SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ १० ३८३-३८८ ] २ ।१ । ४० ॥ इति समासः । "शौण्डो मत्तेऽपिं विख्यातः " [मेदिनीकोशः, शब्दवर्ग:, डान्तवर्ग:, श्रो- २६ ] इति मेदिनिः । "शुण्डा मद्यपानस्थानम्, तत्र भवः शौण्डः, इहोपचारात् समर्थ उच्यते''[अम. क्षीरस्वामिटीका ३ | १ १६ ॥ ] इति स्वामीं । ३ बहू धनानि प्रददाति बहुप्रदः । 'प्रे दाज्ञः कर्मणि '३ | २ |६ ॥ इति कः, तत्र । त्रीणि बहुप्रदस्य ॥ ३८५ ॥ दानमुत्सर्जनं त्यागः प्रदेशनविसर्जने । व्युत्पत्तिरत्नाकरकलिता विहयितं वितरणं स्पर्शनं प्रतिपादनम् ॥३८६॥ विश्राणनं निर्वपैणमपैवर्जनमंहतिः । १ दीयते दानम् । ल्युट् । २ उत्सृज्यते उत्सर्जनम् । 'सृज विसर्गे ' ( तु.प.अ.), ल्युट् । ३ त्यजनं त्यागः । ' त्यज हानौ'(भ्वा.प.अ.),भावे घञ्, 'चजो: कु घिण्ण्यतोः '७।३।५२ ॥ इति कुत्वम्, 'अत उपधायाः ७ । २ । ११६ ॥ ४ प्रदिश्यते प्रदेशनम् । 'दिश अतिसर्जने ' ( तु.प.अ.), ल्युट् । प्रादेशनमपि । ५ विसृज्यते विसर्जनम् । 'सृज विसर्गे ' ( तु.प.अ.), ल्युट् । ६ 'हि गतौ वृद्धौ च ' (स्वा.प.अ.) अतो णिजन्तात् क्त: [ विहायितम् ] । ७ वितीर्यते वितरणम् । विपूर्वः 'तू प्लनवतरणयोः ' (भ्वा.प.से.), ल्युट् । ८ स्पृश्यते स्पर्शनम् । 'स्पृश संस्पर्शने ' (तु.प.अ.), ल्युट्, उपधाया लघोर्गुणः । दानं हि उपचारात् २० पुच्छादौ गवादिकं स्पृष्ट्वा दीयते । ९ प्रतिपाद्यते प्रतिपादनम् । 'पद गतौ' (दि.आ.अ.) णिजन्तः, ल्युट् ॥३८६॥ १० विश्राण्यते विश्राणनम् । 'श्रण दाने ' (चु.उ. अ.), अस्माण्णिजन्ताद् ल्युट् । ११ निरुप्यते निर्वपणम्। 'टुवप् (डुवप्) बीजतन्तुसन्ताने' (भ्वा.उ.अ.), ल्युट् । निर्वापणमपि । १२ अपवृज्यते अपवर्जनम् | ल्युट् । १३ हन्यते दौर्गत्यमनया अंहतिः, स्त्रीलिङ्गः । 'हन् (हन) हिंसागत्योः ' ( अ.प.अ.), 'हन्तेरंह च' (उणा - ५०२, हैमोणा-६५४)इत्यतिः । स्वतः उपसर्गवशाच्च हन्तिर्दानार्थः । " 'अहि गतौ ' (भ्वा.आ.से.), अनेकार्थत्वाद् धातूनां दानार्थत्वादस्मात् क्तिन्, 'तितुत्रथ - ७।२ ।९ ॥ इत्यत्र 'अग्रहादीनामिति ३० वक्तव्यम् ' ( ) इतीटि अंहितिः, मध्येऽकारवती "[]इति तु कलिङ्ग: । त्रयोदश दानस्य ॥ अर्थव्ययज्ञः सुकलः Jain Education International १७१ १ अर्थव्ययं जानाति अर्थव्ययज्ञः दाता भोक्ता च । 'ज्ञा अवबोधने' (क्र्या. प. अ.), 'इगुपध- '३।१ । १३४ ॥ इति कः । शोभना कलाऽस्य सुकलः, विख्यातत्वात् । सु अतिशयेन कल्पते शब्दयते गण्यते वा । 'कल शब्दसङ्ख्यानयो: ' (भ्वा.आ.