________________
१०
२०२
सातिसारोऽतिसारकी ।
१ अतिसारोऽतिपुरीषनिसर्गः, सह अतिसारेण वर्तते सातिसारः । २ अतिसारोऽत्यस्य अतिसारकी । एकदेशविकृतस्यानन्यत्वादतिसारशब्दादपि 'वातातीसाराभ्यां कुक् च' ५।२।१२९ ॥ इतीनिकुकौ । अतीसारक्यपि । द्वे अतिसाररोगिणः ॥ वातकी वातरोगी स्यात्ं
अभिधानचिन्तामणिनाममाला
१ वातोऽस्यास्ति वातकी । 'वातातीसाराभ्यां कुक् च५ | २ | १२९ ॥ इति कुकौ । २ वातरोगोऽस्यास्ति वातरोगी । द्वे वातरोगिणः ॥
लेष्मलः श्लेष्मणः कॅफी ॥४६०॥
१ श्रेष्माऽस्त्यस्य श्रेष्मलः । 'सिध्मादिभ्यश्च ५ारा९७॥ इति लः । २ पामादित्वान्नप्रत्यये णत्वे च ष्मणः । ३ कफोऽस्यास्ति कफी । 'अत इनिठनौ ५ । २ । ११५ ॥ त्रीणि कफरोगिणः ॥४६०॥
क्लिन्ननेत्रे चिल्लचुल्लौ पिल्ल
१ क्लिन्नं नेत्रं यस्य स क्लिन्ननेत्रः । क्लिन्नं च तन्नेत्रं चेति कर्मधारयो वा तत्र । २-४ क्लिन्नं चक्षुः चिल्लम्, चुल्लम्, पिल्लम् । 'क्लिन्नस्य चिल्लचुल्लपिल्लाश्चक्षुषी' ' ( वा५।२।३३॥)वक्तव्यात् साधवः । एते क्लिन्ननेत्रे पुरुषे क्लिन्ने २० नेत्रेऽपि च वर्तन्ते । नेत्रे वर्तमानाः क्लीबलिङ्गाः, पुरुषे वर्तमानाः पुंसि । चत्वारि क्लिन्ननेत्रस्य । 'चीपडी आंखि ' इति भाषा ॥ अथाऽर्शोयुगर्शसंः ।
१ 'ऋ गतौ ' (जु.प.अ.), 'अर्तेर्गुणः शुट् च' (उणा२४५) इति असुन्प्रत्ययः, शुडागमश्च । अर्शसा युज्यते अर्शोयुक् । 'युजिर् योगे' (रु. उ. अ.), क्विप् । २ अर्शोऽस्यास्ति अर्शसः । 'अर्शआदिभ्योऽच् ५ ॥२॥१२७॥ । द्वे अर्शरोगिणः ॥ मूर्च्छिते मूर्त्तमूर्च्छा
१ मूर्च्छा सञ्जाताऽस्य मूर्च्छितः । तदस्य सञ्जा३० तम्–'५।२।३६ ॥ इतीतच्, तत्र । २ मूर्च्छति स्म मूर्त्तः । ' मूर्च्छा मोहसमुच्छ्राययोः'(भ्वा.प.से.), निष्ठा, 'आदितश्च ७।२।१६ ॥
[ मर्त्यकाण्डः-३ इतीट्प्रतिषेधः, 'राल्लोपः ३ ४ १२१ ॥ इति छकारलोपः, 'न ध्याख्यापृ (पृ) मूर्च्छिमदाम् ८ ।२ ।५७ ॥ इति नत्वाभावः । ३ मूर्च्छाऽस्यास्ति मूर्च्छालः । 'प्राणिस्थादातो लजन्यतरस्याम्' ५।२।९५ ॥ इति लच् । " सिध्मादिषु 'क्षुद्रजन्तूपतापाच्च' (गणसू - ५ ।२ ।९७ ॥ ) इति लन् ( लच् ) " [ ] इति मिश्राः । इन्द्रियमनोवैकल्यं मूर्च्छा । यदात्त्रेयः
Jain Education International
