________________
२४९-२५४]
व्युत्पत्तिरत्नाकरकलिता
"प्रकृतिप्रत्ययोपाधिनिपातादिविभागशः । पदान्वाख्यानकरणं शास्त्र व्याकरणं विदुः ॥ २ ॥ " [ ] । ४ छाद्यतेऽनेन प्रस्ताराद् भूरिति छन्दः । 'छर्दि अपवारणे'(चु.उ.से.), ' -असुन्' (उणा - ६२८ ) इत्यसुन्, 'इदितो नुम्'७।१।५८॥ । ५ ज्योतिषां ग्रहाणां गतिज्ञानहेतुर्ग्रन्थो ज्योतिषम् । ६ " वर्णागमो वर्णविपर्ययश्च" [ ] इत्यादिभिर्निर्वचनं निरुक्तिः । 'वच परिभाषणे ' ( अ.प.अ.), 'स्त्रियां क्तिन् '३ १३ १९४ ॥, ' गहिज्या- ' ६ । १ । १६ ॥ इति सम्प्रसारणम् । १ अङ्ग्यते ज्ञायते अमीभिरिति अङ्गानि, उपकारकाणीत्यर्थः । १० शिक्षादीनां षण्णां नामैकं 'षडङ्गम्' इति ॥ २५० ॥ धर्मशस्त्रं स्यात् स्मृतिर्धर्मसंहिता । १ धर्मप्रतिपादकं शास्त्रं धर्मशास्त्रम् । २ महर्षिभिर्वेदार्थस्मरणं स्मृतिः, तद्योगाद् ग्रन्थोऽपि स्मृतिः । ३ धर्मः सन्धीयतेऽस्यां धर्मसंहिता । त्रीणि स्मृतेः ॥ आन्वीक्षिकी तर्कविद्या
१ प्रत्यक्षागमाभ्यामीक्षितस्य पश्चादीक्षणमन्वीक्षा । 'ईक्ष दर्शनाङ्कनर्यो:'(अ.आ.से.),' गुरोश्च-'३ |३|१०३ ॥ इत्यकारः । सा प्रयोजनमस्या आन्वीक्षिकी। 'तदस्य प्रयोजनम्' ५ ।१ ।१०९ ॥ इति ठक्, 'ठस्येकः '७ १३ ॥ ५० ॥ किति च ' ७ । २ । ११८ ॥ २० इत्यादिवृद्धिः । “आगमप्रतिपादितानां वस्तुतत्त्वानाम् अनु पश्चाद् ईक्षणं परीक्षणमन्वीक्षा, 'तदस्य प्रयोजनम् '५ ।२ । १०९ ॥ इति ठक्" [ ] इति मिश्राः । २ तर्काः षोडशपदार्थाः प्रमाणादयस्तत्प्रधाना विद्या तर्कविद्या । द्वे तर्कविद्यायाः ॥
मीमांसा तु विचारणा ॥ २५९ ॥
१ मीमांस्यतेऽनया मीमांसा । 'मान विचारणे " (भ्वा.आ.से.), 'मान (न्) बधदाण्(न्) शान्भ्यो दीर्घश्चाभ्यासस्य' ३|१|६ ॥ इति सन्ं, 'सन्यङोः '६ |१ |९ ॥ इति द्वित्वम्, 'अ
११७
प्रत्ययात् '३ | ३ | १०२ ॥ इत्यः । २ विचार्यतेऽनया विचारणा । 'चर गतिभक्षणयोः '(भ्वा.प.से.) अस्माण्णिजन्तात् करणे ल्युट् । द्वे मीमांसायाः ॥ २५१ ॥
३०
सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च । वंशानुवंशचरितं पुराणं पञ्चलक्षणम् ॥२५२॥
