________________
२०
३०१-३०६]
आश्चर्यम् । 'चर गतौ ' (भ्वा.आ.से.), ' [ आश्चर्यम्] अनित्ये' ६ । १ । १४७ ॥ इति साधुः । एते पञ्चापि चेतोविस्तारपर्यायाः । पञ्च आश्चर्यस्य, ‘तमासा' इति भाषा ॥ "फुल्लकं मोहो वीक्षम् " [शेषनाममाला २१८९ ॥ ] शैषिकाणि ॥
शमः शान्तिः शमथोपशमावपि ।
व्युत्पत्तिरत्नाकरकलिता
१३९
निदह्यतेऽनेनाङ्गमिति निदाघः । 'दह भस्मीकरणे' (भ्वा.प.अ.), घञि, 'संज्ञायां मघमेघानिदाघावदार्घा- ' (गणसू-७।३।५३ ॥ ) ३० इति साधुः । निदध्यतेऽनेनेति वा । 'दघ घातने पालने च' (स्वा.प.से.), करणे घञ् । त्रीणि प्रस्वेदस्य ॥ पुर्लकः पुनः ।
रोमाञ्चः कण्टको रोमविकारो रोमहर्षणम् ॥३०५॥ रोमोद्गम उद्धृषणमुल्लुकसँनमित्यपि ।
१ पोलति महद् भवत्यङ्गमनेन पुलकः, पुंक्ली. । 'पुल महत्त्वे ' (भ्वा.प.से.), संज्ञायां क्वुन् । २ रोम्णामञ्चनं रोमाञ्चः । 'अञ्जु गतिपूजनयो:' (भ्वा.प.से.), भावे घञ् । “न क्वादें' : ' ७।३।५९ ॥ इति योगविभागान्न कुत्वम् "[ ]इति भाषावृत्तिः । ३ कण्टतीति कण्टकः, पुंक्ली. । 'कटिं गतौ' ४० (भ्वा.प.से.), संज्ञायां क्वुन् । कण्टकतुल्यत्वाद् वा । ४ रोमाणि विक्रियन्तेऽनेने रोमविकारः । 'डुकृञ् करणे' (त.उ.अ.), करणे घञ् । ५ रोमाणि हृष्यन्त्यनेन रोमहर्षणम् । 'हृषु हर्षे' (भ्वा.प.से.), 'करणाधिकरणयोश्च '३ । ३ ।११७ ॥ इति करणे ल्युट् ॥ ३०५ ॥ ६ रोमाणि उद्गच्छन्त्यनेन रोमोद्गमः । घञ् । ७ उद्घुषति उच्छ्वसित्यङ्गमनेन उद्भुषणम् । 'धुर्षे कान्तिकरणे'(चु.उ.से.), करणे ल्युट् । ८ उल्लुकसति उच्छ्वसित्यनेनाङ्गमिति उल्लुकसनम् । 'उद्घुष उल्लुक[स] उच्छ्वसर्ने' वाक्यकरणीयावेतौ, आद्यस्तुदादौ कुटादिः, कुटादित्वादेवोपधाया लघोः ['गाङ्कुटादिभ्योऽञ्णिन्डित् ' १।२ ।१ ॥ ] ५० गुणाभावः । "उल्लुकसनमित्यत्र संयुक्तवर्णपरत्वादुकारस्य दीर्घत्वान्न गुणः । एतौ पञ्चमस्वरादी करणार्थल्युडन्तौ । अष्ट रोमाञ्चस्य ॥ स्वरभेदस्तु कल्लेत्वं स्वरे
तृष्णक्षयः
१ शमनं शमः । ' शर्मु उपशमे' (दि.प.से.), भावे घञ्, 'नोदात्तोपदेशस्य - '७३ ३४ ॥ इति वृद्धिनिषेधः । २ शमनं शान्तिः । 'शमु उपशमे ' (दि.प.से.), 'स्त्रियां क्तिन् '३ | ३ |१० ९४ ॥ अनुनासिकस्य क्विझलो :- '६ । ४ । १५ ॥ इति दीर्घः, 'तितुत्र - ७।२ ।९ ॥ इतीण्निषेधः, 'नश्चापदान्तस्य - '८ ।३ ।२४ ॥ इत्यनुस्वारः, ['अनुस्वारस्य - १८१४ ५८ ॥ इति परसवर्णः ] । ३ शमनं शमथः । बाहुलकादथच् । ४ उपशमनम् उपशमः । घञि 'नोदात्तोपदेश- '७।३।३४ ॥ इति न वृद्धिः । ६ तृष्णायाः गर्धस्य क्षयः तृष्णाक्षयः । शान्तेः पञ्च ॥
