________________
२०
भारे विवववध । १ भ्रियते भारः, तत्र । विवध्यते विवधः । 'वध संयमने' (चु.उ.से.), घञि, 'जनिवध्योश्च ७ | ३ | ३५ ॥ इति वृद्धिनिषेधः । ‘पुंसि संज्ञायाम्’३ ॥३।११८ ॥इतिघो वा । २ ' उपसर्गस्य घञ्यमनुष्ये बहुलम् '६ |३ | १२२ ॥ इति दीर्घत्वे वीवधः । त्रीणि भारस्य । पर्याहारार्थेऽप्येतौ । तृणजलान्नादीनामन्यत आनयनं पर्याहारः । तदर्थे यदाह - " विवधो [वीवधो] भारे पर्याहाराध्वनोरपि " १० [अनेकार्थसङ्ग्रहः ३ | ३४१ ॥ ] इति ॥ काचः शिक्यं तदालम्बः
१ कच्यते बध्यतेऽनेन काचः । 'कच बन्धने' (भ्वा.आ.से.), करणे घञ्, 'हलश्च ३ । ३ । १२१ ॥ इति संज्ञायामिति घञ् वा । २ शक्नोति वोढुं शिक्यम् । 'शक्लृ शक्तौ' (स्वा.प.अ.) ‘मध्यशिक्यान्यपर्यन्यवदान्यथोहर्म्यधिष्ण्यपस्त्यागस्त्यपुलस्त्यापत्यसत्यकुड्यकुल्याभल्यादय: ' ( ) इति क्यपि साधुः । स्रंसत इति वा । 'स्रंशे : शि: कुट् किच्च ' (उणा - ६९४) इति य: (यत्), धातोः शिरादेशः कुडागमश्च । तस्य भारस्यालम्बनं तदालम्ब:, यत्र रज्जुपञ्जरें वोढव्यमास्ते । द्वे 'छींका' इति ख्यातस्य ॥ भारयष्टिर्विहङ्गिका ॥३६४॥
१ भारोद्वहनार्थं चतुर्दण्डिका यष्टिर्भारयष्टिः । “शिक्याधारः स्कन्दग्राह्यो लगुडः "[" ] इति द्रविडः । विहङ्गप्रतिकृतिश्चर्मादिमयी विहङ्गिका । या भित्त्यादौ लम्बमाना स्थाप्यते, प्रयाणके च सन्धार्यते । " स्कन्दचापो विहङ्गिका''[हारावली, पादावधिः, श्रो- ६३ ] इति हारावलीकारः । एकं 'कावडी' इति ख्यातायाः ॥ ३६४ ॥
शूरश्चारभटो वीरो विक्रान्तश्च
१ शूरयते शूरः । 'शूर विक्रान्तौ ' ( चु.आ.से.), चुरादिः, पचाद्यच् । २ चरणं चारः । चारेण गमनेने भटति युद्धमाकाङ्क्षति चारभटः । 'भर्ट काङ्क्षायाम् ' (भ्वा.प.से.), पचाद्यच् । ३ अजति क्षिपति शत्रूनिति वीरः । 'अ
क्षेपणे च' (भ्वा.प.से.), 'स्फायि - ' ( उणा - १७० ) इत्यादिना रक्, 'अजेर्व्यघञपोः '२४ ५६ ॥ इति वी आदेशः । वीरयत
३०
३६१-३६६ ]
विवधवीवधात् '४।४।१७ ॥ इति ठक् । वीवधिकोऽपि । द्वे वार्त्तावहस्य ।' अधोवाहीयाप्रमुख' इति भाषा ॥
व्युत्पत्तिरत्नाकरकलिता
Jain Education International
१६३
इति वा । 'वीर विक्रान्तौ ' ( चु.आ.से.), चुरादिः, पचाद्यच् । ४ विक्रामति उत्सहते विक्रान्तः । क्रमु पादविक्षेपे' (भ्वा.प.से.), वर्तमाने क्तः, 'अनुनासिकस्य क्विझलो :- ' ६४ ११५ ॥ इति दीर्घः । चत्वारि ॥
