________________
१७०
चौर्यं तु चौरिका स्तेयम्
१ चोरस्य भावः कर्म वा चौर्यम् । 'गुणवचनब्राह्मणादिभ्यः कर्मणि च '५ । १ । १२४ ॥ इति ब्राह्मणादित्वात् ष्यञ् । २ चौरस्य भावः चौरिका, स्त्रीक्ली । मनोज्ञादित्वाद् वुञ् । ३ स्तेनस्य भावः स्तेयम् । 'स्तेनाद्यन्नलोपश्च '५ । १ । १२५ ॥ इति यन्नलोपौ । त्रीणि चौर्यस्य । 'चोरि' इति भाषा ॥ लोप्नं त्वपहृतं धनम् ।
१ लुप्यते लोप्त्रम् । 'लुप्लृ छेदने ' (तु.उ.से.), बाहुलकाद् 'हुयामा- ' ( उणा - ६०७ ) इति त्रन् । लाद्रमित्यपि १० हलायुधटीका । एकं चौराऽपहृतद्रव्यस्य ॥
यद्भविष्य दैर्वपरः
१ यद् भविष्यति तद् भवतु इत्येवमाचष्टे यद्भविष्यः । २ दैवपरः दैवप्रमाणकः । द्वे दैवप्रमाणकस्य ॥ अथाऽऽलस्यः शीर्तकोऽलसः ॥३८३॥ मन्दस्तुन्दर्परिमृजोऽनुष्णः
१ आलस्यमस्यास्ति आलस्यः । 'अर्शआदिभ्योऽच्' ५।२ । १२७ । । २ शीतं मन्दं करोति शीतकः । 'शीतोष्णाभ्यां कारिणि '५ ।२ ७२ ॥ इति कन्प्रत्ययः । क्रियाविशेषणाद् द्वितीयासमर्थादयं प्रत्ययः । ३ न लसति अलसः । 'लस लेषणक्रीडनयो:'(भ्वा.प.से.), नञ्पूर्वः, पचाद्यच् ॥ ३८३॥ ४ मन्दते स्वपितीव मन्दः । अत एव मदि जाड्ये इति चान्द्रो धातुः, ततः पचाद्यच्। ५ तुन्दं परिमाष्टि तुन्दपरिमृजः । 'मृजूष् शुद्धौ' (अ.प.से.), 'तुन्दशोकयोः परिमृजापनुदो: '३ ।२ ।५ ॥ इति कः । ६ न उष्णः अनुष्णः । षड् अलसस्य । 'आलसू' इति भाषा ॥ दक्षस्तु पेशलः ।
२०
अभिधानचिन्तामणिनाममाला
पटूष्णोष्णकसूत्थानचतुराश्च
१ दक्ष वर्धते लक्ष्म्या कृत्वा दक्षः । 'दक्ष वृद्धौं' (भ्वा.आ.से.), पचाद्यच् । दक्षते शीघ्रं करोतीति वा । 'दक्ष शैये" (भ्वा.आ.से.), अच् । २ पिशति (पिंशति ) एकदेशेन ३० सर्वं करोति पेशलः, तालव्यमध्यः । 'पिश अवयवे' (तु.प.से.), 'वृषादिभ्यश्चित् '(उणा-१०७) इति कलच् । ३ पाटयति पटुः ।
[ मर्त्यकाण्डः-३ 'पट गतौ ' (भ्वा.प.से.), णिजन्तः । 'फलिपाटिनमिमनिजनां गुपटिनाक (कि) धता (त) श्च' (उणा - १८) इति उः, पटादेशश्च । ४ उषति (ओषति) दहतीवोष्णः (दहतीति उष्णः ) । 'उष दाहे’(भ्वा.प.से.), ‘इण्षिञ्दीङुषविभ्यो नक्' (उणा - २८२ ) इति नक् । ५ उष्णं क्षिप्रं करोति उष्णकः । 'शीतोष्णाभ्यां कारिणि ' ५।२।७२॥ इति कन्प्रत्ययः । ६ सुष्ठु उत्थानमुद्योगोऽस्य सूत्थान : । ७ चतते कर्म चतुरः । 'चते याचने' (भ्वा.उ.से.), 'मन्दिवाशिमथिचति- ' ( उणा - ३८) इति उरच् । सप्त अविलम्बितकार्यकारिणः, शीघ्रकारिणो वा ॥