" रुणद्धि नाटिकाद्वारं तेन चित्तं विमूर्च्छति । संज्ञानाशो भवेत् तीव्रं निश्चेता जायते नरः ॥१॥ पतेच काष्ठवत्तूर्णं मदो मूर्च्छा निगद्यते ॥" [ ]इति "मूर्च्छितं मोहसंप्राप्ते सोच्छ्रयेऽपि दृढेऽपि च "[विश्वलोचनकोशः, तान्तवर्ग:, श्ले-१५० ] इति श्रीधरः । त्रीणि मूर्च्छितस्य ॥ सिध्मलस्तु किलासिनि ॥४६१॥
१ सिध्म अस्यास्ति सिध्मलः । 'सिध्मादिभ्यश्च ५२/९७॥ इति लच् । २ किलासं सिध्म, तद्योगात् किलासी । 'अत इनिठनौ ५ २ ।११५ ॥ इतीनिः, तत्र । द्वे सिध्मलस्य ॥४६१ ॥ पित्तं मायुः
१ पतति स्रंसते पित्तम् । पृषोदरादिः । अपिददाि रोगानिति पित्तम् । बाहुलकाद् "जतन्तात् सूतरपलितोष्टा: (जर्ततातसूरतपलितलोष्टाः) " ( कातन्त्रोणा - २।१३० ॥ ) इति बाहुलकात् ५० कर्तरि क्तः, अप्यकारस्य वष्टीत्यादिना लोप:, 'अच उपसर्गात्तः ७ १४ १४७ ॥ इति दाञस्तकारादेशः । २ मिनोति प्रक्षिपति मलां मायुः पुंसि । 'डुमिञ् प्रक्षेपणे'(स्वा.उ.अ.), 'कृवापाजि - ' ( उणा - १ ) इत्यण् । द्वे पित्तस्य । शेषश्चात्र- " पित्ते पलाग्निः पेललज्वरः स्यादग्निरेचकः "[ शेषनाममाला३ ॥१०६ ॥] ॥
१. तुलनीयोऽमरकोषः २।६५९ ॥ २. स्तीति' इति २ ॥ ३. 'क्लिन्नस्य चिल् पिल् लश्चास्य चक्षुषी' इति, 'चुल् च' इति च वार्तिकस्वरूपं दृश्यते ॥ ४. 'छकारस्य लोपः' इति ३ ॥ ५. 'र्च्छते' इति २ ॥ ६. 'पित्ते च' इति३ ॥ ७ १.२.४प्रतिषु नास्ति ॥ ८. अस्योपरि २प्रतौ 'कोलीया' इति दृश्यते ॥ ९. 'सूतरतपलि-' इति१.२ ॥ १०. 'वष्टि भागुरिरल्लोपः' इत्यादिकारिकया ॥ ११. 'निति' इति ३ ॥ १२. 'पलल:' इति ३ ॥ १३. 'विष्यते' इति ३ ॥ १४. ' - मन्' इति २ ॥
४०
कफः ष्मा बलांश: स्नेहभूः खटः ।
१ केन जलेन स्फीतिर्वृद्धिरस्य कफः । पृषोदरादिः । कं शिरः फणति गच्छति वा । 'फण गतौ ' (भ्वा.प.से.), 'अन्येभ्योऽपि'(वा-३।२।१०१॥ ) इति डः । २ श्रष्यति मांसादिना लेष्मा । 'शृिष् (विष) आलिङ्गने' (दि.प.अ.), 'मनिन् ' ६० (उणा - ५८४) इति मनिन् । 'श्रिषु विषु प्रषु प्लुषु दाहे ' (भ्वा.प.से.) अस्माद् वा मनिन् । लेष्माणौ, लेष्माणः इत्यादि । ३ बलमश्नाति बलाशः । 'अश् (अश) भोजने ' (क्र्या .प.से.),
For Private & Personal Use Only
www.jainelibrary.org