________________
११२
५९८ ] । ५ गोतमः अन्वयोऽस्य गोतमान्वयः, त्रयोदशस्वरादिरयम् । गौतमं इत्यपि । गोतमवंशस्य मुनेरयं शिष्यः गौतमः । ‘तस्येदम्' ४।३।१२० ॥ इत्यण् । “गौतमस्यैव शिष्यः "[ ]इति तु माधवी। ६-७ मायाशुद्धोदनाभ्यां अग्रे सुतः, तेन मायाया देव्याः सुतो मायासुतः । शुद्ध ओदनोऽस्येति शुद्धोदनः शकन्ध्वादिः । शुद्धोदनस्य राज्ञः सुतः शुद्धोदनसुतः, तालव्यादिः । यौगिकत्वात् शौद्धोदनः इत्यादि । ८ देवदत्ता प्रजाऽपत्यं यस्य स देवदत्ताप्रजः । सप्तमशाक्यसिंहनाम्नो विशेषस्य अष्ट नामानि ॥ २३७॥ असुरा दितिदनुजाः पातलौकः सुरारयः । १० पूर्वदेवाः शुक्रशिष्याः
१ अस्यन्ति प्रेरयन्ति युद्धायं दैत्यानिति असुराः । 'असु क्षेपणे' (दि.प.से.), 'असेरुरन् ' ( उणा - ४२ ) इत्युरन् । अविद्यमान सुरा एषामिति वा । सुरविरुद्धत्वादनर्थवदिति वा । सुराया अपानाद्वा । प्रज्ञाद्यणि आसुराश्च । २-३ दितिः, देनुश्चाऽसुरमातरौ ताभ्यां जाताः दितिजाः, दनुजाः च, यौगिकत्वाद् दैतेयाः, दानवाः इत्यादयः । दनोरपत्यानि दानवाः। ‘तस्यापत्यम्' ४।१९२॥ इत्यण् । ४ पाताले ओकांसि येषां ते पातालौकसः, सकारान्तोऽयम् । ५ सुराणामरयः सुरारयः । ६ पूर्वे च ते देवाश्च पूर्वदेवाः। ‘पूर्वापरप्रथम - २ ।१ ५८ ॥ इत्यादिना समासः । २० पूर्वं देवा इति वा । 'सह सुपा' २ । ११४ ॥ इति योगविभागात् समासः । एते हि पूर्वं देवा आसन् अन्यायाद् विदेवत्वाद् भ्रष्टा इति भावः । ७ शुक्रस्य शिष्याः शुक्रशिष्याः । सप्त दैत्यस्य ॥ विद्यादेव्यस्तु षोडश ॥ २३८॥ रोहिणी "प्रज्ञप्तिर्व्रजशृङ्खला कुलिशाङ्कुशा । चक्रेश्वरी नरदत्ता काल्यथाऽसौ महापरा ॥२३९॥ गौरी गान्धारी सर्वास्त्रमहाज्वाला च मानवी । ट्याच्छुप्ता मानसी महामानसिकेति ताः ॥ २४०॥
अभिधानचिन्तामणिनाममाला
१ रोहत्यवश्यं रोहिणी । 'रुह बीजजन्मनि ' (भ्वा.प.अ.), 'आवश्यकाधमर्ण्ययोर्णिनिः ' ३।३।१७० ॥ इति णिनिः, ३० ‘ऋन्नेभ्यो ङीप्’ ४।१।५ ॥ इति ङीप् । २ ( प्रकृष्टा ज्ञप्तिरस्यां ) प्रज्ञप्तिः । 'रोहिणी प्रज्ञप्तिरित्यत्र पृथक् पृथक् विभक्त्यन्तं पदं
