SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ १८८ घञ् । २ गुड्यते गुडेर: । 'गुड रक्षणे ' ( तु.प.से.), 'पतिकठि-'(उणा-५८)इत्येरक्, स्वार्थे कर्नि गुडेरकः । ३ पिण्ड्यते पिण्डः, पुंस्त्री । "सङ्घातग्रासयोः पिण्डी द्वयोः ' [ अमरकोषः ४०, ३ १३ १४४ ॥ ] इत्यमरः । ' पिडि सङ्घाते ' (भ्वा.आ.से), कर्मणि घञ् । ४ गड्यते गडोल: । 'गड सेचने'(भ्वा.प.से.), 'कपिगडिगण्डि - ' ( उणा -६६ ) इत्योलन् । ५ कौत्यनेन कवकः । 'कु शब्दे ' ( अ.प.अ.), बाहुलकादकः । ६ गुडति रक्षति जीवं गुडः । 'गुड रक्षणे ' ( तु.प.से.), 'इगु अभिधानचिन्तामणिनाममाला - ३ | १|१३५ ॥ इति कः ॥ ४२५ ॥ ७ गण्डति वदनैकदेशे १० भवति गण्डोल: । 'गडि वदनैकदेशे ' (भ्वा.प.से.), 'कपिगडिगण्डि - ' (उणा -६६ ) इत्योलन् । ८ केन जलेन वलते कवलः, पुंक्ली. । `वलधातोः पचाद्यच् ।' 'कवँ वर्णने ' (भ्वा. आ.से.), वृषादित्वात् कलच् " [ ] इत्यन्ये । अष्टौं कवलस्य ॥ तृप्ते त्वार्धातसुहिताऽऽशिताः । १ तृप्यति स्म तृप्तः । 'तृप प्रीणने ' ( दि.प.वे.), निष्ठा, तत्र । २ आध्रायति स्म आध्रातः । 'धै तृप्तौ ' (भ्वा. - प.अ.), निष्ठा, 'आदेच:- '६ । १ ४५ ॥ इत्यात्वम् । आध्राणोऽपि । ३ सुष्ठु दधाति स्म सुहितः । 'डुधाञ् धारणादौ, '(जु.उ.अ.), २० निष्ठा, ‘दधातेर्हिः'७४ १४२ ॥ । यद्वा षह हं चक्यर्थे' (दि.प.से), चक्यर्थस्तृप्त्यर्थः, ततो निष्ठा, 'धात्वादेः षः सः' ६।४।६४॥। ४ आ अश्नाति स्म आशितः । 'अश भोजने' (क्र्या.प.से.), निष्ठा । चत्वारि तृप्तस्य ॥ तृप्तिः सौहित्यमाभ्राणम् १ तर्पणं तृप्तिः । ' तृप प्रीणने ' (दि.प.से.), 'स्त्रियां क्तिन् '३।३।९४ ॥ । २ सुहितस्य भावः सौहित्यम् । गुणवचन- '५।२।१२४ ॥ इति ष्यञ् । ३ आध्रायते आध्राणम् । 'धै तृप्तौ ' (भ्वा.प.अ.), निष्ठा, 'आदेच- '६ ११ १४५ ॥ इत्यात्वम्, [ मर्त्यकाण्डः-३ ‘संयोगादेरातोधातो:- '८।२।४३ ॥ इति नत्वम् । त्रीणि तृप्तेः ॥ अथ भुक्तसमुज्झिते ॥४२६॥ फेला पिण्डोलिली च १ [ पूर्व ] भुक्तं पश्चात् समुज्झितं संत्यक्तं भुक्तसमुज्झितम्, तत्र ॥४२६ ॥ २ फेल्यते त्यज्यते फेला | 'पेलू फेलृ गतौ ' (भ्वा.प.से.), कर्मणि 'गुरोश्च हल : '३ | ३ |१०३ ॥ इत्यकारः । फेलकोऽपि । ३ पिण्ड्यते पिण्डोलि: । 'पिडि सङ्घाते '(भ्वा.आ.से.), बाहुलकादोलिः । ४ फेल्यते फेलिः । 'इन् सर्वधातुभ्यः' (उणा - ५५७) । चत्वारि 'अइठि ' इति ख्यातायाः ॥ Jain Education International स्वोदरपूरके पुनः । कुक्षिम्भरिरात्मम्भरिरुदरम्भरिरपि १-२ स्वमात्मीयमेवोदरं पूरयति स्वोदरपूरक: । 