________________
२०
१५६
१० वागीशो वाक्पतौ
३०
१ अन्तरन्तःकरणे वाणी शास्त्रशरीरभूता अधिदेवभूतांवा अस्य अन्तर्वाणिः । ‘गोस्त्रियोः - '१ ।२ ।४८ ॥ इति ह्रस्वत्वम्, 'मातृच (मातृज्) मातृकमातृषु' (वा - ६ । १ । १४ ॥ इति सामान्यज्ञापकात्, कपोऽनित्यत्वान्न कप् । " अन्तर्वाण्यस्येति अन्तर्वाणि: [विपश्चित्],'निष्प्रवाणिश्च १५ १४ ॥ १६० ॥ इति चकाराद् 'नघृतश्च' ५।४।१५३ ॥ इति कपो निषेधः''[मा.धातुवृत्तिः, भ्वादि:, धातुसं२९७]इति माधवः । शास्त्रं च न तथा वक्तुं शक्नोति शास्त्रवित् ।‘विद ज्ञाने'(अ.प.से.), क्विप् । शास्त्रं वेत्ति न तथा वक्तुं शक्नोति, तस्यैकम् ॥३४५॥
अभिधानचिन्तामणिनाममाला
१ वाचामीशो वागीशः । " प्रधानवचसो मूकान् वागीशानपि कुर्वतः "[ ] इति माघः । २ वाचां पतिः वाक्पतिः, तत्र । द्वे प्रधानवक्तुः ॥
वाग्मी वाचोयुक्तिपटुः प्रवाक् ।
समुखो वावदूकः
१ प्रशस्ता वागस्य वाग्ग्मी । 'वाचो ग्मिनिः ' ५ ।२ । १२४ ॥ इति ग्मिनिः, तेन द्वयोर्गकारयोः श्रवणं भवति, 'चोः कुः '८ |२|३० ॥, 'झलां जशोन्ते '८ । २ । ३९ ॥ इति जश्त्वम् । यदि मिनिरित्येवोच्येत तदा 'यरोऽनुनासिके - ' ८ ४ ४५ ॥ इति नित्यमनुनासिकः स्यात्, 'प्रत्यये नित्यमिष्यते' इति वचनात् । "यो हि सम्यग्भाषते वाग्मीत्येव से भवति "[ ]इति माधवकृष्णपण्डितादयः। २ वाचो युक्तौ पटुः वाचोयुक्तिपटुः, षडक्षरमखण्डम्। 'वाग्दिक्पश्यद्भयो युक्तिदण्डहरेषु' (वा - ६ । ३ ।२१ ॥ ) इति षष्ठ्यलुक् । ३ प्रकृष्टा वागस्य प्रवाक् । ४ सह मुखेन वचनेन वर्तते समुखः । मुखशब्देनात्र वचनं लक्ष्यते । ५ वावद्यत इत्येवंशीलो वावदूकः । वदेर्यङन्ताद् 'वदेश्च' ( ) इत्यूकः । पञ्च प्रतिभायुक्तजल्पकस्य ॥
अथ वंदो वक्ता वदावदः ||३४६ ॥
१ वदतीति वदः । 'वद व्यक्तायां वाचि' (भ्वा.प.से.), पचाद्यच् । २ वक्तीति वक्ता । 'वच परिभाषणे' (अ.प.अ.),
[ मर्त्यकाण्डः - ३
' ण्वुल्तृचौ '३ ।१ ।१३३ ॥ इति तृच्, तृन् वा । ३ वदति वदावदः । वद व्यक्तायां वाचि'(भ्वा.प.से.), पचाद्यच्, 'चरिचलिपति-वदीनां द्वित्वमच्याक् चाभ्यासस्य कार्यमनचीति वक्तव्यम्' (वा६।१।१२॥)इति हलादिःशेषाभावः । त्रीणि वक्तुः । 'कहणहार ' इति भाषा ||३४६ ॥
Jain Education International
स्याज्जल्पाकस्तु वाचालो वाचाटो बहुगंर्ह्यवाक् ।
१ जल्पनशीलो जल्पाकः । 'जल्प व्यक्तायां वाचि' (भ्वा.प.से.), 'जल्पभिक्षकुट्टलुण्टवृङः षाकन् '३ ।२ । १५५ ।। । २ - ३ कुत्सिता वागस्य वाचाल:, [वाचाट: ] । 'आलजाटौ (आलजाटचौ) बहुभाषिणि '५ ।२ ।१२५ ॥ कुत्सित इति वाच्यम्' (वा-५ ।२ ।-१२५ ॥) । ४ बहुर्निः सारतया गर्ह्या वागस्य बहुगवाक् । चत्वारि वाचालस्य । 'घणं 'असारबोलेँ' इत्यादिभाषा ॥
यद्वदोत्तरे
१ यदेव निःसरति, तदेव वदति यद्वदः । पचाद्यच् । २ नास्ति उत्तरमस्य अनुत्तरः, तत्र । द्वे प्रश्नानुरूपोत्तररहितस्य ॥ दुर्वाक् कद्वदे स्यात्
१ दुर् निन्दितं वक्ति दुर्वाक् । दुर् निन्दिता वाग - स्यास्तीति वा । २ कुत्सितं वदति कद्वदः । 'रथवदयोश्च' ६ ॥ ३ ॥ १०२ ॥ इति को: कत्, तत्र । गर्ह्यवादीत्यपि । “गर्ह्यवादी तुद्वदः ''[अमरकोषः ३ । १ । ३७ ॥ ] इत्यमरः । यो निन्दां कुर्वन् ५० वक्त, तस्य द्वे ॥
अथाऽधरः ॥३४७॥
नवदन
१ अवति गच्छति हीनत्वम् अधरः । 'अव रक्षणादौ' (भ्वा.प.से.), 'अवेर्ध (ध्) च वा' (हैमोणा - ३९८) इत्यरः ॥३४७॥ २ हीनं वदतीत्येवंशीलो हीनवादी । 'वद व्यक्तायां वाचि'(भ्वा.प.से.),‘सुप्यजातौ - '३ ।२ ७८ ॥ इति णिनिः, तत्र । द्वे वादे पराजितस्य ॥
sass
वाक्श्रुतौ ।
१. ' - देवता-' इति ३ ॥ २. वस्तुतः द्रविडप्राणायामोऽयं हूस्वान्तवाणिशब्दसत्त्वात् ॥ ३. 'संभवति' इति ४ ॥ ४. " वदेर्यङन्ताद् 'यजजपदशां यङः '(३ ।२।१६६ ॥ ) इति बहुवचननिर्देशादन्यतोऽप्यूक इति धातुपारायणम् । 'चेक्रीयीतान्तानां यजिजपिदंशिवदाम्' इत्यूक इति कालापाः" इति टीकासर्वस्वम्, भा-३, ३।१।३५ ॥, पृ.१७ ॥ ५. 'चरिचलिपतिवदीनां वा द्वित्वमच्याक् चाभ्यासस्येति वक्तव्यम्' इति वार्तिकस्वरूपं दृश्यते । 'आगमस्य दीर्घत्वसामर्थ्यादभ्यासह स्वो हलादिः शेषश्च न' इति तत्रैव दीक्षितः ॥ ६. 'आसार ' इति ३ ॥ ७. ' - बोलइ' इति २.४ ॥ ८. 'इति' इति १ ॥
४०
For Private & Personal Use Only
www.jainelibrary.org