________________
४३६-४४२ ]
१ मनसो हतो मनोहतः । २ प्रतिहन्यते स्म प्रतिहतः । ‘हन्(हन) हिंसागत्योः'(अ.प.अ.), निष्ठा । ३ प्रतिबध्यते स्म प्रतिबद्धः । 'बन्ध बन्धने' (क्र्या.प.अ.), निष्ठा । ४ हन्यते स्म हतः । चत्वारि मनोहतस्य । 'मनभागु' इति
भाषा ॥ ४३९॥
प्रतिक्षिप्तोऽधिंक्षिप्तः
व्युत्पत्तिरत्नाकरलिता
१ प्रतिक्षिप्यते स्म प्रतिक्षिप्तः । क्षिप प्रेरणे' (तु. - उ. अ.), निष्ठा । २ अधिक्षिप्यते स्म अधिक्षिप्तः । द्वे निर्भतस्य । 'कई नाखउं' इति भाषा । यथा-" अधि१० क्षिप्तोऽपि विकृतिं न याति क्वापि सज्जनः"[ ँ] ॥
अवकृष्टनिष्कासितौ समौ ।
१ अवकृष्यते दूरीक्रियते स्म अवकृष्टः । 'कृष विलेखने' (भ्वा.प. अ, तु. प. अ), निष्ठा । २ निष्कास्यते स्म निष्कासितः । 'कस गतौ ' (भ्वा.प.से.), ण्यन्तात् क्तः । 'कासृ दीप्तौ`'(भ्वा.आ.से.) इत्यस्माद्वा क्तः, दन्त्यसवान् । द्वे निष्कासितस्य ॥ आत्त॑गन्धेऽभिभूतः
१ आत्तो गृहीतो गन्धोऽभिमानोऽस्य आत्तगन्धः, तत्र । " गन्धो गर्यो लवोऽपि च " [ त्रिकाण्डशेष: ३ | ३ |२१७ ॥] २० इति त्रिकाण्डशेषः । आत्तगर्व इत्यपि पाठः । २ अभिभूय स्म अभिभूतः, निष्ठान्तः । द्वे 'अहंकार ऊतारियां' इति
ख्यातस्य ॥
अपध्वस्ते न्यक्कृतधिक्कृतौ ॥४४०॥
१ अपध्वस्यते स्म अपध्वस्तः । ' ध्वंस अधःपतने' - (भ्वा.आ.से.), निष्ठा, तत्र । २ न्यक्क्रियते स्म न्यक्कृतः । असत्कारणादिना धिगिति कृतो धिक्कृतः । " आत्तगन्धादयः पञ्चाऽप्येकार्थाः"[ ]इत्येके । त्रीणि धिक्कृतस्य ॥४४०॥ निकृतस्तु विप्रकृतः
१ निक्रियते खलीक्रियते स्म निकृतः । २ एवं ३० विप्रकृतः न्यायपराजितोऽयम् । द्वे पराभूतस्य ॥
Jain Education International
१९३
न्यक्कारस्तु तिरस्क्रिया ।
परिभवो विप्रंकारः परापर्यभितो भवः ॥४४१ || अत्याकारो निकारश्च
१ न्यक्करणं न्यक्कारः । 'डुकृञ् करणे' (त.उ.अ.), ' भावे '३ । ३ । १८ ॥ घञ् । २ तिरस्करणं तिरस्क्रिया । 'कृञः श च'३।३।१००॥ इति शः, शित्त्वाद् भावे यकूँ, 'रिङ्गयलिङ्क्षु' ७।४।२८ ॥ ततष्टाप् । ३ परिभवनं परिभावः । ' भावे ' ३ | ३ | १८ ॥ घञ् । ४ विप्रकरणं विप्रकारः । 'भावे' ३।३।१८॥ घञ् । ५-७ परापर्यभितो भवः शब्दो योज्यः, तेन पराभवः, परिभवः, अभिभवः ॥ ४४१ ॥ ८ अत्याकरणम् अत्याकारः । निकरणं निकारः । नव पराभवस्य ॥
विप्रलब्धस्तु वञ्चितः ।
१ विप्रलभ्यते स्म विप्रलब्धः । 'डुलभष् प्राप्तौ ' (भ्वा.आ.अ.), निष्ठा, 'झषस्तथो :- '८।२ ४० ॥ इति धत्वम् । २ वञ्च्यते स्म वञ्चितः । 'वञ्च प्रलम्भने ' (चु.आ.से.), निष्ठा । द्वे वञ्चितस्य । 'ठगिओ" इति भाषा ॥ स्वप्नेक् शर्यालुर्निद्रालुः
१ स्वापशीलः स्वप्नक्। 'ञिष्वप् शये ' ( अ.प.अ.), 'स्वपितृषोर्नजिङ् '३ ।२ । १७२ ॥ स्वप्नजौ, स्वप्नजः इत्यादि । २ शयनशीलः शयालुः । 'शीङो वाच्यः' (वा - ३ |२| १५८) ५० इत्यालुच् । ३ निद्रातीत्येवंशीलो निद्रालुः । निपूर्वः 'द्रा कुत्सायां गतौ ' ( अ.प.अ.), 'स्पृहिगृहिपतिदयि - '३ ।२ ।१५८ ॥ इत्यालुच्, 'शीङः सार्वधातुके गुणः ७ १४ । २१ ॥ । त्रीणि निद्रालोः । 'ऊंघिओं"' इति भाषा ॥
१. ' - भागो' इति३ ॥ २. 'धका' इति३ ॥ ३ 'नाखिउ' इति२; 'नांख्यो' इति३, 'नाखिओ' इति४ ॥ ४. द्र. अनेकार्थसङ्ग्रहानेकार्थकैरवाकरकौमुदीटीका, भा-२, काण्ड: - ४, श्ले - ९८, पृ. ३४४ ॥ ५. क्षीरतरङ्गिण्यादौ दीप्तावर्थेऽयं धातुर्न दृश्यते ॥ ६. तत्र 'गन्धो गर्वे लवेऽपि च' इति दृश्यते, पृ. ३४५ ॥ ७. "आत्तगर्वोऽभिभूतः स्यात् " ३ ।१ ।४० ॥ इत्यमरकोषः ॥ ८. 'उता-' इति३ ॥ ९ धातुप्रदीपसम्मतोऽयं धात्वर्थ:, भ्वादि:, धातुसं४८५, पृ.५१ ॥ १०. द्र. स्वोपज्ञटीका३ ।४४० ॥ पृ. १०१ ॥ १२. 'यङ्' इति ॥ १२. तुलनीयोऽमरकोषः ३ ।९ १४१ ॥ १३. 'ठगिउ' इति२.४ ॥ १४. तुलनीयोऽमरकोषः ३ । १ । ३३ ॥ १५. 'उंघीओ' इति३ ॥
४०
घूर्णिते प्रर्चलायितः ॥४४२॥
१ घूर्णते स्म घूर्णितः । 'घुण घूर्ण भ्रमणे ' (भ्वा.आ.से.), निष्ठा, तत्र । २ प्रचलति घूर्णते प्रचलः, प्रचल इवाचरति क्यङन्तात् क्तः प्रचलायितः । यद्वा प्रचला निद्राविशेषो यस्यामासीनोऽपि घूर्णते, अप्रचलावान् प्रचलावान् भवति स्म प्रचलायितः । य उपविष्टो निद्रया घूर्णते, तस्य ६० द्वे ॥ ४४२ ॥
For Private & Personal Use Only
www.jainelibrary.org