१ सर्जनं सर्गः । 'सृज विसर्गे' (दि.आ.अ.), भावे घञ्, 'पुगन्तलगघूपधस्य '७ । ३ ।८६ ॥ इति उपधायाँ गुणः, 'चजोः कु - '७ । ३ । ५२ ॥ इति कुत्वम् । सर्गः सृष्टिः । २ एवं प्रतीपः सर्गः प्रतिसर्गः प्रलय इत्यर्थः । ३ वंशः सूर्यवंशादिः । ४ मन्वन्तराणि स्वायम्भुवचाक्षुषवैवस्वतादीनि चतुर्दशं । ५ वंशादनुवंश वंशानुवंश सूर्यवंशादिः, तस्य चरितं वंशानुवंशचरितम् । १ पूरा पूर्वस्मिन् भूतं पुराणम्। 'पूर्वकालैकसर्वजरत्पुराण-' २ ।१ । ४९ ॥ इति निर्देशादेव साधु । " पुराऽनिति प्राणिति पुराणम्" ४० [ ] इति स्वामीं ॥ पञ्चसर्गादीनि लक्षणानि चिह्नानि यस्य तत् पञ्चलक्षणम् । पञ्चानां सर्गादीनां लक्षणं शास्त्रं वा । एकं सर्गादिपञ्चोपलक्षितशास्त्रस्य ॥ २५२ ॥ षङ्गी वेदींश्चत्वारो मीमांसाऽऽन्वीक्षिकी तथा । धर्मशास्त्रं पुराणं च विद्या एताश्चतुर्दश ॥ २५३॥ १ षडङ्ग्यादीनां पुराणान्तानां चतुर्दशानां नामैकं विद्या इति ॥ २५३ ॥
Jain Education International
सूत्रं सूचनकृत्
१ सूत्र्यते ग्रथ्यते सूत्रम्, पुंक्ली. । 'सूत्र ग्रन्थने ' (भ्वा. उ.से.), घञ् । सूचनाद्वा सूत्रम्, पृषोदरादिः । 'सूतेऽर्थमिति वा । ५० 'षूङ् प्रसवे'(अ.आ.वे.), 'सर्वधातुभ्यः ष्ट्न्' (उणा - ५९८ ) इति ष्ट्रन् । सूचनं करोति सूचनकृत् । एकं सूत्रस्य ॥
भाष्यं सूत्रोक्तार्थप्रपञ्चकम् ।
१. 'छद-' इति धातुवृत्त्यादौ ॥ २. 'ईक्ष दर्शने' क्षीरतरङ्गिण्यादौ ॥ ३. 'प्रतिपादिकानां ' इति ॥ ४. 'विदा-' इति ॥ ५. 'मानेर्जिज्ञासायाम्' इति वार्तिकेन जिज्ञासायां सन् भवति ॥ ६. 'अ' इति१.२.४ ॥ ७ उपधागुण:' इति१.२ ॥ ८. 'प्रतीतः' इति ॥ ९. विष्णुपुराणे चतुर्दश मनव उक्तास्तन्नामानि यथा
"मनुः स्वायम्भुवो नाम मनुः स्वारोचिषस्तथा । औत्तमिस्तामसिश्चैव रैवतश्चाक्षुषस्तथा ॥ १ ॥
एते तु मनवोऽतीताः सप्तमस्तु रवेः सुतः । वैवस्वतोऽयं यस्यैतत् सप्तमं वर्तते युगम् ॥ २ ॥ सावर्णिर्दक्षसावर्णो ब्रह्मसावर्ण इत्यपि । धर्मसावर्णरुद्रस्तु सावर्णो रौच्यभौम्यवत् ॥ ३ ॥” इति ॥
१०. इतोऽग्रे १.२प्रतौ ‘तु' इति दृश्यते ॥ ११. स्वामिकृतामरकोशोद्धाटने न दृश्यते ॥ १२. 'ह्येता -' इति३.४ ॥ १३. ' विमोचने' इति स्वामी, 'वेष्टने' इति सायणः ॥ १४. 'सूत्रे - ' इति ॥ १५. विग्रहे 'सूते' इति विगृहीतत्वात् ' - प्राणिगर्भविमोचने' इति युक्तोऽर्थः ॥
For Private Personal Use Only
www.jainelibrary.org