________________
३५१-३५६]
णिजन्तः, पचाद्यच् । दीर्घसूत्रीति व्यञ्जनान्तोऽपिं । यद्धलायुधः‘‘दीर्घसूत्री' जडक्रिय:''[हलायुधकोशः २ ।३८३ ॥ ] इति । “दीर्घं सूत्रयतीत्येवंशीलो दीर्घसूत्री "[ ] इति तट्टीका । " सूत्रण् विमोचने, विमोचनं मोचनाभावो ग्रन्थनमिति यावत्" [ (हैम) - धातुपारायणम्, चुरादिः, धातुसं-३३३]इति धातुपारायणम् । णिन्प्रत्ययान्तः । द्वे दीर्घसूत्रस्य । 'ऊंडु विमासई' इति भाषा ॥ मन्दः क्रियासु कुण्ठः स्यात्
व्युत्पत्तिरत्नाकरकलिता
१ क्रियासु कर्मसु मन्दोऽलसः, कुण्ठति कुण्ठः । 'कुठि आलस्ये' (भ्वा.प.से.), पचाद्यच् । कुणति शब्दायते, न तु करोतीति १० वा। 'कुण शब्दोपकरणयो:' (तु.प.से.), 'कुणे-डुण्ठ:'( ) इति डुण्ठः । एकं कार्येऽलसस्य ॥
क्रियावान् कर्मसूद्यर्तेः ॥३५३॥
१ क्रियास्त्यस्य क्रियावान् । 'तदस्यास्ति- '५ ।२ ।९४ ॥ इति मतुप् । कर्मसु उद्यत उद्यमयुक्तस्तस्यैकम् ॥ ३५३ ॥ कर्मक्षमोऽलङ्कर्मीर्णः
१ कर्मसु क्षमः समर्थः कर्मक्षमः, अलं समर्थः कर्मणे अलङ्कर्मीणः । ' 'अषडक्षाशितपङ्ग्वलङ्कर्मालम्पुरुषाऽध्युत्तरपदात् ख : '५४७॥ खस्येनादेशः, 'नस्तद्धिते '६ १४ ॥ १४४ ॥ इति टिलोपः, 'पर्यादयो ग्लानाद्यर्थे चतुर्थ्या' (वा - २ ।२।१८ ॥ २० इति समासः । एकं कर्मसमर्थस्य ॥
कर्मशूरस्तु कर्मठः । १ कर्मणि शूरः कर्मशूरः । २ कर्मणि घटते कर्मठः । 'कर्मणि घटतेऽच्ं '५ ।२ । ३५ ॥ । कर्मणि घटते प्रयत्नेन प्रारब्धं कर्म परिसमापयतीति वा व्युत्पत्तिः । प्राक्सूत्रेणाऽठच् । द्वे कर्मस्य ॥
कर्मशीलः कार्मः
[१ कर्म शीलमस्य कर्मशीलः । ] २ नित्यं कर्मसु फलमनपेक्ष्य प्रवृत्तिशीलः कार्मः । 'छत्रादिभ्योऽण् ४ १४ १६२ ॥ (" कार्मस्ताच्छील्ये '६ ४ २७२ ॥ इति ताच्छील्ये णे टिलोपो
Jain Education International
१५९
निपात्यते, 'नस्तद्धिते '६ । ४ । १४४ ॥ इत्येव सिद्धे अण्कार्यं ३० ताच्छीलिकेऽपि, अत एव प्राचा णेऽपि क्वचिदित्युक्तम्, तेन) स्त्रियां कार्मी । द्वे कर्मकरणस्वभावस्य ॥
आयःशूलिकस्तीक्ष्णैकर्मकृत् ॥३५४॥
१ तीक्ष्ण उपायोऽयः शूलं तेनाऽन्वेष्टा आयः शूलि - कः । 'अयः शूलदण्डाजिनाभ्यां ठक्ठञौ ५ ।२ ७६ ॥ इति ठक्, 'ठस्येक: ' ७।३ ॥ ५० ॥, 'किति च ७ । २ । ११८ ॥ इति वृद्धिः । यो मृदुनोपायेन अन्वेष्टव्यानर्थांस्तीक्ष्णोपायेनान्विच्छति राभसिकः, स एवं कथ्यते, तीक्ष्णोपायेन दण्डेन कार्यकरणपर इत्यर्थः । एकं तीक्ष्णकर्मकर्तुः ॥३५४॥
सिंहसंहननः स्वङ्गः
१ सिंहस्येव संहननं देहोऽस्य सिंहसंहननः । २ शोभनमङ्गमस्य स्वङ्गः । द्वे सुरूपशरीरिर्णः ॥ स्वतन्त्र निरवग्रहः ।
यथाकामी स्वरुंचिश्च स्वच्छन्दः स्वैर्य्यपावृतः ॥३५५॥
१ स्वम् आत्मा तन्त्रं प्रधानमस्य स्वतन्त्रः । २ निःक्रान्तोऽवग्रहान्नियन्त्रणादिति निरवग्रहः । 'निरादयो निःक्रान्ताद्यर्थे पञ्चम्या' (वा २२ । १८ ॥ ) इति समासः । ३ यथा कामयत इच्छति यथाकामी, णिन्नन्तः । ४ स्वा आत्मीया रुचिरस्य स्वरुचिः । ५ स्व आत्मीयश्छन्दोऽभिप्रायोऽस्य स्वच्छन्दः । ६ स्वमीरितुं शीलमस्य स्वैरी । 'ईर गतिकम्पनयो: ' (अ.आ.से.), ५० 'सुप्यजातौ '३।२७८ ॥ इति णिनिः, 'स्वादीरेरिणो:'(वा६।१।८९ ॥) इति वृद्धिः । स्वैरोऽस्यास्तीति वा । ७ अपगतमावृतं नियन्त्रणमस्य अपावृतः । सप्त स्वेच्छाचारिणः । 'आपमती ' इति भाषा ॥ ३५५॥
यदृच्छा स्वैरिता स्वेच्छा
१ या या इच्छा यदृच्छा, पृषोदरादिः । २ स्वैरिणो भावः स्वैरिता । 'तस्य भावस्त्वतलौ ५ । १ । ११९ ।। । ३ स्वस्यात्मन इच्छा स्वेच्छा । त्रीणि स्वेच्छायाः ॥
१. 'इनन्तोऽपि ' इति युक्तः ॥ २. हलायुधकोशे 'दीर्घसूत्रो' इति दृश्यते, तत्रैव 'दीर्घसूत्री' इति पाठान्तरम् ॥ ३. 'उंडो विमासे' इति ३, ' -विमासै' इति १ ॥ ४. तुलनीयोऽमरकोषः ३ । १ । १८ ॥ ५. 'अषडक्षाशितङ्ग्व-' इत्यष्टाध्याय्याम् ॥ ६. 'घटोऽठच्' इत्यष्टाध्याय्याम् ॥ ७. 'कर्मकर--' इति४, 'कर्मसूर - ' इति १.२ ॥ ८. कोष्ठान्तर्गतपाठः १.२ नास्ति ॥ ९. 'सुरूपकरणशरी-' इति २ ॥ १०. मती' इति ४ ॥
४०
For Private Personal Use Only
www.jainelibrary.org