अथ तत्परः ॥ ३८४॥
Jain Education International
3
आसक्तः प्रवणः प्रह्नः प्रसितश्च परायणः ।
१ तत्परमस्य तत्परः, तन्निष्ठः ॥ ३८४॥ २ आसजति स्म आसक्तः । ' षञ्ज सङ्गे' (भ्वा.प.अ.), निष्ठा । ३ प्रकर्षेण वनति संभजते प्रवणः । प्रपूर्वः 'वन षण संभक्तौ ' (भ्वा.प.से.), पचाद्यच् । ४ प्रह्वयते कार्ये स्पर्धते प्रह्वः । 'ह्वेंं स्पर्धायां शब्दे च' (भ्वा.उ. अ.) । ५ प्रसिनोति स्म प्रसितः । प्रपूर्वात् 'षिञ् बन्धने' (स्वा.उ.अ.) अस्माद् निष्ठा । ६ परं कार्यपारमयते प्रप्नोति परायणः । 'अय गतौ' (भ्वा.आ.से.), नन्द्यादित्वाद् ल्युः । षट् तत्परस्य ॥
दातोदरः
१ ददाति दाता । 'डुदाञ् दाने ' (जु.उ.अ.), 'ण्वुल्तृचौ '३ ।१ ११३३ ॥ इति तृच् । २ उदत्यर्थमाराति ददाति उदारः। 'रा दाने' (अ.प.अ.), 'आतश्चोपसर्गे कः '३ । १ । १३६ ॥ द्वेदातुः ।
१. 'चोरस्य' इति १.२ ॥ २. 'चौरि' इति २.३ ॥ ३. 'अल-' इति २ ॥ ४. 'दक्षति' इति १, 'दक्ष्यति' इति ३ ॥ ५. 'दक्ष वृद्धौ शीघ्रार्थे च' इति क्षीरतरङ्गिण्यादौ ॥ ६. 'इण्सिञ्जिदीङुष्यविभ्यो नक्' इत्युणादिगणसूत्रम् ॥ ७. क्षीरतरङ्गिण्यादौ ङकारानुबन्धो नास्ति ॥ वस्तुतस्तु 'चते चदे याचने च' इति धातुपाठः ॥ ८. 'ह्वेङ्' इति १.३.४ ॥ ९. 'कार्य' इति २ ॥ १०. ' - तीति' इति ३ ॥ ११. 'कुटेऽथ' इति मेदिनीकोशे ॥ १२. 'ण्यदिति' इति ४॥
४०
स्थूललक्षदानशौण्डौ बहुप्रदे ॥ ३८५ ॥
१ स्थूलं लक्षयत्यालोचयति ददातीति यावत् स्थूललक्षः । 'लक्ष दर्शनाङ्कनयो: ' ( चु.उ.से.), पचाद्यच् । लक्षेर्णिजन्ताद् 'एरच् '३ ।३ १५६ ॥ इत्यच् वा । निर्यकारोऽयम् । मिश्रास्तु" दानार्थं स्थूलकूटं (स्थूलं कूटं ) प्रचुरद्रव्यं दातुं लक्ष्यमपेक्षणीयमस्य स्थूललक्ष्यः । 'स्थूलं कूटे चै '[मेदीनीकोशः, ६० शब्दवर्ग:, लान्तवर्गः, श्रो- ५६ ] इति मेदिनिः । लक्ष्यमिति ऋहलोर्ण्यर्ति सयकारोऽयम् "[ ] इत्याहु: । २ दाने दानविषये शौण्डो विख्यातः, प्रसक्तो वा दानशौण्डः । 'सप्तमी शौण्डैः '
For Private Personal Use Only
५०
www.jainelibrary.org