अथ स्थायिभावानामुपसंहारमाह
स्थायिनोऽमी रसानां कारणं क्रमात् ॥३०४॥ अमी रत्यादयः शान्तिपर्यन्ताः रसानां शृङ्गारादीनां नवानां क्रमादनुक्रमेण कारणं कारणभूता इत्यर्थः ॥ ३०४॥ अथाष्टविधं सात्त्विकभावं प्रकटयतिस्तम्भोजये
१ स्तम्भनं स्तम्भः । ' स्तम्भु रोधने' (सौत्रः क्र्या .प.से.), भावे घञ् । २ जडस्य भावो जाड्यम् । 'गुणवचनब्राह्मणादिभ्यः कर्मणि च '५।१।१२४ ॥ इति ष्यञ् । द्वे विष्टब्धत्वस्य ॥ स्वेदो धर्मनि
१ स्वेदनं स्वेदः । 'ञिष्विदो गात्रप्रक्षरणे' (दि.प.से.), भावे घञ् । २ घरति सिञ्चत्यङ्गं घर्मः । 'घृ सेचने' (भ्वा.प.अ.), ‘घर्म:’(उणा - १४६ ) इत्युणादिसूत्रेण निपातः । ३ १. 'वीक्ष्यं' इति४, तथा शेषनाममालास्वोपज्ञटीकयोः ॥ २. 'शम' इति३.४ ॥ ३. 'क्षयं' इति१ ॥ ४. 'ष्यन्' इति३.४ ॥ ५. क्षीरतरङ्गिण्यादौ त्रिरहित: पाठः ॥ ६. 'संज्ञायां मेघनिदाघावदाघार्घा:' इति गणसूत्रम् ॥ ७. 'पालने च' इति क्षीरतरङ्गिण्यां नास्ति ॥ ८. 'उल्लकसन-' इत्याचार्याः पठन्ति, स्वोपज्ञटीकाऽपि तमाश्रित्यैव कृता ॥ ९. 'न्यङ्क्वादेः' इति३.४ ॥ १०. भाषावृत्तौ " 'न' इति योगविभागान्नेह-रोमाञ्चः, शोच्यम्" इति दृश्यते, भाषावृत्तिः ७।३।५९॥, पृ.३४५॥ ११. इ ई वा प्रविष्टः स्यात् तर्हि 'कटी' इति, अत्र मा. धातुवृत्तिरवलोकनीया, पृ. १११ ॥ १२. 'विक्रियतेऽनेनेति' इति१ ॥ १३. 'हृषु अलीके' इति क्षीरतरङ्गिण्यादौ, "अलीकमानन्द इति काशकृत्स्नधातुव्याख्यानम् (पृष्ठ.४५ ) " इति क्षीरतरङ्गिणीटिप्पणी, पृ. १०२ ॥ टि -२ ॥ १४. क्षीरतरङ्गिण्यादौ 'धूष' इति षष्ठस्वरवान् धातुर्दृश्यते ॥ १५. हेमचन्द्राचार्यकृतधातुपारायणतृतीयपरिशिष्टे धातुपारायणे ये लोकिका : वाक्यकरणीया आगमिकाश्च धातवो न सङ्गृहीतास्ते ग्रन्थान्तरेभ्य उद्धृत्य सम्पादकेन स्थापितास्तत्र " ५ उद्घषत् ६ उल्लकसत् उच्छ्वसने । उद्घुषति उच्छ्वसति । [रोमोद्गम उद्धषणमुल्लकसनमित्यपि अ. चि. २।२२०] ॥" इति दृश्यते पृ. ३६४ ॥ १६. 'उल्लक-' इति१.२.४ ॥ १७. ' - गलूं ' इति४ ॥
Jain Education International
१ स्वरस्य भेदः स्वरभेदः स्वरोपघातनामैकम्, 'गलगलु, स्वरभङ्ग' इत्यादिभाषा, स्वरे स्वरविषये कल्लत्वम् अव्यक्तत्वम् । यदाह पथ्यापथ्यकार :-" स्वरभेदः स्वररुजा स्वरघातः स्वरक्षयः स्वरोपघातः " [ ] इत्यादि ॥
For Private Personal Use Only
www.jainelibrary.org