________________
१०
१७८
लाजाः स्युरक्षा ॥४०१॥
44
"
१ लज्यन्ते भर्त्स्यन्ते लाजा:, पुंस्त्रीलिङ्गो बहुवचनान्तश्च । 'लजि भर्त्सने ' (भ्वा.प.से.), कर्मणि घञ्। "भृष्टशाल्यादिजा लाजा : ''[ मदनपालनिघण्टुः, धान्यकृतान्नादिवर्ग:११, श्लो-१०६, पृ.२५० ] इति मदनपालः । “लाजाः स्युर्भृष्टधान्येषु”[विश्वप्रकाशकोशः, जान्तवर्ग:, श्रो- १० ]इति विश्वः । 'भृष्टं धान्यं भवेल्लाजा : " [ हलायुधकोशः २ ।५८५ ॥ ] इति हलायुधोऽपि तेन लाजशब्दो भरडुकफूल्यादीनामपि वाचकः । 'लाजः स्यादार्द्रतण्डुल- " [विश्वप्रकाशकोशः, जान्तवर्ग:, श्रो१०] इति महेश्वरोक्तेरेकवचनान्तोऽपि दृश्यते । २ न क्षण्यन्ते अक्षताः, पुंक्लीबलिङ्गः । पुंस्ययं बहुवचनान्त: । ' क्षणु हिंसायाम् ' (तु.उ.से.), कर्मणि क्तः, 'अनुदात्तोपदेश - '६ ४ ३७ ॥ इति णकारलोपः । " अक्षता यवाः "[ ] इति पुराणम्, तन्मते पुंसि ।" बहुत्वार्थो विधि : "[ ]इति तट्टीका । एकवचनान्तोऽपि पुंसि दृश्यते, " अक्षतः स्यादहिंसिते षण्ढे लाजेषु कथ्यते " [ अनेकार्थसंग्रह: ३ ।२२८ ॥ ] इत्यनेकार्थः । द्वे 'आखा' इति ख्यातस्य । शेषश्चात्र- " लाजेषु भरजोद्भूषे खटिका परिचारकः " [शेषनाममाला ३ ।९९ ॥ ] । इह सामान्यतोऽनुक्तान्यपि प्रस्तावादाटानामानि त्रीणि पिष्टकश्चमसश्चूर्ण इति । " पिष्टको नेत्ररोगे २० स्याद्धान्यादिचमसेऽपि च "[विश्वप्रकाशकोश:, जान्तवर्ग:, श्रो१४० ] इति महेश्वरः ॥ ४०१ ॥ गोधूमचूर्णे ि
३०
अभिधानचिन्तामणिनाममाला
१ गोधूमानां चूर्णः क्षोदो गोधूमचूर्णः, तत्र । समीक्रियते समिता, स्त्रीलिङ्गः । कणिकेत्यपि । "गोधूमचूर्णे कणिक स्त्रियां सूक्ष्माग्निमन्थयो: "[विश्वलोचनकोश:, कान्तवर्ग:, श्लो-४६]इति श्रीधरः । एकं गोधूमचूर्णस्य ॥ यवक्षोदे तु चिक्कसः ।
१ यवानां क्षोदो यवक्षोदः, तत्र । चिक्यते चिक्कसः, पुंक्ली. । यदमरलिङ्गशेष:- "युषं चमसचिक्कसौ "[ अमरकोषः
३ १५ ।३५ ॥ ] इति । 'चिक्क व्यसने ' ( चु.उ.से.), बाहुलकादसच् ।
Jain Education International
[ मर्त्यकाण्डः-३
चीयत इति वा, पृषोदरादिः । [ एकं यवचूर्णस्य ] ॥ गुड इक्षुरसक्वाथः
१ गुडति रक्षर्ति गुडः, पुंसि । 'गुड रक्षणे'(तु.प.से.), 'इगुपध - ३ | ३ | १३५ ॥ इति कः, 'घञर्थे- ' (वा - ३ । ३ ५८ ॥ ) इति कर्मणि वाकः । इक्षुरसस्य क्वाथ इव इक्षुरसक्वाथः । क्षारोऽपि । 'क्षारः काचे रसे गुडे "[ अनेकार्थसङ्ग्रहः २ ॥ ३९० ॥ ] इत्यनेकार्थः । एकं गुडस्य ॥
44
शर्करा तुं सितोपला ॥ ४०२ ॥
