________________
१०
२०
१७२
चुना ः ८४४० ॥ । ६ याचनं याचना । याचेर्णिजन्ताद् बाहुलकाद् — ण्यासश्रन्थ-’३।३।१०७ ॥ इति युच् । ७ अध्येषणम् अध्येषणा । अधिपूर्वः 'इषु इच्छायाम् ' ( तु.प.से.), ल्युट् । ८ सन्यते याच्यते सनिः, स्त्रियाम् । ' षणु दाने' (तु.उ.से.) 'सन्कषि'( ) इति इन्, 'इन् सर्वधातुभ्यः ' ( उणा - ५५७ ) इतीन् वा । वैजयन्ती तु, सनिशब्दं पुंस्यप्याह - 'सनिरक्ली स्यात् '[ वैजयन्तीकोषः ३ ।६ । १२१ ॥ ]इति । प्रणयमन्तरेण सर्वेऽपि स्त्रीलिङ्गाः । अष्टौ याचनायाः । " सनिस्त्वध्येषणा"[ अमरकोषः २ १७ १३२ ॥ ] इति गुर्वादेराराधनस्य सत्कारपूर्वकं क्वचिदर्थे नियो-जनमित्यमरः पृथगाह | शेषश्चात्र- " भिक्षणा अभिषस्तिर्मार्गणा च " [शेषनाममाला ३ ।९५ ।।] ॥ ३८८ ॥
उत्पतिष्णुस्तूत्पतितां
१ उत्पतति ऊर्ध्वं गच्छतीत्येवंशीलः उत्पतिष्णुः । 'पतृ ( पत्लृ ) पतने' (भ्वा.प.से.), 'अलङ्कृनिशकृञ्३ ।२ ।१३६ ॥ इत्यादिना इष्णुच् । २ उद् ऊर्ध्वं पतति उत्पतिता, तृजन्तः । द्वे उत्पतिष्णोः । 'ऊडवा मतइ' इति भाषा ॥ अलङ्करिष्णुस्तु मण्डनंः ।
अभिधानचिन्तामणिनाममाला
१ अलङ्करोतीत्येवंशीलः अलङ्करिष्णुः । 'डुकृञ् करणे' (त.उ.अ.), 'अलङ्कृञ्निराकृञ्प्रजनोत्पत- '३ ।२ ।१२६ ॥ इत्यादिना इष्णुच् । २ मण्डयतीत्येवंशीलो मण्डनः । 'मडि भूषायाम् ' (भ्वा.प.से.), 'क्रुधमण्डार्थेभ्यश्च' ३ ।२ ॥ १५१ ॥ इति युच् । द्वे अलङ्करिष्णोः ॥
विष्णुर्भविता भूष्णुः
१ भवति तच्छीलो भविष्णुः । 'भू सत्तायाम्' (भ्वा.प.से.), 'भुवश्च वा वाच्यः '३ ।२।१३८ ॥ इतीष्णुच् । २ भवतीत्येवंशीलो भविता । 'तृन् '३ ।२ ११३५ ॥ इति तृन् । ३ भवतीत्येवंशीलो भूष्णुः। 'ग्लाजिस्थश्च वस्तु: '३ ।२।१३९ ।। सूत्रे चाद् 'भुवश्च' ३ । २ । १८ ॥ इति स्नुः, 'युकः किति' ७।४।११॥ इत्यत्र गकारप्रशेषान्नेट् । त्रीणि भविष्णोः । 'अग्रे ३० हुवणहारे' इति भाषा ॥
समौ वर्तिष्णुर्वर्तनौ ॥३८९ ॥
१ वर्तत इत्येवंशीलो' वर्तिष्णुः । 'वृतु वर्तने' (भ्वा.आ.से.), 'अलङ्कृनिराकृञ् - ३ ।२ ।१३६ ॥ इत्यादिना इष्णुच् । २ वर्तत इत्येवंशीलो वर्तनः । 'अनुदात्तेतश्च हलादेः '३ ।२ ।१४९ ॥
Jain Education International
[ मर्त्यकाण्डः - ३
इति युच् । द्वे वर्तिष्णोः ॥ ३८९ ॥ विसृत्वरो विसृमरः प्रसारी च विसारिणि ।