से.), घञ् । यदमरः-"सुकलो दातृभोक्तरि "[अमरकोषः ३ । १ ।८ ॥ ] ॥ एकं दातृभोक्तुः ॥ याचकस्तु वनीपकः ॥३८७॥ मार्गणोऽर्थी याचनकस्तर्कुकः १ याचते याचकः । 'टुयाच् याच्ञायाम्' (भ्वा.उ.से.), ण्वुल् । २ 'वनु याचने' (त.आ.से.), 'इन् सर्वधातुभ्यः '(उणा५५७)इतीन्, वनि:, ‘कृदिकारात्- ' (गणसू-४।१ १४५ ॥ ) इति ङीषि वनी, तां पाति वनिप:, ततः संज्ञायां कन् वनीपकः, पवर्गाद्यमध्यः। 'वनीयक' इत्यन्तस्थाद्यमध्योऽपि । "वनु याचने' (त. आ.से.), वनति याचते वनिः, 'इन् सर्वधातुभ्यः' (उणा५५७), वनिं याचनामिच्छतीति क्यर्चि ण्वुल् "[ ] इति मिश्रोज्ज्वलदत्तावप्यन्तस्थाद्यमध्यमेवाहतुः ॥३८७ ॥ ३ मार्गति अन्विष्यति दातारमर्थं वा मार्गणः । 'मार्ग अन्वेषणे' (चु.उ.से.), नन्द्यादित्वाद् ल्युः । ४ असन्निहितोऽर्थोऽस्त्यस्य अर्थी । 'अर्थाच्चाऽसन्निहिते' (वा - ५ ।२।१३५ ॥ इतीनिः । अर्थयत इति वा। ‘अर्थ वाञ्छायाम्’(चु.आ.से.), ग्रह्यादित्वाद् 'नन्दिग्रहि-' ३।१।१३४॥ इत्यादिना णिनिर्वा । ५ याचते याचन:, नन्द्यादित्वाद् ल्युः, ततः स्वार्थे कनि याचनकः । ६ चतते याचते तर्कुकः।‘चते यचने' (भ्वा.उ.से.), पृषोदरादित्वात् साधुः । षड् याचकस्यें ॥ ५० १. 'च' इति मेदिन्याम्॥ २. स्वामिकृतामरकोशटीकायां तु "दाने शौण्डः शक्त उपचारात् शुण्डा हि पानमदस्थानं तत्र भवः शौण्डः" इति दृश्यते, ३।१।६॥, पृ.२३७॥ ३. अष्टाध्याय्यां 'प्रे दाज्ञः' इत्येव दृश्यते ॥ ४. काशकृत्स्नमतेऽयम् (द्र. क्षीरतरङ्गिणी, पृ. १६७), स्वामिसायणौ 'बीजसन्ताने' इत्येव पठतः ॥ ५. द्र. पदचन्द्रिका, भा-२, ब्रह्मवर्ग:, श्रो-४२६, पृ. ५१५ ॥ ६. 'क्यनि' इति३ ॥ ७. 'उपयाच्ञायाम्' इति क्षीरतरङ्गिण्यादौ ॥ ८. 'ग्राह्या-' इति ३.४ ॥ ९. क्षीरतरङ्गिण्यादौ ङकारानुबन्धो नास्ति ॥ १०. 'याचनकस्य' इति३ ॥ ११. 'इष' इति मा. धातुवृत्तिः ॥ १२. 'इषेरनिच्छार्थस्य' इति वार्तिकस्वरूपं दृश्यते ॥ अर्था । अर्दना प्रणयो यांच्या याचनाऽध्येषणा सनिः । ३८८ । १ अर्थनम् अर्थना । 'अर्थ [ उप] याच्ञायाम् ' ( चु.आ.से.), भावे ल्युट् । २ एषणम् एषणा । 'इषु इच्छायाम्' ६० (तु.प.से.), 'इषोऽनिच्छार्थात् ' (वा - ३ | ३ |१०७ ॥ ) इति युच् । ३ अर्दनम् अर्दना । 'अर्द गतौ याचने च' (भ्वा.प.से.), भावे ल्युट् । ४ प्रणयनं प्रणयः । प्रपूर्वः 'णीञ् प्रापणे' (भ्वा.उ. अ.), 'एरच् '३।३ १५६ ॥ इत्यच् । ५ याचनं याच्ञा । 'टुयाच् याञ्चायाम्' (भ्वा.उ.से.), 'यजयाचयतविच्छ- '३ । ३ ।९० ॥ इति नङ्, 'स्तोः ४० For Private Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy