________________
१४४
२०
दर्पोऽभिमानो ममता मानश्चित्तन्नतिः स्मयः ।
१ गर्वणं गर्वः । 'कर्व खर्व गर्व दर्पे' (भ्वा.प.से.), भावे घञ् । गिरतीव परमिति वा गर्वः । 'गृ निगरणे' (तु.प.से.), ‘कृगृशृदृभ्यो वः’(उणा-१५३ ) इति वः, पुंस्यम् । वैजयन्तीकारस्तु‘“अभिमानस्त्वहङ्कारो गर्वोऽस्त्री "[वैजन्तीकोश: ३ ६ ॥ १६९ ॥] इत्याह । २ करणं कारः, अहं प्रधानः कारः अहङ्कारः । ३ अवलिप्तस्य भावः अवलिप्तता ॥३१५॥ । ४ दर्पणं दर्पः । ‘दृप हर्षणमोचनयाँ:’(दि.प.अ.), 'दर्प गर्वे ' ( ) अस्माद्वा भावे घञ् । ५ अभि सर्वतः मानः अभिमानः । ६ ममेत्यस्य १० भावो ममता । ७ मत्समो अन्यो नास्तीति मननं मानः, पुंक्ली. । ८ चित्तस्य उन्नत्तिः चित्तोन्नतिः । ९ स्मयनं स्मयः । 'स्मिङ् ईषद्धसने ' (भ्वा.आ.अ.), 'एरच् ३ | ३ |५६ ॥ | नव गर्वस्य ॥ मिथोऽहमहमिका
अभिधानचिन्तामणिनाममाला प्रबोधस्तु विनििद्रत्वम्
१ स गर्वो मिथः परस्परमहं शक्तोऽहं शक्त इत्यस्याम् अहमहमिका । मयूरव्यंसकादित्वात् साधुः । अहमिति मान्तमव्ययमहङ्काराऽर्थे ॥
या तु सम्भावनाऽऽत्मनि ॥३१७॥ दर्पात् साऽऽहोपुरुषिका स्यात्
१ दर्पाद् गर्वाद् या आत्मनि स्वविषये सम्भावना, तस्या एकम् आहोपुरुषिकाँ । अहो अहं पुरुष इत्यस्याम् आहोपुरुषिका, द्वितीयस्वरार्दिः ॥३१७॥
अहंपूर्विका पुनः ।
अहं पूर्वं अहं पूर्वमिति
१ अहं पूर्व इत्यस्याम् अहंपूर्विका । स्वार्थे कन् । एवमहंप्रथमिका, अहमग्रिका च । 'हुं पहिलं " इति भाषा ॥ उग्रत्वं तु चण्डता ॥३१८॥
१ उग्रस्य भाव उग्रत्वम् । २ चण्डस्य भावः चण्डता । द्वे उग्रत्वस्य । 'आकरापणउं" " इति भाषा ॥३१८॥
Jain Education International
[ देवकाण्डः- २
१ प्रबोधनं प्रबोधः । 'बुध बोधने' (भ्वा.प.से.), भावे ३० घञ् । २ विनिद्रस्य भावो विनिद्रत्वम् । द्वे प्रबोधस्य । " जागवापणउं" इति भाषा ॥
ग्लानिस्तु बलहीनता । ९ ग्लानं ग्लानिः । 'ग्लै हर्षक्षये ' ( भ्वा.प.अ.), 'म्लाग्लाज्याहात्वरिभ्यो निंः ' ( वा - ३ | ३ |९४ ॥ ) स्त्रीलिङ्गः । बलहीनस्य भावो बलहीनता बलापचयः । एकं बलहीनतायाः ॥ दैन्यं कार्पण्यम्
१ दीनस्य भावो दैन्यम् । 'गुणवचन- '५ । १ । १२४ ॥ इति ष्यञ् । एवं कृपणस्य भावः कार्पण्यम् । द्वे कृपणत्वस्य ॥ श्रमस्तु क्लमः क्लेशः परिश्रमः ॥३१९॥ ४० प्रर्यासार्यांसव्यायामाः
१ श्रमणं श्रमः । ' श्रमु तपसि खेदे च ' (दि.प.से.), भावे घञ्, 'नोदात्तोपदेशस्य - ७।३।३४ ॥ इति न वृद्धिः । २ क्लमनं क्लमः । 'क्लमु ग्लानौ' (दि.प.से.), भावे घञ् । ३ क्लेशनं क्लेशः । 'क्लिशे' विबाधने' (क्र्या.प.वे.), भावे घञ् । ४ परिश्रमणं परिश्रमः । ' श्रमु तपर्सि खेदे च' (दि.प.से.), भावे घञ् ॥३१९॥ ५ प्रयसनं प्रयासः । 'यसु प्रयत्ने' (दि.प.से.), भावे घञ् । ६ एवमायसनम् आयासः । 'यसु प्रयले' (दि.प.से.), घञ् । ७ व्यायमनं व्यायामः । 'यमु (यम) उपरमे ' (भ्वा.प.अ.), घञ् । सप्त श्रमस्य ॥
उन्मादश्चित्तविप्लवः ।
१ उन्मदनम् उन्मादः । 'मद (मदि) स्तुत्यादौ, (भ्वा.आ.से.), भावे घञ् । २ चित्तस्य विप्लुति: चित्तविप्लवः । 'प्लुङ् गतौ' (भ्वा.आ.अ.), 'ऋदोरप् ३ । ३ । ५७ ॥ । द्वेवाभूतादिदोषात् चित्तानवस्थिते: ॥ मोहो मौढ्यम्
१ मोहनं मोहः । 'मुह वैचित्ये' (दि.प.से), भावे घञ् । २ मूढस्य भावो मौढ्यम् । मोहो नाम मूर्च्छा ।
१. मा. धातुवृत्तिसम्मतोऽयं पाठः, 'गर्व खर्व दर्पे' इति क्षीरतरङ्गिणी ॥ २. द्र. स्वोपज्ञटीका २।३१५ ॥ पृ.७४ ॥ वैजयन्तीकोशे तु " - अभिमानोऽहङ्कारो गर्व: स्त्री-" इति दृश्यते, पृ.७० ॥ ३. धातुप्रदीपसम्मतोऽयं धातुपाठः, 'दृप हर्षणमोहनयोः' इप्ति क्षीरतरङ्गिण्यादौ ॥ ४. क्षीरतरङ्गिण्यादावयं धातुर्न दृश्यते ॥ ५. " अहमहमिका तु सा स्यात् यत् क्रियते स्पर्धनादिकं ( स्पर्धयाधिकं) किञ्चित्" [हलायुधकोशः ४ १७८४ ॥ ] इति परस्परं गर्वकरणाख्यम्" इति २प्रतेः टिप्पणी ॥ ६. 'विषये' इति ॥ ७. "गर्वादात्मसम्भावना १ 'खा हुं मांटी' इति भाषा 'यत्र वृथाभिनिवेशस्तामाहोपुरि (रु) षिकां विदुः प्राज्ञाः ' [हलायुधकोशः ४।७८४॥] इति हलायुधः, यत्सौन्दर्यलहरी - "पुरस्तादास्तां नः पुरमथितुराहोपुरि (रु) षिका " इति २प्रतेः टिप्पणी ॥ ८. इतोऽग्रे २प्रतौ 'हुं मांटी इति भाषा' इति दृश्यते ॥ ९. इतोऽग्रे ४प्रतौ 'अहं पूर्वः' इति दृश्यते ॥ १०. 'पहिलउ' इति३, 'पिहिलुं' इति२ ॥ ११. 'आकरपणो' इति३ ॥ १२. ' - पणौ' इति४, ' - पणुं' इति३ ॥ १३. 'ग्लाम्लाज्याहाभ्यो निः' इति वार्तिकस्वरूपं दृश्यते ॥ १४. 'खेदे तपसि च' इति१.२.३ ।। १५. 'क्लिशु- ' इति१.४ ॥ १६. 'स्तुतौ' इति३.४ ॥ १७. ' - स्थितौ' इति४, '-स्थितः' इतिर ॥ १८. 'मोहस्य' इति ॥
For Private Personal Use Only
५०
www.jainelibrary.org