________________
१६८
मायाऽस्यास्ति मायी । व्रीह्यादिभ्यश्च' ५।२ ।११६ ॥ इतीनिः । मायाविमायिकावपि । ७ जालेन चरति जालिकः । 'तेन चरति ' ४ १४ १८ ॥ इति ठक् । सप्त धूर्तस्य ॥ माया तु शठेता शाठ्यं कुंसृतिर्निकृतिश्च सा ॥३७७॥
१ मात्यनया माया । 'मा माने ' ( अ.प.अ.), 'श्याद्वधा - '३ । १ । १४१ ॥ इति णः, 'आतो युक् चिण्कृतो: ' ७।३।३३ || 'माच्छासस्तिसूभ्यो यः' (उणा - ५४९) इति यप्रत्ययो वा, टाप् । २ शठस्य भावः शठता । तस्य भावस्त्वतलौ ५ ॥२ ॥ ११ ॥ | ३ शठस्य भाव: शाठ्यम् । १० ब्राह्मणादित्वात् ष्यञ् । ४ कुत्सिता सृतिहिंसा कुसृतिः । ५ निकृष्टा कृतिहिंसा निकृतिः । माया परवञ्चनबुद्धिः । निकृतिः बकवृत्त्यागलकर्तकानामिवावस्थानम्, अथवा मायाप्रच्छादनार्थं मायान्तरकरणम् । " निकृतिर्बकवृत्त्या कुक्कुटादिकरणम्, अधिकोपकारकरणेन परच्छलनम् "[ ]इत्यन्ये, इति विशेषोऽत्र नाश्रितः । पञ्च मायायाः ॥३७७॥
२०
३०
अभिधानचिन्तामणिनाममाला
कपट कैतवं दम्भः कूटं छोपधिश्छलम् । व्यपदेशो मिषं लक्षं निभं व्याजः
Jain Education International
[ मर्त्यकाण्डः-३ (भ्वा.प.से.), 'हलश्च ३ | ३ | १२१ ॥ इति घञ् । व्याजः स्वरूपाच्छादनम्, यथा-" ध्यानव्याजमुपेत्य चिन्तयसि काम्''[नागानन्दनाटकम्, प्रथमोऽङ्कः, श्रो- १] इति । मायादयः कपटादयश्च एकार्था इत्येके । कपटादयः सप्त, व्यपदेशादयश्च पञ्च भिन्नार्था इत्यमरः । तदा कपटादयः सप्त, कपटवाचकाः । तत्रापि च वेषभाषाविपर्ययकरणं कपटम्, कार्षापणतुलादेः परवञ्चनार्थं न्यूनाधिककरणं कूटमिति विशेषोऽत्र नाश्रितः । व्यपदेशादयः पञ्च लोकोक्त्या मिसवाचकाः ॥
४०
अथ कुक्कुटिः ॥ ३७८ ॥
कुना दम्भचर्याच
१ कुक्कुट इवाचरति कुक्कुटति, कुक्कुटनं कुक्कुटि: । ‘अच इः'(उणा-५७८) इति इ: ॥ ३७८ ॥ २ कुहयतेऽनया कुहना । 'कुहर्णे विस्मापने ' (चु.आ.से.), णिजन्तादस्मात् 'करणाधिकरणयोः - '३ । ३ । ११७ ॥ इति करणे ल्युट् । २ दम्भेन चरणं दम्भचर्या 'चर गतिभक्षणयो:' (भ्वा.प.से.), क्यप् । त्रीणि दम्भेन परविस्मापनार्थं मिथ्याकल्पनायाः ॥ वञ्चनं तु प्रतारणम् ।
५०
व्यलीकमभिसन्धानम्'
१ वञ्च्यते वञ्चनम् । 'वञ्च प्रलम्भने ' ( चु.आ.से.), ल्युट् । २ प्रतार्यते प्रतारणम् । 'तृ प्लवनतरणयो: ' (भ्वा.प.से.), अस्माणिजन्ताद् भावे ल्युट् । ३ विशिष्टमलीकमत्र व्यलीकम् । ४ अभिसन्धीयते अभिसन्धानम् । 'डुधाञ् धारणादौ' (जु.उ. अ.), भावे ल्युट् । चत्वारि वञ्चनस्य ॥
