________________
२५९-२६२]
गोत्रसंज्ञानामधेयाऽऽख्यां
व्युत्पत्तिरत्नाकरकलिता
resses |
ssmisभिख्याश्च नाम च ॥ २६०॥
१ आहूयतेऽनेनेति आह्वयः । 'ह्वेञ् स्पर्धायां शब्दे च' (भ्वा.उ. अ.), 'पुंसि संज्ञायाम् ३ । ३ । ११८ ॥ इति घः, बाहुलकाद् 'आदेच उपदेशे- '६ ११ १४५ ॥ इत्यात्वाभाव:, 'एचोऽयवायाव: ' ६ ११ ।७८ ॥ | स्वामी तु बाहुलकात् शप्रत्ययमाह, तदा 'आदेच उपदेशेऽशिति' ६ । १ १४५ ॥ इति निषेधादात्वं न । २ अभिधीयतेऽनया अभिधा । अभिपूर्वाद् दधातेः 'आतश्चोपसर्गे '३ ।३ ॥१०६ ॥ १० इति सूत्रेणाङ् । ३ गूयते शब्दयतेऽनेन गोत्रम् । 'गुङ् अव्यक्ते
शब्दे'(भ्वा.आ.अ.), 'गुधृवीपचिवचियमिमनितनिसदिक्षदिभ्यस्त्रन्'(उणा-६०६)इति त्रन् । ४ संज्ञायतेऽनया संज्ञा । सम्पूर्वाज्जानातेः 'आतश्चोपसर्गे' ३ | ३ | १०६॥ इत्यङ् । ५ नाम एव नामधेयम् । 'नामरूपभाग- ' (वा - ५ | ४ | ३६ | ) इति धेयः । ६ आख्यायते ऽनया आख्या । [आङ्पूर्वः ] 'ख्या प्रकथने ' ( अ.प.अ.), ‘आतश्चोपसर्गे’ ३।३।१०६ ॥ इत्यङ् । [ यद्वा ] 'चक्षिङ् व्यक्तायां वाचि' (अ.आ.से.), आङ्पूर्वः 'चक्षिङः ख्याञ्' २ ।४ । ५४ ॥ इति ख्यादेशः, ‘आतश्चोपसर्गे' ३ | ३ |१०६ ॥ इत्यङ् । ('७ आहूयते ऽनया आह्वा) । ८ अभिख्यायतेऽनया अभिख्या, आख्यावत् । ९ नम२० त्यनेन, नयत्यर्थमिति वा नाम, पुंक्ली । 'णमु प्रह्वत्वे शब्दे च' (भ्वा.प.अ.), ' णीञ् प्रापणे' (भ्वा.प.अ.) इत्यस्य वा, 'नामन्सामन्स्तोमन्होमन्रोमन्लोमन्व्योमन्विधर्मन्पाप्मन्व्येमन्' (उणा५९०) इति साधु । नामनी नामानि इत्यादि । नव नाम्नः ॥ २६०॥ सम्बोधनमामन्त्रणम्
१ सम्बोध्यतेऽनेन सम्बोधनम् । 'बुध अवगमने ' (भ्वा.प.से.), 'बुध बोधने' (दि.आ.अ.) अस्माद्वा 'करणाधिकरणयोः - ३ | ३ |११७ ॥ इति करणे ल्युट् । २ आमन्त्र्यतेऽनेन आमन्त्रणम् । 'मंत्रि गुप्तभाषणे (चु.आ.से.), 'करणाधिकरणयोः - ३ | ३ | ११७ ॥ इति करणे ल्युट् । द्वे आमन्त्रणस्य ॥
Jain Education International
१२१
आह्वानं त्वभिमन्त्रणम् । ३०
आकारणं हवो हूतिः