१ विसरतीत्येवंशीलो विसृत्वरः । 'सृ गतौ ' (भ्वा.प.अ.), 'इण्नश्जिसर्त्तिभ्यः क्वरप् ' ३।२।१६३ ॥ कित्त्वात् 'ह्रस्वस्य - '६ ।१ ७१ ॥ इति तुक् । स्त्रियां विसृत्वरी, 'टिड्ढाञ्-४।१।१५।। इति ङीप् । २ विसरतीत्येवंशीलो विसृमरः । 'सृ गतौ ' (भ्वा. - प. अ), 'सृघस्यदः क्मरच्' ३ ।२।१६० ॥ । ३ प्रसरतीत्येवंशीलः प्रसारी । 'सृ गतौ ' (भ्वा.प.अ.), 'प्रे लपसृ- '३ ।२ ।१४५ ॥ इति घिनुण् । ४ विसरणं विसारः, तद्योगादिनिः विसारी, तत्र । चत्वारिं प्रसरणशीलस्य ||
लज्जाशीलो पत्रपिष्णुः
१ लज्जाशीलमस्य लज्जाशीलः । २ अपत्रपत इत्येवंशीलः अपत्रपिष्णुः । 'अलङ्कृञ्निराकृञ्- '३।२।१३६ ॥ इत्यादिना इष्णुच् । द्वे लज्जाशीलस्य ॥
सहिष्णुः क्षमिता मी ॥ ३९०॥ तितिक्षुः सहनः क्षन्ता
१ सहत इत्येवंशीलः सहिष्णुः । 'अलङ्कृनिराकृञ्- '३ ।२ ।१३६ ॥ इत्यादिना इष्णुच् । २ क्षमत इत्येवंशीलः क्षमिता ।' क्षमूष् सहने ' (भ्वा. आ. वे.), 'तृन् '३ ।२ ।१३५ ॥ इति तृन्, 'आर्धधातुकस्य - ७ । २ । ३५ ॥ इतीट् । ३ क्षमाऽस्याऽस्ति क्षमी । शिखादित्वादिनिः । क्षमत इति वा । ' शमित्यष्टाभ्यो घिनुण् '३ । २ । १४१ ॥ ॥ ३९० ॥ ४ ' तिज निशाने क्षमायां च ' (भ्वा.प.से.), 'गुप्तिज्किद्भयः सन् '३ | १|५ ॥, ' सन्यङोः '६ ।१ ।९ ॥ इति द्वित्वम्, 'सन्यतः '७ । ४ । ७९ ॥ इतीत्वम्, 'व्रश्च- ' ८ |२| ३६ || आदिना षत्वम्, 'सनाशंसि (शंस) भिक्ष उ: '३ |२| - १६८ ॥ तितिक्षुः । ५ सहत इत्येवंशीलः सहनः । षह मर्षणे' ६० (भ्वा.आ.से), 'अनुदात्तेतश्च - ३ ।२ ।१४९ ॥ इति युच् । ६ क्षमत इत्येवंशीलः क्षन्ता । —क्षमूष् सहने ' (भ्वा. आ. वे), 'तृन्’ ३ ।२ ।१३५ ॥ ऊदित्वादिडभावे रूपं । षट् सहनशीलस्य ॥ तितिक्षा संहनं क्षमा ।
१ तितिक्ष्यते तितिक्षा । 'अ: (अ) प्रत्ययात् ' ३ । ३ । १०२ ॥ इति अ: । २ सह्यते सहनम् । ' षह मर्षणे ' (भ्वा.आ.से.), भावे ल्युटि । ३ क्षमणं क्षमा । 'क्षमूष् सहने ' (भ्वा.आ.से.), 'षिद्भिदादिभ्योऽङ्’३ । ३ । १०४ ॥ | त्रीणि क्षमायाः ॥
१. 'इष - ' इति मा. धातुवृत्तिः ॥ २ तुलनीयोऽमरकोषः ३ ।१ ।२९ ॥ ३. 'भुवश्च' इत्येवाष्टाध्याय्याम् ॥ ४. 'क्सुः' इति ३.४ ॥ अत्र 'ग्स्नुः 'इत्येव युक्तः, अन्यथा 'स्थास्नुः' इत्यत्र ईत्त्वं स्यात्, अत एवोक्तं सि. कौमुद्याम् - गिदयं न तु कित्, तेन स्थ ईत्त्वं न' इति सि. कौ. पृ.५८८ ॥ ५. 'अग्रे हुणहार' इति १.३ ॥ ६. ' - शीलुः' इति १.२ ॥ ७. 'तुलनीयोऽमरकोषः ३ । १ । ३१ ॥ ८. 'द्वे' इति १.३ ॥ ९ तुलनीयोऽमरकोषः ३ ।१ ।२८ ॥ १०. 'स्वरतिसूतिसूयतिधूजूदितो वा ७ । २ । ४४ ॥ इत्यनेन वेट् ॥
For Private & Personal Use Only
४०
५०
www.jainelibrary.org