[ देवकाण्डः-२ ज्ञेयम्, अथवा रोहिणी च प्रज्ञप्तिश्चेति द्वन्द्वे 'रोहिणीप्रज्ञप्ती' इति प्रथमाद्विवचनम्, न च प्रज्ञप्तीति डयन्तो नदीवदिति । ३ वज्रमयी शृङ्खलाऽस्याः वज्रशृङ्खला । ४ कुलिशमयमङ्कुशमस्याः कुलिशाङ्कुशा । ५ चक्रस्य ईश्वरी चक्रेश्वरी । ६ नरेषु दत्तमस्याः नरदत्ता । ७ कालवर्णत्वात् काली । 'जानपदकुण्ड- ' ४ । १ १४२ ॥ इत्यादिना ङीष् ॥ ८ अथासौ महापरेति, असौ काली महाशब्दपरा, महाकाली इत्यर्थः ॥२३९॥९ गौरवर्णत्वात् 'षिद्गौरादिभ्यश्च ४ ।१ ।४१ ॥ इति ङीष् । १० गां धारयति गान्धारी, पृषोदरादित्वात् । ११ सर्वेषामस्त्राणां महत्यो ज्वाला ४० अस्याः सर्वास्त्रमहाज्वाला, सप्ताक्षरमखण्डं नाम । १२ मनोरयं मानवी । 'टिड्ढाणञ्- ' ४।१।१५ ॥ इत्यादिना ङीप् । १३ वैरोपशान्त्यै अट्याऽस्या वैरोट्या, पृषोदरादित्वात् साधुः । १४ न पापेन छुप्यते स्पृश्यते अच्छुप्ता । 'छुप स्पर्शने ' (तु.प.अ.), वर्तमाने क्तः । १५ मनसि भवा मानसी । १६ मासस्येव मानसिका, महती चासौ मानसिका च महामानसिका । रोहिण्यादीनां षोडशानां नामैकं विद्यादेव्य इति ॥२४०॥
Jain Education International
वांग् ब्राह्मी भारती गौर्गीर्वाणी भाषा सरस्वती । श्रुतदेवी
९ वक्त्यनया वाक् । 'वच परिभाषणे' ५० ( अ.प.अ.), 'क्विब्वचिप्रच्छ्यायत- ' (वा ३ १२ । १७८ ॥ इति "क्विप्दीर्घौ असम्प्रसारणं च । २ ब्रह्मण इयं ब्राह्मी । 'ब्राह्मेोऽजातौ '६।४।१७१ ॥ इति टिलोपः, 'टिड्डाणञ्- '४।१।१५ ॥ इति ङीप् । ३ भरतानां नटानामियं भारती । 'तस्येदम्' ४ | ३ | १२० ॥ इत्यणि ङीष् ( ङीप् ) । " भरतानां ऋत्विजां स्तुतिलक्षणा तैरवतारित्वात् "[" ] इति याज्ञिकाः । बिभर्त्ति वा भारती, पृषोदरादिः । ४ गच्छति गौः पुंस्त्री । 'गम्लृ गतौ' (भ्वा.प.अ.), 'गमेर्डो:'( उणा - २२५ ) इति डो:, 'गोतो णित्' ७। १९०॥ । ५ गृणन्ति उद्गिरन्ति तामिति गीः । 'गृ शब्दे' ( क्या.प.से.), 'गृ निगरणे ' ( तु.प.से.) वा, सम्पदादित्वात् ६० क्विप्, 'ऋत इद्धातो: '७।१ ॥ १०० ॥, 'उरण् रपरः '१।१।५१ ॥, 'र्वोरुपधाया दीर्घ इक : ' ८ ।२।७६ ॥ । गिरौ, गिरः इत्यादि ।
१. 'गौतमः' इति२.३ ॥ २. 'गोतम' इति३ ॥ ३. 'युद्धाय' इति १ प्रतौ नास्ति ॥ ४. 'माना:' इति३ ॥ ५. 'दनुजश्चा-' इति१.२ ॥ ६. 'तस्येदमित्यण् ' इति३.४ ॥ ७. 'प्रज्ञप्ती' इति२ ॥ ८. कोष्ठान्तर्गतपाठः २.४प्रतौ दृश्यते ॥ ९. इतोऽग्रे २प्रतौ प्रज्ञद्ध्यतो नदीवत्' इति दृश्यते ॥ १०. १.२. ३नास्ति ॥ ११. रोहिणी' इति २प्रतौ नास्ति ॥ १२. ' - बहुवचनम्' इति३ ॥ १३. ' - तीति' इति३ ॥ १४. ' षोडशानामेकं' इति१.३ ॥ १५. 'क्विप् दीर्घो असम्प्र- ' इति१.२ ।। १६. द्र. स्वोपज्ञटीका २।२४१ ॥, पृ. ५९ ॥
For Private & Personal Use Only
www.jainelibrary.org