________________
३४२-३४५]
इति कः। १२ विशेषेण जानाति विज्ञः । १३ विज्ञानं प्रयोजनमस्य वैज्ञानिकः । ' तदस्य प्रयोजनम् '५ ।१ ।१०१ ॥ इति ठक्, 'ठस्येकः' ७|३|५० ॥ किति च ७ । २ । ११८ ॥ इति वृद्धि: । १४ पाटयति दाक्ष्यं पटुः । 'पर्ट विस्तारे' (भ्वा.प.से.), णिजन्त:, 'फलिपाटिनमिमनि- ' ( उणा - १८) इत्यु:, 'णेरनिटि '६ १४ ॥ ५१ ॥ इति णिलोपः । चतुर्दश प्रवीणस्य । 'सीखिउं' इति भाषा ॥ " क्षेत्रज्ञः नदीष्णः निष्णः " [शेषनाममाला ३ ।९२ ॥ ] इति शैषिकाणि ॥ छैको विदग्धे
१ छ्यति छिनत्ति मुर्खदुष्टचित्तानि छेकः । 'छो १० छेदने ' (दि.प.अ.), बाहुलकाद् डेकः । २ विशेषेण दहति मूर्खचित्तमिति विदग्धः । 'दह भस्मीकरणे ' (भ्वा.प.अ.), वर्तमाने क्तः, तत्र । द्वे दाक्ष्यातिशययुक्तस्य । 'छेकोऽवसरज्ञो, द्वासप्ततिकलापण्डित इति च वृद्धाः । छेकः 'प्रयोगज्ञः' इति भाषान्तरम् । "छेकालः छेकिलः "[शेषनाममाला २९२ ॥ ] शैषिके । छइल्लो देश्याम् ॥
प्रौढस्तु प्रगल्भः प्रतिभान्वितः ॥ ३४३ ॥
व्युत्पत्तिरत्नाकरकलिता
१ प्रौह्यते (प्रोह्यते) स्म प्रौढः । 'वह प्रापणे' (भ्वा.उ. अ.), निष्ठा, कित्त्वात् सम्प्रसारणम्, 'हो ढ : '८ २ १३१ ॥, ' झषस्तथोः-'८।२ ।४० ॥ इति धत्वम्, ष्टुत्वम्, ढलोप:, 'प्रादूहोढौ२० (- ढो) - ' (वा - ६ । १ १८९ ॥ ) इति वृद्धिः । २ प्रगल्भते प्रगल्भः । 'गल्भ धाष्टर्ये' (भ्वा.आ.से.), पचाद्यच् । ३ तत्त्वोल्लेखशालिनी प्रज्ञा प्रतिभा, तयान्वितः प्रतिभान्वितः । त्रीणि सर्वव्यापारसमर्थस्य । 'पुषतु' इति भाषा ॥ ३४३ ॥ कुशाग्रीयमतिः सूक्ष्मदर्शी
१ कुशाग्रस्य तुल्या तीक्ष्णत्वात् कुशाग्रीया । 'कुशाग्राच्छ: '५।३।१०५॥, ' आयनेयी - ७।१।२ ॥ इति ईयादेशः । कुशाग्रीया मतिरस्य कुशाग्रीयमतिः । २ सूक्ष्मं पश्यतीत्येवंशीलः सूक्ष्मदर्शी । 'दृशिर् प्रेक्षणे ' (भ्वा.प.अ.), 'सुप्यजातौ णिनिः-'३ ॥२७८॥ इति णिनिः । द्वे सूक्ष्मदर्शिनः । 'ऊंडुं ३० विमास इति भाषा ॥
Jain Education International
१५५
प्रत्युत्पन्नमतिः
१ तत्कालमेव धीरस्य तत्कालधीः । २ प्रतीति प्रत्यग्रमुत्पन्ना मतिरस्य प्रत्युत्पन्नमतिः । द्वे त्वरितोत्पन्नबुद्धिधनस्य ॥
दूराद्यः पश्येद् दीर्घदर्श्यसौ ॥ ३४४॥
