________________
३०६-३११]
'धिषि धारणे' इत्यस्मात् क्युः । यद्वा धारयत्यर्थमिति धीः बुद्धि:, धारयति कर्त्तारं प्रदानेनेति धीकर्म, सनोति संभजत इति सनोतेः पचाद्यचि पृषोदरादित्वाद् ह्रस्वत्वे धिषणा, णकारान्तत्वान्मूर्धन्यमध्या, अन्यथा षत्वाभावाद् धिसना । "धिष शब्दे (जु.प.से.) [ अम.क्षीर. ११४ । १ ॥ ] इति तु स्वामी । ६ ज्ञपनं ज्ञप्तिः । ‘ज्ञपेर्मिच॑’(चु.प.से.) इति गौरादित्वात् क्तिन्, ‘तितुत्र-'७।२।९॥ इतीनिषेध:, 'मितां ह्रस्वः '६ । ४ ।९२॥ | ६ चेतनं चेतना । 'चिती' संज्ञाने ' (भ्वा.प.से.), ल्युट्, युच् वा ||३०८|| ७ प्रतिभानं प्रतिभा । ' भा दीप्तौ ' ( अ.प.अ.), १० ' आतश्चोपसर्गे ' ३ | ३ |१०६ ॥ इत्यङ् । ८ प्रतिपत्तिः प्रतिपत् । प्रतिपूर्वः 'पद गतौ ' ( दि.आ.अ.), सम्पदादित्वात् क्विप् । ९ प्रज्ञानं प्रज्ञा । 'ज्ञा अवबोधने' (क्र्या.प.अ.), 'आतश्चोपसर्गे' ३।३।१०६॥ इत्यङ् । १० प्रकर्षेण ईक्ष्यते ज्ञायतेऽनया प्रेक्षा । 'ईक्ष दर्शनाङ्कनयो:'(भ्वा.आ.से.), 'आतश्चोपसर्गे ३ ॥३ ॥१०६ ॥ इत्यङ् | ११ चेतनं चित्, स्त्रियाम् । 'चिती संज्ञाने ' (भ्वा.प.से.) सम्पदादित्वात् क्विप्। १२ उपलम्भनम् उपलब्धिः । ‘डुलभष् प्राप्तौ’(भ्वा.आ.अ.), 'स्त्रियां क्तिन् '३ ॥३॥९४॥, 'झषस्तथो:-'८।२।४० ॥ इति धत्वम् । १३ संवेदनं संवित्तिः । 'विद ज्ञाने' (अ.प.से.), 'स्त्रियां क्तिन् ' ३ | ३ |९४॥ | संवेदन२० मपि विदाऽपि । "प्रज्ञा श्रद्धा धरा ज्ञप्तिः पण्डा संवेदनं विदा" [ ] इति शब्दार्णवः । १४ शेत इति शे: मोहः संशयो वा, तं मुष्णाति । ‘मुष स्तेये' (क्र्या.प.से.), मूलविभुजादित्वात् के, गौरादित्वाद् ङीष शेमुषी, तालव्यादिमूर्धन्यान्ता । " शमे: क्वसौ एत्वाभ्यासलोपे शेमुषी " [ ]इति तु कौमुदी । १५ दर्शनं दृष्टिः । 'दृशिर् प्रेक्षणे ' (भ्वा.प.अ.), 'स्त्रियां क्तिन् ' ३।३।९४॥ । सामान्येन षोडश बुद्धेः ॥
अथ बुद्धिविशेषनामान्याह
सा मेधा धरणक्षमा ॥ ३०९ ॥ १ सा मतिर्धारणसमर्था मेधा इत्युच्यते । मेधते ३० सङ्गच्छतेऽस्यां सर्वमिति मेधा । 'मेधू सङ्गमे ' (भ्वा.उ.से.), भिदादित्वादङ्, 'गुरोश्च - '३ । ३ ।१०३ ॥ इत्यकारो वा । 'मिह मे मेधाहिंसनयो:' (भ्वा.उ.से.), "भिदादिसूत्रे मेधाशब्दं व्युत्पादयन् न्यासकारो धान्तावाहँ "[ माधवीयधातुवृत्तिः, भ्वादि:, धातुसं - ६०० ]इति माधवः । अन्ये तु -
व्युत्पत्तिरत्नाकरकलिता
