________________
२४३-२४९]
१ परिकर्म च सूत्रं च पूर्वानुयोगश्च पूर्वगतं च चूलिका चेति द्वन्द्वः । सूत्रादिग्रहणयोग्यतासम्पादनसमर्थान परिकर्माणि, गणितपरिकर्मवत् । २ सर्वद्रव्यपर्यायनयाद्यर्थसूचनात् सूत्राणि । ३ अनुरूपोऽनुकूलो वा योगः अनुयोगः । सूत्रस्य निजेन अभिधेयेन सार्द्धमनुरूपः सम्बन्धः, स च मूलप्रथमानुयोगो ('गण्डिकानुयोगश्चेति द्विविधः, इह धर्मप्रणयनान् मूलं तावत् तीर्थकरा:, तेषां प्रथमसम्यक्त्वावाप्तिलक्षणपूर्वभवादिगोचरोऽनुयोगो) मूलप्रथमानुयोगः, स एव पूर्वानुयोगः, स च गण्डिकायोगोऽस्य लक्षणम्, इह शास्त्रे एकवक्तव्यतार्थाधिकारानुगता गण्डिका उच्यन्ते, तासामनुयोगोऽर्थकथनविधिः गण्डिकानुयोगः । ४ पूर्वाणां गतं ज्ञानमस्मिन् पूर्वगतम् । ५ इह दृष्टिवादे परिकर्मसूत्रपूर्वानुयोगो - क्तानुक्तार्थसङ्ग्रहपरा ग्रन्थपद्धतयः चूला इव चूलिकाः, एताश्चाद्यानां चतुर्णां पूर्वाणां भवन्ति, न शेषाणाम् । एते परिकर्मादयः पञ्चापि दृष्टिवादभेदा: द्वादशाङ्गयां द्वादशदृष्टिवादनाम्नोऽङ्गस्य भेदाः प्रकाराः पञ्च भवन्ति ॥
पूर्वाणि चतुर्दशाऽपि पूर्वगते ॥ २४६ ॥ उत्पार्दपूर्वमग्रायणीयमथ वीर्यतः प्रवादं स्यात् । अस्तेर्ज्ञाना॑त् सर्त्यांत् तदात्मनः कर्मणश्च परम्॥२४७॥ २० प्रत्याख्यानं विद्यप्रवादकल्याणनामधेये च । प्राणावायं च क्रियाँ विशालमथ लोकैबिन्दुसारमिति
१०
३०
व्युत्पत्तिरत्नाकरकलिता
॥२४८ ॥
१ एतानि वक्ष्यमाणानि चतुर्दशापि पूर्वाणि पूर्वगते चतुर्थे पूर्वगतनाम्नि दृष्टिवादभेदे भवन्तीति शेषः, तन्नामान्याह`सर्वाङ्गेभ्यः पूर्वं तीर्थकरैरभिहितत्वात् पूर्वाणि ॥ २४६ ॥ तानि यथा-सर्वद्रव्याणां पर्यायाणां चोत्पादप्रज्ञप्तिहेतुः उत्पादम् । २ सर्वद्रव्याणां पर्यायाणां सर्वजीवविशेषाणां च अग्र्यं परिमाणं वर्ण्यते यत्र तद् अग्रायणीयम् । ३ अथ वीर्यतः वीर्यशब्दात् प्रवादम्, तेन वीर्यप्रवादम्, जीवानामजीवानां च सकर्मेतराणां वीर्यं प्रवदति वीर्यप्रवादम् । ४ तदिति प्रवादम्, अस्तेर्ज्ञानात्
Jain Education International
११५
