________________
१६०
नाथवान् निघ्नगृह्येकौ । तन्त्रायत्तवंशाधनच्छन्दवन्तः परात् परे ॥ ३५६ ॥
अभिधानचिन्तामणिनाममाला
१ नाथो नियन्ताऽस्त्यस्य नाथवान् । 'तदस्यास्ति- ' ५।२।९४ ॥ इति मतुप्, '[मादुपधायाश्च] मतोर्वोऽयवादिभ्यः' ८।२९ ॥ इति वत्वम् । २ निहन्यते निगृह्यते निघ्नः । 'हन् (हन) हिंसागत्यो:' (अ.प.अ.), 'घञर्थे कविधानम् ' (वा३।३।५८॥)इति कः । ३ गृह्यतेऽसौ गृह्यः । 'ग्रह उपादाने' (क्र्या.उ.से.), 'पदास्वैरिबाह्यापक्षे (-ये- ) षु च '३ |१| ११९ ॥ इति क्यप्, 'ग्रहिज्या- '६ ।१ । १६ ॥ इति सम्प्रसारणम्, अनुकम्पायां १० कन् गृह्यकः । ४-९ परशब्दात् परेऽग्रे तन्त्रादयः षड् योज्यन्ते, तेन परस्य तन्त्र आयत्तः परतन्त्रः, परायत्तः । परस्य वशः परवशः । (परस्याधीनः पराधीनः) । परस्य छन्दो परच्छन्दः । परो नियन्ताऽस्त्यस्य परवान् । अस्त्यर्थे मतुप् । नव पराधीनस्य । शेषश्चात्र " परतन्त्रे वशायत्तावधीनोऽपि" [शेषनाममाला ३।९३||]। अधिगत इनः प्रभुरनेन, अधि उपरि इनः अस्य वा अधीनः । दिवादौ 'धीङ् आधारे' '(दि.आ.अ.) अस्य धातोर्व्याख्याने माधवेन व्याख्यातम् - " धीनः । धीनवान् । न धीनः अधीनः। यस्तु-" अस्मास्वधीनं किमु निःस्पृहाणाम् " [ किरातार्जुनीयम् ३ ।९ ॥ ] इत्यादावधीनशब्दः सोऽव्युत्पन्नः परतन्त्रवचनः । २० यदाह कैयटकारै:-‘वाक्यं वक्तर्यधीनं हि '[ ]इत्युपादाय'अध्युत्तरपदात् खविधानाद् अव्युत्पन्न आयत्तार्थवृत्तिरधीनशब्दः ' [ ] इति ' [ मा. धातुवृत्तिः, दिवादिगणे धातुसंख्या- ७] । “अधीनशब्दो निरुपपदोऽसाधुः उत्तरपदत्वाभावेन खस्याभावः" [ ]इति कलिङ्गः, तदयुक्तम्, अधीनशब्दस्यायत्तपर्यायत्वात्, यथा वाक्यं वक्तर्यधीनमिति ॥ ३५६ ॥ लक्ष्मीवान् लक्ष्मणः श्रील:
१ लक्ष्मी: शोभा, सम्पच्च, तद्युक्तो लक्ष्मीवान् । २ लक्ष्मीरस्यास्ति लक्ष्मणः । 'लक्ष्म्या अच्च' (गणसू-५ ॥२॥१०० ॥ ) इति पामादित्वाद् नः । ३ श्रीरस्यास्ति श्रीलः । सिध्मादित्वाल्लः, ३० कपिरि (लि) कादित्वाल्लत्वम् । श्रीमानित्यपि । त्रीणि लक्ष्मीवतः ॥ इभ्य आढ्यो धनीश्वरः ।
[ मर्त्यकाण्डः-३
