. 'अम आमः प्रकीर्तितः' इति शब्दभेदप्रकाशे, श्ले-२ ॥ ८. ' -द्यच्' इति२.३ ॥ ९. प्र. पदचन्द्रिका, भा-२, मनुष्यवर्ग:, श्री - ३०९, पृ.३८६ ॥ १०. 'व्यथा' इति२ ॥ ११. 'यक्षते' इति२ ॥ १२. इतोऽग्रे ३प्रतौ 'वा' इति दृश्यते ॥ १३. द्र. पदचन्द्रिका, भा-२, मनुष्यवर्गः, श्रो-३०९, पृ. ३८६ ॥ तत्र 'भक्ष-' इत्यस्य स्थाने 'भक्षण-' इति दृश्यते ॥ १४. अत्र ४प्रतौ " ऽत्तीति मनिप्रत्यये यक्ष्मोपि" इत्येका टिप्पणी दृश्यते ॥ १५. इतोऽग्रे ३प्रतौ 'शब्द' इति दृश्यते ॥ १६. इतोऽग्रे १ प्रतौ त्रीणि छिक्कायाः' इति दृश्यते ॥ १७. द्र. पदचन्द्रिका, भा-२, मनुष्यवर्गः, श्रो-३१०, पृ. ३८७ ॥ १८. द्र. पदचन्द्रिका, भा-२, मनुष्यवर्गः:, श्रो- ३१०, पृ. ३८७ ॥ रामाश्रमी २६५२ ॥ पृ. २८२ ॥ १९. 'उध्र- ' इति३ ॥ २०. 'पात्य-' इति४ ।। २१. 'मनः' ४ । १ । ११ ॥ इति स्त्रियां ङीषभावे ॥
For Private Personal Use Only
४०
५०
www.jainelibrary.org