सत्याद् आत्मनः कर्मणः च परम्, अस्तीति नास्तेरप्युपलक्षणम्, ततो यल्लोके यथास्ति तथा वा नास्ति, अथवा स्याद्वाद्यभिप्रायेण तदेवास्ति नास्तीति वा प्रवदति अस्तिनास्तिप्रवादम् । ५ मतिज्ञानादिपञ्चकं सप्रभेदं प्रवदतीति ज्ञानप्रवादम् । ६ सद्भ्यो हितं सत्यं संयमः, तत् सप्रभेदं सप्रतिपक्षं च यत् प्रवदति तत् सत्यप्रवादम् । ७ नयदर्शनैरात्मानं प्रवदति आत्मप्रवादम् । ८ ज्ञानावरणाद्यष्टविधकर्मप्रकृतिस्थित्यनुभागप्रदेशादिभेदैरन्यैश्चोत्तरोत्तरभेदैर्भिन्नं प्रवदति कर्मप्रवादम् ॥ २४७॥ ९ सर्वप्रत्याख्यानस्वरूपं प्रवदति प्रत्याख्यानप्रवादम्, तदेकदेशं प्रत्याख्यानम्, भीमवत् । १० विद्यातिशयान् प्रवदति विद्या- ४० प्रवादम् । ११ कल्याणफलहेतुत्वात् कल्याणम्, अवन्ध्य चोच्यते । १२ आयुः प्राणविधानं सर्वं सभेदम्, अन्ये च प्राणा वर्णिता यत्र तत् प्राणावायम् । १३ क्रियाः कायिक्यादयः संयमाद्याश्च विशालाः सभेदा यत्र तत् क्रियाविशालम् । १४ इहलोके श्रुतलोके वा बिन्दुरिवाक्षरस्य सर्वोत्तमं सर्वाक्षरसंयोगपरिनिष्ठितत्वेन लोकबिन्दुसारम् । सार्द्धद्वादशकोटिपदम्, इह पदं तु तथाविधसम्प्रदायगम्यम् । नन्दिसमवायाङ्गवृत्तौ पदपरिमाणविषये किञ्चिदन्यथात्वमपि दृश्यते । पूर्वेषु तु दशादीनि वस्तून्यपि सन्ति । यदुक्तम्
'क्रमाद् वस्तूनि विधित्वमाद्ये दश चतुर्दश । अष्टादश तुर्ये हि द्वादश द्वौ च षोडश ॥ १ ॥ त्रिंशत्तु विंशतिः पञ्चदश द्वादश वै तथा । त्रयोदश ततस्त्रिंशत् पञ्चविंशतिरन्तिमे ॥२॥ उत्पादादिषु पूर्वेषु ह्यन्तर्वर्ती प्रकारतः । अधिकारविशेषस्तु वस्तुविज्ञैः प्रकीर्त्तितम् ॥ ३ ॥ " [ ]इति ॥ स्वाध्यायः श्रुतिराम्नायश्छन्दो वेदः
१ सुष्ठु आ समन्ताद् अधीयते स्वाध्यायः । 'इङ् अध्ययने' (अ.आ.अ.), अधिपूर्वः, 'इङश्च ३ ३ ।२१ ॥ इति घञ्, 'अचो ञ्णिति ७ । २ । ११५ ॥ इति वृद्धिः । २ श्रूयते धर्मोऽनया श्रुतिः । 'श्रु श्रवणे' (भ्वा.प.अ.), 'श्रुअञ्जिमिभ्यः करणें '(वा३ | ३ |९४ ॥ ) इति क्तिन् । ३ आम्नायते उपदिश्यते धर्माधर्मावनेनेति
१. ' तया-' इति२ ॥ २. कोष्ठान्तर्गतपाठः १प्रतौ न दृश्यते ॥ ३. ' - ऽर्थः ' इति ॥ ४. पूर्वे' इति३ ॥ ५. 'सर्वाङ्गि-' इति३ ॥ ६. 'सार्द्ध' इति ॥ ७. ' - गम्य' इति ॥ ८. अष्टाध्याय्यां 'श्रुयजिस्तुभ्यः करणे' इति वार्तिकस्वरूपं दृश्यते ॥
For Private Personal Use Only
५०
६०
www.jainelibrary.org