Jain Education International
" मतिरागामिकी ज्ञेया बुद्धिस्तत्कालदर्शिनी ।
प्रज्ञा चातीतकालज्ञा मेधा कालत्रयात्मिका ॥१॥"
[ ]इति भेदं वदन्ति ॥ पण्डा तत्त्वानुगा
१४१
१ तत्त्वानुगामिनी मतिः पण्डा उच्यते । पण्यते स्तूयते पण्डा । 'पण व्यवहारे स्तुतौ च' (भ्वा.व्य.आ.,स्तु. पर. ४० से.), 'ञमन्तात् डः' (उणा-१११) ॥ मोक्षे ज्ञान॑म्
१ मोक्षविषये मोक्षफला वा मतिः ज्ञानम् । मोक्षे इति निमत्तसप्तमी वा, मोक्षनिमित्तमित्यर्थः ॥
विज्ञानमन्यतः ।
१ मोक्षशास्त्रादन्यत्र शास्त्रे शिल्पे च चित्रादौ मतिः विज्ञानम् उच्यते । विरूपं ज्ञानं विज्ञानम् । एकं शिल्पशास्त्रेग्राहिण्या मतेः ॥
शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा ॥ ३१०॥ ऊहोऽपोहोऽर्थविज्ञानं तत्त्वज्ञानं च धीगुणाः ।
१ श्रोतुमिच्छा शुश्रूषा । 'श्रु श्रवणे' (भ्वा.प.अ.), 'धातो: कर्मणः समानकर्तृकादिच्छायां वा ३ । १ ॥ ७ ॥ इति सन्, 'सन्यङोः ' ६।१।८॥ इति द्वित्वम् । २ श्रूयते श्रवणम्, ल्युट् । ३ गृहयते ग्रहणम् ।' ग्रह उपादाने' (क्र्या.उ.से.), ल्युट् । ४ धार्यते धारणम्, अविस्मरणम् । धारेर्णिजन्ताल्ल्युट् ॥३१०॥ ५ ऊहनम् ऊहः, युक्तिगम्यस्तर्कः । 'ऊह वितर्के ' (भ्वा.आ.से.), भावे घञ् । ६ अपोहनम् अपोहः, असत्पक्षनिराकरणम्" । अपपूर्व 'ऊह वितर्के' (भ्वा. आ.से.), भावे घञ् । ७ अर्थस्य यथावस्थिततया विज्ञानम् अर्थविज्ञानम् । ८ 'तत्त्वस्येहेतरभिन्नत्वस्य ज्ञानं तत्त्वज्ञानम् । गुणः धीगुणाः । बुद्धिगुणा अष्ट ॥ व्रीडा लज्जा मन्दाक्षं
पा
१ व्रीडनं व्रीडा, पुंस्त्री, चित्तसङ्कोचः । 'व्रीड चोदने' (दि.प.से.), चोदनं लज्जा, 'गुरोश्च - '३ ३ ११०३ ॥ इत्यकारः । व्रीड इति पचाद्यचि अदन्तोऽपि । "व्रीडजात्यमभजन्मधुपासा' [ ] इति माघः । २ लज्जनं लज्जा । 'ओलस्जी व्रीडने ' (तु.प.से.), 'गुरोश्च - ३ | ३ | १०३ ॥ इत्यकारः, 'झलां जश् झसि ( झशि ) '
१. 'ज्ञप मिच्च' इति मा.धातुवृत्तिः, 'ज्ञप मारणतोषणनिशामनेषु मिच्च' इति स्वामी ॥ २. 'चिति' इति३ ॥ ३. ' - दर्शने' इति क्षीरतरङ्गिण्यादौ ॥ ४. द्र. रामाश्रमी १।५।१ ॥, पृ.७१ ॥ ५. 'शेर्मोह:' इति३ ॥ ६. 'मिधृ मेधृ-' इति३ ॥ ७. 'धोन्ता-' इति ॥ ८. १. २. ४नास्ति ॥ ९. शास्त्रे ग्राहि-' इति१ ॥ १०.' असत्यनिराकरणम्' इति१ ॥ ११. 'तत्त्वस्य हेतुरभि -' इति४ ॥
For Private & Personal Use Only
५०
६०
www.jainelibrary.org