१ आहूयतेऽनेन आह्वानम् । 'ह्वेञ् स्पर्धायां शब्दे च' (भ्वा.उ. अ.) । २ अभिमन्त्रयत इति अभिमन्त्रणम् । मत्रि [गुप्त ] भाषणे'(चु.आ.से.), उभयत्र ल्युट् । ३ आकार्यत इति आकारणम् ।' ण्यास श्रन्थ- '३ ।१ ।२६ ॥ इति युच् । आकारयतिराह्वाने वर्तते । तथा च माघ :- " अहिंकारयितुं महीभुजा "[" ] इति । ४ हवनं हवः ।' हु दानादनयो: ' (जु.प.अ.), 'ऋदोरप् '३।३।५७ ॥ ५ ह्वानं हूति: ।' ह्वेञ् स्पर्धायां शब्दे च' (भ्वा.उ. अ.), स्त्रियां क्तिनि, 'ग्रहिज्या- '६ ।१ ।१६ ॥ इति सम्प्रसारणम्, 'हल: '६ |४ |२॥ इति दीर्घः । पञ्च आकारणस्य । तेडवुं, निहुंतर इत्यादि भाषा । [ शेषश्चात्र- "हूतौ हक्कारकाऽऽकारौ "[शेषनाममाला२ ।८३ ] ] ॥ सहूतिर्बहुभिः कृत ॥ २६१॥
४०
१ संभूय संयुज्य ह्वानं संहूतिः, बहुभिः प्रचुरैः संभूय याहूतिः, तस्या एकम् ॥ २६१ ॥ उदहार उपोद्घात उपन्यासश्च वाङ्मुखम् ।
१ उद्धृत्याहियते उदाहारः । 'हृञ् हरणे' (भ्वा.उ. अ.), भावे घञ्। २ उप समीपे उद्धृत्य हन्यते उपोद्घातः । 'हन् (हन) हिंसागत्योः '(अ.प.अ.), 'भावे' ३ । ३ । १८ ॥ इति घञ्, 'हनस्तोऽचिण्णलो: '७|३|३२|| इति तोन्तादेशः, 'अत उपधायाः ७ । २ । ११६ ।। । यदाहुः-‘“चिन्तां प्रकृतसिद्ध्यर्थामुपोद्घातं प्रचक्षते "[ ]इति । ३ ५० उपन्यस्यत इति उपन्यासः । उपनिपूर्वः 'असु क्षेपणे' (दि.प.से.), भावे घञ् । ४ वाचो मुखं प्रारम्भः वाङ्मुखम् । "मुखमुपाये प्रारम्भे' [ अनेकार्थसंग्रहः २ ।२४ ॥ ] इत्यनेकार्थः । " चत्वारि "वाक्य - प्रारम्भस्य " [ ]इति कश्चित् परम्, तन्न सङ्गच्छते, आद्यनामद्वयं प्रकृतोपपादकस्य दृष्टान्तादेः, अन्त्यद्वयं तु वचनोपक्रमस्य सर्वत्र तथैव दर्शनात् ॥.
व्यवहारो विवादः स्यात्
१ व्यवहरणं व्यवहारः । व्यवपूर्वाद् हरतेर्भावे घञ् ।
4
१. स्वामिकृतटीकायां तु 'घः' इति दृश्यते ॥ २. 'गुधुवी- ' इति१.३.४ ॥ ३. -क्षुदि-' इति४ ॥ ४. 'गुधृवीपचिवचियमिसदिक्षदिभ्यस्त्र: ' इत्युणादिगणे ॥ ५. ' -- भागभ्यो धेयः' इति३, 'भागरूपनामभ्यो धेयः' इति वार्तिकस्वरूपं दृश्यते ॥ ६. कोष्ठान्तर्गतपाठः १.२.४ न दृश्यते ॥ ७ ३प्रतौ नास्ति ॥ ८. 'नामन्सीमन्व्योमन्रोमन्लोमन्पाप्मन्धामन्' इत्युणादिगणसूत्रम् ॥ ९. 'भाषणे' इति१.२.४ ॥ १०. द्र टीकासर्वस्वम्, भा-१, १६८ ॥ पृ. १२१ ॥ तत्र " प्रहितः प्रधनाय माधवानहमाकारयितुं महीभुजा" इति दृश्यते ॥ ११. तुलनीयोऽमरकोषः १ ४६ ८ ॥। १२. 'वाक्प्रार-' इति३ ॥
For Private Personal Use Only
www.jainelibrary.org