सिता च
१ शृणाति रसना वैरस्यं शर्करा । 'शू हिंसायाम्' ४० (क्र्या.प.से.), ‘शृणातेः कर्रं' (उणा - ४४३), 'सार्वधातुकार्धधातुकयोः ७।३।८४ ॥ इति गुणः, 'अचो रहाभ्यां द्वे ८ ४ ४६ ॥ २ सितोपलः स्फटिकस्तत्सदृशत्वात् सितोपला ॥ ४०२ ॥ | ३ सिनोति बध्नाति तृष्णान्धं सिता । 'षिञ् बन्धने' (स्वा.उ. अ.), ''अञ्जिघृसिभ्यः क्तः ' ( उणा - ३६९) । त्रीणि शर्करायाः ॥ धुलस्तु खण्डः
१ मधुनः क्षौद्रस्य धूलिरिव मधुधूलिः । मधुरत्वात् खण्ड्यते खण्डः, पुंक्ली. । 'खडि मन्थे ' (भ्वा.उ.से.), कर्मणि घञ् । द्वे 'खंड' इति ख्यातस्य ॥
तद्विकृतिः पुनः । ५०
मत्स्यण्डी फार्णितं चापि
१ तस्य खण्डस्य विकृतिर्विकारः तद्विकृतिः मत्स्यण्डी, चः समुच्चये, फाणितमप्युच्यत इत्यन्वयः । मत्स्याण्डाकारत्वाद् गौरादित्वाद् ङीषि मत्स्यण्डी, शकन्ध्वादिः । मुदं स्यन्द इति, पृषोदरादिर्वा । " मत्स्यान् अमति रुजति मारकत्वाद् मत्स्याण्डी''["]इति तु वैद्यः । यद्धन्वन्तरिः- “ शर्करोक्ता तु मीनाण्डी श्वेता मत्स्याण्डिका सिता " [ धन्वन्तरिनिघण्टुः २।१०४॥]इति ।“ मत्स्यण्डिका खण्डसित क्रमेण गुणवत्तरा " [”]इति तु वाग्भटः । “मत्स्याण्डी खण्डशर्कराः "[हलायुधकोश : २ । ३२४ ॥ ] इति हलायुधः । " खण्डशर्कराया विकारे ६०
१. ‘भवेत्' इति हलायुधकोशे नास्ति ॥ २. अनेकार्थसंग्रहे नास्ति ॥ ३. ' जोडूषख -' इति शेषनाममालास्वोपज्ञटीकयोः ॥ ४. 'परिवाचकः' इति १, ' - परिवारकाः' इति शेषनाममालास्वोपज्ञटीकयोः ॥ ५. 'चूर्णक-' इति १ ॥ ६. विश्वलोचनकोशे तु 'कणिकः' इति दृश्यते । ७. क्षीरतरङ्गिण्यां 'चक्क चुक्क व्यथने'(चुरादिः, धातुसं - ५१ ) इत्यत्र स्वाम्याह - "चिक्क इति च कौशिक:- चिक्कसं यवपिष्टम्, चिक्कणं सस्नेहम्' इति, पृ. २९७ ॥ ८. ‘रक्ष्यते' इति ३॥ ९. 'च' इति १ ॥ १०. 'श्र: करन्' इत्युणादिगणे ॥ ११. अस्य विकल्पपक्षे एकककारवती 'शर्करा' इत्यपि भवति ॥ १२. 'स्फु-' इति ३ ॥ १३. 'तृष्णा' इत्येव ३ ॥ १४. 'अजि-' इति ४॥ १५. द्र. अमरकोशस्वामिकृतटीका २ ।९ १४३ ॥ पृ. २०९ ॥, स्वोपज्ञटीका ३।४०३॥, पृ.९४॥ तयोश्च 'मारकत्वात्' इति पाठो न दृश्यते ॥ १६. 'वैद्यः' इति २ ॥ १७. 'मत्स-' इति १.२.३ ॥ १८. ' - शिता' इति ३.४ ॥ १९. द्र. अमरकोषक्षीरस्वामिटीका २९४३ ॥ पृ.२०९ ॥, स्वोपज्ञटीका ३।४०३ ॥, पृ. ९४ ॥ २०. 'मत्साण्डी' १.३ ॥, हलायुधे 'मत्स्यण्डी' इति दृश्यते ॥
For Private & Personal Use Only
www.jainelibrary.org