'पूर पूरणे' ( ), ण्वुल्, तत्र । कुक्षिम्, आत्मानं च बिभर्ति कुक्षिम्भरिः, आत्मम्भरिः, 'फलेग्रहिरात्मम्भरिश्च३ ।२।२६ ॥ इति सूत्रे चकारात् कुक्षिम्भरिः । ३ उदरमेव बिभर्ति उदरम्भरिः । त्रीणि स्वीयोदरपूरकस्य ॥ अथ ||४२७॥ आद्यूनः स्यादौदेरिको विजिगीषाविवर्जितें"। ॥ ४२७ ॥ १ आ ईषद् दीव्यति स्म आद्यूनः । आङ्पूर्वः 'दिवु क्रीडादौ ' (दि.प.से.), निष्ठा, 'दिवोऽविजिगीषायाम् ' ८ । २ । ४९ ॥ इति नत्वम्, 'च्छवो: शूट्- '६ १४ ११९ ॥ इत्यूट् । २ उदरे प्रसक्त औदरिकः । 'उदराट्ठगाद्यूने '५ ।२ ६७ ॥ इति ठक्, 'ठस्येकः '७।३ ॥ ५० ॥ किति च ' ७ ॥२ ॥ ११८ ॥ इति वृद्धिः । विजेतुमिच्छा विजिगीषा, तया विवर्जितः, तत्र । द्वे आद्यूनस्य । 'खाऊकड' इति भाषा ॥ उदरपिशाचः सर्वान्नीनः सर्वान्नभक्षकः ॥४२८॥ १. 'कन्' इति ३ ॥ २. अयं पाठो रामाश्रमीसम्मतामरकोषे क्षेपकरूपेण दृश्यते, द्र. ३।३।४४ ॥ पृ. ५५५ ॥ ३. 'गण्डोल:' इति २ ॥ ४. 'गुड' इति ३.४ ॥ ५. 'कोलच्' इत्युणादिगणे ॥ ६. 'कवृ-' इति३ ॥ ७. क्षीरतरङ्गिण्यादौ कवृधातोरभावादत्र वबयोरैक्यन्यायेन कबृधातुर्बोध्यः ॥ ८. द्र. पदचन्द्रिका, भा२, वैश्यवर्गः, श्लो- ६२७, पृ. ७१९ ॥ ९. 'अष्टो' इति १.२ ॥ १०. 'षुहि' इति ३.४ ॥ ११. ' षह शक्यर्थे' इति स्वामी, द्र. क्षीरतरङ्गिणी, दिवादि:, धातुसं१८, पृ. २१० ॥ तत्र " षह पुह संभक्तौ इति दुर्ग: " इत्याह, 'पुह चक्यर्थे' इति सायणः, द्र मा. धातुवृत्तिः, दिवादि:, धातुसं - १९, पृ.४०७ ॥ तत्र "आत्रेयमैत्रेयदुर्गाः 'षह षुह' इति द्वौ धातू पेठुः" इत्याह ॥ १२. 'फेलृ पेलू' इति २.३.४, 'पेलृ फेलृ शेलृ गतौ' इति स्वामिमैत्रेयौ, क्षीरतरङ्गिणी, भ्वादि:, धातुसं-३६१, पृ.८४ ॥ धातुप्रदीपः भ्वादि:, धातुसं - ३४८, पृ. ३९ ॥, 'पेलृ शेलृ फेलू-' इति सायणः, मा. धातुवृत्तिः भ्वादि:, धातुसं - ३५३, पृ.१५० ॥ १३. ‘कुक्षंभरिः' इति १, “गिरिस्तु कनकाचलः कति न सन्ति चाश्मव्रजाः, किटिस्तु धरणीधरः कति न सन्ति भूदारकाः । मरुत् तु मलयानिलः कति न सन्ति झञ्झानिलाः, प्रभुस्तु विबुधाश्रयः कति न सन्ति कुक्षिम्भराः" इत्यत्र केषाञ्चित्प्रयोगः प्रामादिक एव ॥ द्र. तत्त्वबोधिनी (सिद्धान्तकौमुदीटीका), पृ.५६९॥ १४. “चात् कुक्षिम्भरिः । चान्द्रास्तु आत्मोदरकुक्षिष्विति पेठुः । ज्योत्स्नाकरम्भरमुदरम्भरयश्चकोरा इति मुरारिः" इति सिद्धान्तकौमुदी, पृ. ५६९ ॥ १५. तुलनीयोऽमरकोषः ३ । १ । २१ ॥ For Private Personal Use Only ३० ४० ५० www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy