________________
३७७-३८२]
(भ्वा.उ.अ.), ‘सम्पृचानुरुधा - '३ ।२।१४२ ॥ इति घिनुण् घित्त्वात् कुत्वम् । पुरोभागिणौ इत्यादि । [ यत्कात्यः-] "दोषैकग्राहिहृदयः पुरोभागीति कथ्यते "[ ] इति । द्वे दोषैकग्राहिणः ॥ कर्णेजस्तु दुर्जनः । पिशुनः सूचको नीचो द्विजिह्वो मत्सरी खलः ॥३८०॥ १ कर्णे जपति सूचयति कर्णेजपः । 'जप मानसे च' (भ्वा.प.से.), 'स्तबकर्णयोरमिजपो : '३ ।२।१३ ॥ इत्यच् 'संज्ञायाम् २ |१ |४४ ॥ इति समासः, 'तत्पुरुषे कृति - '६ ॥३ ॥१४ ॥ इति सप्तम्यलुक्। २ दुष्टो जनो दुर्जनः । ३ पिशति (पिंशति) १० एकदेशेन सूचयति पिशुनः । 'पिश अवयवे' (तु.प.से.), तुदादौ मुचादि:, 'पिश: (पिशेः) किच्चे' (उणा - ३७५ ) इत्युनन् । अपिशुनति वा, पृषोदरादिः । पिशुनयति दुष्टं सूचयति वा । पचाद्यच् । " अपिश्यति खण्डयति "[]इति भोजः । ४ सूचयति सूचकः । 'सूचे पैशुन्ये' (चु.उ.से.), ण्वुल् । सीव्यति परगुणा (परगुण) - पटमिति वा । 'षिवु तन्तुसन्ताने ' (दि.प.से.), 'सिवेष्टेरू चं' (उणा-२८९)इति चङ्, सूचः, ततः स्वार्थे कनि [सूचक : ] । ५ निकृष्टमञ्चति गच्छति नीचः । 'अञ्च गतिपूजनयोः '(भ्वा.प.से.) । ६ द्वे जिह्वे वचनेऽस्य द्विजिह्वः । 'गोस्त्रियो- '१ १२ १४८ ॥ इति ह्रस्वत्वम् । ७ मत्सरोऽस्त्यस्य मत्सरी । 'अत इनिठनौ' ५।२।११५ ॥ इतीनिः । ८ खलति सञ्चिनोत्यशुभमिति खलः । 'खल सञ्चये'(भ्वा.प.से.), पचाद्यच् । खं शून्यं लातीति वा । 'ला दाने' (अ.प.अ.), 'आतोऽनुपसर्गे कः ३ ।२।३ ॥ | ख स्ववचनविषये चलतीति वा । अच् । खनति साधुहृदयं वा खलः, पुंक्लीबलिङ्गः । वाच्यलिङ्ग इत्यन्ये । 'खन खनने ' (भ्वा.उ.से.), 'मृजिखन्याहनिभ्यो डित्' (हैमोणा-४७२) इत्यलः । अष्टौ दुर्जनस्य । “क्षुद्रः प्रखलः”[शेषनाममाला ३ ।९४ ॥ ] शैषिके ॥ ३८० ॥ व्यसनार्त्तस्तूपरक्तः
१ दैवी मानुषी च पीडा व्यसनम्, तेन ऋतो व्याप्तः व्यसनार्त्तः । 'ऋते च तृतीयासमासे' (वा - ६ । १४८९ ॥ ) इति
२०
व्युत्पत्तिरत्नाकरकलिता
Jain Education International
१६९
वृद्धिः । २ उपरज्यते स्म उपरक्तः । 'रञ्ज रागे' (भ्वा.प.अ.), ३० निष्ठा । द्वे व्यसनिनः । व्यसनीति भाषा ॥
१. द्र. स्वोपज्ञटीका ३।३८० ॥ पृ.८८ ॥ तथा अमरकोशक्षीरस्वामिटीका ३ ११ १४६ ॥ पृ. २४५ ॥ २. 'हलदन्तात् सप्तम्याः संज्ञायाम् '६ ॥ ३ ॥ ९० ॥ इत्यतोऽपि सप्तम्यलुक्, अत एवोक्तं दीक्षितेन सि. कौमुद्याम् - "तत्पुरुषे कृतीति हलदन्तादिति वा ङेरलुक्" इति सि.कौमुदी. पृ.५६८ ॥ ३. वस्तुतः इदं सूत्रमितन् करोति, न त्वनन्, अपरं च 'पिशः (पिशेः) किच्च' इत्यस्य ग्रहणं प्रमादमूलकम्, 'क्षुधिपिशिमिथिभ्यः कित्' (उणा३३५)इत्यस्य विद्यमानत्वात् ॥ ४. द्र. स्वोपज्ञटीका ३।३८० ॥ पृ.८९ ॥, अम. क्षीरस्वामिटीका ३ । १ १४७ ॥ पृ. २४६ ॥ ५. 'शूचि' इति १.२, 'सूचि ' इति३ ॥ ६. उणादिगणे तु 'सिवेष्टेर्यू च' (उणा - २८७ ) इति सूत्रं दृश्यते, कार्यक्षेत्रमपि अन्यदेव, क्लिष्टकल्पनाऽत्र प्रतिभाति ॥ ७. 'खनु अवदारणे' इति क्षीरतरङ्गिण्यादौ ॥ ८. 'ल्युट्' इति ३ ॥ ९. क्षीरतरङ्गिण्यादौ उपक्षयार्थः स्वीकृतः ॥ १०. ' - द्यचि' इति ४ ॥ ११. ' परिपन्थं च तिष्ठति' ४।४।३६॥ इति पाणिनीयाष्टाध्याय्याम् ॥ १२. मा. धातुवृत्तिसम्मतोऽयं धातुपाठः, क्षीरतरङ्गिण्यां ' - शोषणे' इत्येव दृश्यते ॥ १३. 'ऐकागारिकट् चौरे' इत्यष्टाध्याय्याम् ॥ १४. 'म्लोचयति' इति १ ॥ १५. क्षीरतरङ्गिण्यादौ स्तेयकरणार्थकम्लुचधातुर्न दृश्यते ॥ १६. 'चौरे तु चोरटो रात्रिचरः ' इत्यस्य स्थाने १.२.४प्रतिषु 'चोरट: रात्रिचरः' इत्येव दृश्यते, शेषनाममालास्वोपज्ञटीकयोः 'चोरडो' इति दृश्यते ॥
For Private
चोरस्तु प्रतिरोधकः ।
दस्युः पाटच्चरः स्तेनस्तस्करैः पारिपन्थिकः ॥३८१॥ परिमोषिपरास्कन्द्यैकागारिकमलिम्लुचाः ।
(वा
१ चोरयति चोरः । 'चुर स्तेये ' ( चु.उ.से.), पचाद्यच् । प्रज्ञाद्यणि चौरोऽपि । २ प्रतिरुणद्धिः प्रतिरोधकः । 'रुधिर् आवरणे' (रु.उ.अ.), ण्वुल् । ३ दस्यति उपक्षिपति दस्युः । 'दसु उपक्षेपें'' (दि.प.से.), 'यजिमनिशुन्धिदसिजनिभ्यो युच्' (उणा३००) । ४ पाटयंश्चरति पाटच्चरः, पृषोदरादिः । पटच्चरे जीर्णवस्त्रे भवो वा । 'तत्र भवः '४।३ १५३ ॥ इत्यण् । 'पटच्चौर:' इत्येके । ४० ५ स्तेनयति स्तेनः, पुंक्ली. । 'स्तेन चौर्ये ' ( चु.उ.से.), पचाद्यच् । Ε तत्करोति तस्कर: 1 [ 'किंयत्तद्बहुषु ३।२।२१॥)इत्यच्] ‘तद्बृहतो: करपत्योश्चौरदेवतयोः सुट् तलोपश्च' (गणसू - ६ । १ । १५७ ॥ ) । ७ परिपन्थं तिष्ठति, हन्ति वा पारिपन्थिकः । ‘परिपन्थात् तिष्ठति चे' (हैमसू- ६ १४ १३२ ॥ ) इति ठक् ॥ ३८२॥ ८ परिमुष्णातीत्येवंशीलः परिमोषी । 'मुष स्तेये ' (क्र्या.प.से.), 'सम्पृचानुरुधा- '३।२।१४२ ॥ इति घिनुण् । ९ परानास्कन्दति परास्कन्दी । 'स्कन्दिर् गतिशोषणयोः' (भ्वा.प.अ.) । १० एकमसहायमगारं प्रयोजनमस्य ऐकागारिकः । ‘ऐकागारिकश्चौरै*५ ।१ ।११३ ॥ इति ठक् । ११ मलिनं म्लोचर्ति ५० मलिम्लुचः । 'म्लुच स्तेयकरणें' (भ्वा.प.से.), 'इगुपध - ' ३ | १ | १३५ ॥ इति कः । एकादश चौरस्य । " चौरे तु चोरटो रात्रिर्चर : "[ शेषनाममाला ३ ।९५ ॥ ] इति शैषिके ॥ यः पश्यतो हरेदर्थं स चौरः पश्यतोहरः ॥ ३८२॥ |
१ यः पश्यतो विलोकयतो जनस्य अर्थं द्रव्यं हरेत्, स चौरः पश्यतोहरः, उच्यत इति शेषः । पश्यतः हरः पश्यतोहरः । 'वाग्दिक्पश्यद्भ्यो युक्तिदण्डहरेषु' (वा - ६ |३ |२१ ॥ ) इति षष्ठ्यलुक् ॥ ३८२॥
Personal Use Only
www.jainelibrary.org