अथ कातरः । देरितश्चकितो भीतो भीरु भीरुकभीलुकाः॥३६५॥
१ कुँ' ईषत् तरति कातरः । 'तू प्लवनतरणयोः' ४० (भ्वा.प.से.), पचाद्यच्, 'ईषदर्थे च ' ६ ॥३ ॥ १०५ ॥ इति को: कादेशः । कायति वा । 'कै शब्दे' (भ्वा.प.अ.), बाहुलकात् तरच् । स्त्री चेत् कातरा । २ दरो भयं सञ्जातोऽस्य दरितः । तारकादित्वादितच् । ३ चकति बिभेति चकितः । 'चक प्रतिघाततृप्त्योः'(भ्वा.प.से.), क्तः, 'आर्धधातुकस्य - '७।२।३५ ॥ इतीट् । ४ बिभेति स्म भीतः । 'ञिभी भये ' ( जु.प.अ.), निष्ठा । ५-७ बिभेतीत्येवंशीलो भीरुः, भीरुकः, भीलुकः । 'त्रिभी भये' (जु.प.अ.) 'भियः क्रुक्लुकनौ '३ ॥३ ॥१७४॥ 'क्रुकन्नर्पि वाच्यः'(वा- ३ । २ । १७४ ॥ ) इति मध्यस्थं रूपम् । सप्त कातरस्य । [शेषश्चात्र- " त्रस्नुः त्रस्त : " [शेषनाममाला ५० ३ । ९४ । ] ॥ ३६५॥
विहस्तव्याकुलौ व्यग्रे
१ विगतौ किङ्कर्तव्यतामूढत्वाद् हस्तावस्य विहस्तः । ३ विशेषेण आकुलो व्याकुलः । ४ विगतमग्रमालम्बनमस्य व्यग्रः, तत्र । त्रीणि कार्याकुलस्य ॥
कान्दिशीको भयद्रुते ।
१ कां दिशं व्रजामीत्याकुलः कान्दिशीकः । पृषोदरादित्वात् साधुः । 'कदि वैक्लव्ये ' (भ्वा.आ.से.), भावे घञन्ताद् मत्वर्थे इनि:, कन्दी । 'शीकृ सेचने ' (भ्वा.आ.से.), भावे घञ्, शीकः, क्षरणार्थत्वादश्रुपाते वर्तते, वैक्लव्ययुक्तो ६० अश्रुपात: कन्दिशीकः, तद्योगाद् ज्योत्स्नाद्यणि कान्दिशीक इति वा । “कां दिशं गच्छामीति चिन्तयन् पलायितः कान्दिशीकः, पृषोदरादिः ''[ टीकासर्वस्वम् ३ | १४० ॥]इति तु सर्वस्वम्। भयाद् द्रुतः पलायितः भयद्रुतः, तत्र । एकं भयद्रुतस्य ॥ उत्पिञ्जलसमुत्पिञ्जपिञ्जला भृशमाकुले ॥३६६ ॥ १ उत्पिञ्जयति उत्पिञ्जलः । 'पिजि हिंसादौ' (चु.उ.से.), वृषादित्वात् कलच् । २ समुत्पिञ्जयति समुत्पिञ्जः ।
१. अष्टाध्याय्यां 'विभाषा विवधात्' इत्येव सूत्रम्, नतु - विवधवीवधात्', तस्मादिदं कथनं सिद्धान्तकौमुद्यनुसारं फलितार्थमात्रम् ॥ २. अत्र ष्टनाभावपक्षे 'ठक्' बोध्यम्, अन्यथाऽऽदिवृद्ध्यभावः स्यात् ॥ ३. शिक्यो-' इति १.२ । ४. 'पञ्जरे' इत्येव ४॥ ५. द्र. स्वोपज्ञटीका ३ | ३६४ ॥, पृ. ८५ ॥ ६. 'द्रविथा:' इति १ ॥ ७. 'लम्बनमास्था-' इति ४॥ ८. 'काबडी' इति १.२ ॥ ९ १ प्रतौ नास्ति ॥ १०. भट आका-' इति ३ ॥ ११. 'सूर' इति ३ ॥ १२. १प्रतौ नास्ति ॥ १३. अष्टाध्याय्यां चकारो नास्ति ॥ १४. 'क्रुकन्निति' इति ३ ॥
For Private Personal Use Only
www.jainelibrary.org