१ दूराद् यः पश्येदसौ दीर्घदर्शी । दीर्घं पश्यतीत्येवंशीलः दीर्घदर्शी । 'दृशिर् प्रेक्षणे' (भ्वा.प.अ.), 'सुप्यजातौ - ' ३ । २ १७८ ॥ इति णिनिः । दीर्घदृष्टिरपि । यद्धलायुधः"दूरादेवार्थसन्दर्शी दीर्घदृष्टिः प्रकीर्तित: ''[ हलायुधकोशः ४० २।३७६ |] इति । एकं दूरादेवार्थद्रष्टुः ॥ ३४४॥ हृदेयालुः सर्हृदयश्चिद्रूपोऽपि
१ प्रशस्तं हृदयं मनोऽस्य हृदयालुः । 'हृदयाच्चालुरन्यतरस्याम्'(वा-५ ।२ ।१२२ ॥ ) इत्यालुः । २ सह हृदयेनें मनसा न तु वक्षसा वर्तते स सहृदयः । सर्वेऽपि सहृदया एव, परमत्रौचित्याद् हृदयालुसाहचर्याच्च प्रशस्तहृदयसहिते पुंविशेषेऽयं वर्तते । 'सुहृदयः' इति पाठे, शोभनं हृदयमस्येति व्युत्पत्तिः । ३ चिदिति विशिष्टे चैतन्ये वर्तते, चिद् रूपमस्य तन्मयत्वाद् चिद्रूपः । त्रीणि वस्तुतत्त्वज्ञानयुक्तस्य ॥ अथ संस्कृते । ५०
व्युत्पन्नप्रहतक्षुण्णाः
१ शास्त्रादिना संस्क्रियते स्म संस्कृतः । 'निष्ठा' ३।२।१०२॥ इति क्तः,‘सम्पर्युपेर्भ्य :- '६ ।१ ।१३७ ॥ इति सुट् । २ व्युत्पद्यते स्म व्युत्पन्नः । 'पद गतौ ' (दि.आ.अ.), भावे निष्ठा, ' रदाभ्याम् - '८।२ ।४२ ॥ इति नत्वम् । ३ प्रहन्यते स्म प्रहतः । 'हन्(हन) हिंसागत्योः'(अ.प.अ.), निष्ठा, 'अनुदात्तोपदेश- ' ६ ।४।३७ ॥ इति न्लोपः । ४ क्षुद्यते स्म क्षुण्णः । ' क्षुदिर् सञ्चूर्णने ' (रु.उ.अ.), निष्ठा, ' रदाभ्याम् ' ८।२।४२ ॥ इति नत्वम् । चत्वारि शास्त्रादितत्त्वचतुरस्य ॥
तत्कालंधीः पुनः ।
अन्तर्वाणिस्तुशास्त्रवित् ॥ ३४५॥ ६०
१. विस्तारार्थकपटधातुः क्षीरतरङ्गिण्यादौ न दृश्यते ॥ २. 'सीखिउ' इति २, 'सीखियौ' इति ४॥ ३. 'छेकेऽ-' इति२ ॥ ४. 'तत्त्वोल्लेखः' इति२ ॥ ५. 'पुषतो' इति३ ॥ ६. ‘उंडुं' इति ३, 'ऊंडूं' इति ४॥ ७. 'विमासइ' इति २.४ ॥ ८. ' - पन्नस्य' इति ३ ॥ ९. हलायुधे 'दूरार्थानर्थसन्दर्शी ' इति दृश्यते, पृ.४४ ॥ १०. 'हृदये' इति १ ॥ ११. सिद्धान्तकौमुद्यां दीक्षितेन 'संपरिभ्यां - '६।१।१३७ ॥ इत्यादिपाठः स्वीकृतः, अत्र तट्टीका तत्त्वबोधिनी - "संपर्युपेभ्यः- ' इति वृत्तिस्थपाठं विहाय भाष्यवार्त्तिकानुसारेणाह संपरिभ्यामिति इति, सिद्धान्तकौमुदी, पृ.४७९ ॥
For Private Personal Use Only
www.jainelibrary.org