सोधौ सभ्यार्यसज्जनाः ॥३७९॥
१ साधयति परकार्याणि साधुः । 'साध संसिद्धौ' (स्वा.प.अ.), ‘कृवापाजिमिस्वदिसाध्यशूण्भ्यः' (उणा - १) इत्युण्, तत्र । २ सभायां साधुः सभ्यः । 'सभाया यः ' ४४ ॥ १०५ ॥ इति । ३ अर्यते उपजीव्यत्वेन गम्यत आर्यः । 'ऋ गतौ’(जु.प.अ.), ‘ऋहलोर्ण्यत् '३ ।१ ।१२४ ॥ इति ण्यत्, 'अचो ञ्णिति' ७।२।११५ ॥ इति वृद्धिः । ४ सन् प्रशस्तो जनः सज्जनः । चत्वारि सज्जनस्य ॥ ३७९ ॥
१ के मूर्ध्नि पट इव छादकं कपटम्, पुंक्ली. । ( ब्रह्माणमपि पटति गच्छति, पचाद्यचि वा) । २ कितवस्य कर्म कैतवम् । युवादित्वादण् । ३ दम्भनं दम्भः । भु दम्भने' (स्वा.प.से.), भावे घञ् । ४ कूटयति दहत्यनेन कूटम्, पुंक्ली । यदमर :- "कूटमस्त्रियाम् "[ अमरकोषः २१५।४२।] । 'कूट दाहे' (चु.उ.से.), णिजन्त:, [अच् घञ् वा] । ५ छाद्यते रूपमनेन छद्म । 'छद संवरणे' (चु.उ.से.), 'मनिन् ' ( उणा-५८४ ) इति मनिन्, 'इस्मन्त्र[] न् ] क्विषु च ६ ४ ९७ ॥ इति ह्रस्वत्वम् । ६ उप समीपे धीयत उपधिः | 'डुधाञ् धारणादौ' (जु.उ.अ.), 'उपसर्गे घो: कि : ३ ३ ९२ ॥ । ७ छ्यति छिनत्त्यनेन छलम् । 'छो छेदने' (दि.प.अ.), पृषोदरादिः । ८ व्यपदिश्यते व्यपदेशः । ' दिश अतिसर्जने' (तु.प.अ.), भावे घञ् । ९ मिषति मिषम् । 'मिष स्पर्धायाम्'(तु.प.से.), तुदादिः, 'इगुपध- '३।१।१३५ ॥ इति कः । १० लक्ष्यतेऽनेन लक्षम्, पुंक्ली. । 'लक्ष दर्शनाङ्कनयोः ' (चु.उ.से.), करणे घञ् । ११ नितरां तदिव भाति निभम् | 'भा दीप्तौ ' ( अ.प.अ.), 'आतश्चोपसर्गे कः '३ ।१ ।१३६॥ | १ दोषे एव एकस्मिन् दृग् ज्ञानमस्य दोषैकदृक् । २ १२ व्यजन्ति विक्षिपन्त्यनेन व्याजः । 'अज गतौ क्षेपणे च' पुरोऽग्रं सर्पवद् भजतीत्येवंशीलः पुरोभागी । ' 'भज सेवायाम्' १. अष्टाध्याय्यां 'चरति' इत्येव ॥ २. 'ससिसूभ्यो यः' इत्युणादिगणे ॥ ३. कोष्ठान्तर्गतपाठः १ प्रतौ नास्ति ॥ ४ हैममते एव चुरादेर्णकारानुबन्धः ॥ ५. मुद्रिताभिधानचिन्तामणौ मूले 'अतिसन्धानम्' इति, स्वोपज्ञटीकाऽपि तमाश्रित्यैव ॥ ६. 'अस्माद् भावे णिजन्ताल्ल्युट् ' इति ३॥ ७. ' - शूभ्य उण्' इत्युणादिगणे ॥ ८ तुलनीयोऽमरकोषः ३ । १ ४६ ॥
दौषैकदृक् पुरोभाग
For Private Personal Use Only
६०
www.jainelibrary.org