१ इभं गजमर्हति इभ्यः । ' दण्डादिभ्यो यत् '५ ।१ ।६६ ॥ | २ आध्यायन्ति स्मरन्त्येतं तदुपजीविन इति आढ्यः । पृषोदरादित्वात् साधु । ३ धनमस्यास्ति धनी । अतिशायिने 'अत इनिठनौ '५ ।२ ।११५ ॥ इतीनिः । ४ ईष्ट इत्येवंशील ईश्वरः । 'ईश ऐश्वर्ये' (अ.आ.से.), 'स्थेशभासपिसकसो वरच् ३ ।२।१७५ ॥ ॥५ ऋध्यति स्म ऋद्धः । 'ऋधु वृद्धौ' (दि.प.से.), दिवादिः, निष्ठा, तत्र । पञ्च बहुधनिनः ॥
Jain Education International
विभूतिः सम्पत्तिलक्ष्मीः श्रीऋद्धिसम्पदः ॥३५७॥ ४० १ विभवनं विभूतिः । 'भू सत्तायाम् ' (भ्वा.प.से.), -'भूङ् प्राप्तौ ' ' (चु.आ.से.) अतो वा, 'स्त्रियां क्तिन् '३ । ३ । ९४ ।। । २ सम्पदनं सम्पत्तिः । 'पद गतौ ' (दि.आ.अ.), 'स्त्रियां क्तिन्' ३।३।९४ ॥, 'खरि च'८ ४ १५५ ॥ इति चर्त्वम् । ३-४ लक्ष्मीः, श्रीः एतौ प्राग् व्युत्पादितौ [ - २।२२६] । ५ अर्धनम् ऋद्धिः । 'ऋधु वृद्धौ ' ( दि.प.से.), 'स्त्रियां क्तिन् '३ | ३ |९४॥, 'झषस्तथोः - ' ८ ।२ ४० ॥ इति धत्वम्, 'झलां जश्- '८।४।५३ ॥ इति दत्वम् । ६ सम्पदनं सम्पत् । 'सम्पदादिभ्यश्च' (वा३ | ३ | १०८ ॥ ) इति क्विप् । षट् सम्पदः ॥३५७॥
दरिद्रो दुर्विधो दुःस्थो दुर्गतो नि:स्वकौ । अकिञ्चनः
ऋद्धे
१. कोष्ठान्तर्गतपाठः १.२नास्ति ॥ २. स्वामिसम्मतोऽयं धातुपाठः, 'धीङ् आदाने' इति सायणः ॥ ३. 'कैयटः' इति धातुवृत्तौ ॥ ४. द्र. पदचन्द्रिका, भा-३, विशेष्यनिघ्नवर्गः, श्रो- १६, पृ.१४ ॥ ५. 'भू प्राप्तौ' इति मा. धातुवृत्ति:, 'भू प्राप्तावात्मनेपदी वा' इति क्षीरतरङ्गिणी ॥
१ दरिद्राति दरिद्रः । 'दरिद्रा दुर्गतौ ' ( अ.प.से.), पचाद्यच् । न तु 'श्याद्वधा- '३।१।१४१ ॥ इति णः, "दरिद्रातेः सार्वधातुके (आर्धधातुके) लोपः सिद्धश्च प्रत्ययविधौ ' ( वा६।४।११४॥ इति णे कर्तव्येऽल्लोपसप्तम्यामल्लोपस्य पूर्वकृतस्य सिद्धत्वादादन्तत्वात् । यद्धातुवृत्तौ दरिद्र इत्यत्र " 'श्याद्व्यधा- ' ३।१।१४१ ॥ इत्याकारान्तलक्षणस्तु णो न भवति 'दरिद्रातेरार्धधातुके -' इत्यस्य विषयसप्तमीत्वात् प्रागेव प्रत्ययोत्पत्तेराल्लोपात् ''[मा. धातुवृत्तौ अदादिगणे, धातुसंख्या- ८० ] । २ दुष्टा विधा प्रकारो भोजनं वा अस्य दुर्विधः । 'गोस्त्रियोः - ' १।२४८ ॥ ६० इति परपदस्य ह्रस्वत्वम् । ३ दुःखेन तिष्ठति दुःस्थः ।
५०
For Private Personal Use Only
www.jainelibrary.org