________________
१०
२०
१०४
बलिः । 'इन् सर्वधातुभ्यः' (उणा - ५५७) । २३ शिशून् पालयति शिशुपालः, पचाद्यच् । नारायणस्य मध्वादीनां त्रयोविंशतिरिपूणां नामानि । यौगिकत्वाद् मधुमथनः, धेनुकध्वंसी, चाणूरसूदनः, पूतनादूषणः, यमलार्जुनभञ्जनः, कालनेमिहरः, हयग्रीवरिपुः, शकटारि:, अरिष्टहा, कैटभारि:, कंसजित् केशिहा, मुरारि:, साल्वारिः, मैन्दमर्दनः, द्विविदारि:, राहुमूर्धहर:, हिरण्यक - शिपुदारण:, बाणजित्, कालियदमनः, नरकारिः, बलिबन्धनः, शिशुपालनिषूदनः इति विष्णुनामानि भवन्ति ॥
अभिधानचिन्तामणिनाममाला
वैनतेयस्तु वाहनम् ॥२२१॥
१ अस्य विष्णोर्वाहनं विनताया अपत्यं वैनतेयः । 'स्त्रीभ्यो ढक् '४ |१ | १२० ॥ इति ढक्, 'आयनेयी- '७।१।२ ॥ इत्यादिना ढस्य एयादेश: ॥२२९॥
शङ्खोऽस्य पाञ्चजन्यः
१ अस्य विष्णोः शङ्खः पाञ्चजन्यः । समुद्रे तिमि - रूपधारी पञ्चजननामा असुर आसीत्, तदस्थिभवत्वात् । 'बहिर्देवपञ्चजनेभ्यः - ' (वा - ४।३ ५८ ॥ इत्युपसंख्यानाद् ञ्यः । यद्वा पञ्चजने पाताले भव इति, 'बहिर्देव - ' (वा - ४ | ३ १५८ ॥ ) इति सूत्रेणैव यः ॥
अङ्कः श्रीवत्सः
१ अस्य विष्णोरङ्कश्चिह्नं श्रीवत्सः, महापुरुषलक्षणं श्वेतरोमावर्त्तविशेषः । वदति महत्त्वमिति वा । वदेः 'वृ(वृ)तृवदिहनि- ' (उणा-३४२) इत्यादिना सः । " श्रिया युक्तो वत्सं : श्रीवत्सः । रोमावर्त्तविशेषः श्रीवत्सः " [अभि. स्वोपज्ञटीका२।२२२ ॥ ] इत्याचार्याः ॥
असिस्तु नन्दकः ।
१ विष्णोरसिः खड्गः नन्दयति नन्दकैः । 'टुणदि समृद्धौ’(भ्वा.प.से.), 'ण्वुल्तृचौ ' ३ । १ । १३३ ॥ इति ण्वुल् ॥ गदा कौमोदकी
[ देवकाण्डः-२
विष्णोर्गदा देवास्त्रत्वाद् गदति गदा । 'गद व्यक्तायां वाचि' (भ्वा.प.से.), पचाद्यच्, टाप् । कौ पृथिव्यां मोदते सदा ३० जययोगात् कौमोदकी । 'मुद हर्षे' (भ्वा.आ.से.), 'बहुलमन्यत्रापि'( )इर्ति वुञ् । “विष्णुः कुमोदक: शौरिः ''[]इति कोषान्तरात् 'कुमोदको विष्णुः, तस्येयमित्यर्थेऽणि कौमोदकी । ‘“संहितार्सु' तुळे कौपोदकीति पाठः, कूपोदकाज्जातेत्याम्नायात्” [ अम. क्षीर. १ । १ । २८ ॥ ] इति स्वामी ॥ चापं शार्ङ्ग
Jain Education International
१ विष्णोश्चापं धनुः शृणाति शीर्यते वा शृङ्गम् । शृ हिंसायाम्' (क्र्या.प.से.), 'शृणातेर्हस्वश्च' (उणा - १२३ ) इति गन्प्रत्ययः, स च कित्, मु (नु) डागमश्च धातोर्हस्वत्वम् । शृङ्गस्य विकारः शार्ङ्गम् । 'तस्य विकारः ' ४ | ३ |१३४ ॥ इत्यण्, ४० ‘तद्धितेष्वचामादेः ७।२ । ११७ ॥ इत्यादिवृद्धिः ॥
चक्रं सुदर्शनः ॥२२२॥
१ विष्णोः चक्रं सदा रिपुच्छेदं करोत्यनेन चक्रम्, करोतेः कप्रत्यये, ‘कृञादीनां के द्वे स्त:' (वा - ६ । १ ११२ ॥ ) इति द्विर्वचनम् । भक्तैः सुखेन दृश्यत इति सुदर्शनः । 'दृशिर् प्रेक्षणे' (भ्वा.प.अ.) 'भाषायां शासियुधिदृशिधृषिमृषिभ्यो युज् वक्तव्यः'(वा-३।३।१३० ॥) इति खलपवाद" युच्, 'युवोरनाकौ' ७।१।१ ॥, ‘पुगन्तलघूपधस्य च ' ७ । ३ ।८६ ॥ इति गुणः । अभिरामत्वात् शोभनं दर्शनमस्य वा सुदर्शनः पुंसि । " सुदर्शनोऽस्त्रियां चक्रे "[" ]इति नामनिधानात् पुंनपुंसकलिङ्गोऽपि । वाचस्पतिरपि ५० "चक्रं सुदर्शनोऽस्त्रियाम्"["]इत्याह ॥२२२॥ मणिः स्यमन्तको हस्ते
१ विष्णोर्हस्तस्थो मणिः सीमन्तयति 'दीप्तिभिर्द्यामिति स्यमन्तकः । पृषोदरादिः ॥
भुजमध्ये तु कौस्तुभः । १ भुजमध्यं वक्षस्तत्र, कुं भुवं स्तोभते व्याप्नोति
१. इतोऽग्रे ४प्रतौ 'चाणूरध्वंसी' इति दृश्यते ॥ २. 'मेन्दवर्दनः' इति३.४ ॥ ३. इतोऽग्रे स्वोपज्ञवृत्तौ 'वक्षोऽनेन' इति दृश्यते, द्र. २।२२२ ॥ पृ.५५ ॥ ४. २ प्रतौ नास्ति ॥ ५. स्वोपज्ञटीकायां न दृश्यते ॥ ६. 'नन्दनः' इति३ ॥ ७ दैवा-' इति ॥ ८. ३प्रतौ नास्ति ॥ ९. द्र. पदचन्द्रिका, भा-१, स्वर्गवर्गः, श्री- २३, पृ.४२ ॥ रामाश्रमी १।१।२८ ॥, पृ.१६ ॥ १०. 'कुमु-' १.४ ॥ ११ इतोऽग्रे क्षीरस्वामिटीकायां 'मेण्ठादौ' इति दृश्यते ॥ १२. क्षीरस्वामिटीकायां नास्ति ॥ १३. 'भक्तेः' इति१.३ ॥ १४. ' -वादौ' इति३ ॥ १५. द्र. पदचन्द्रिका, भा-१, स्वर्गवर्गः, श्रो- २३, पृ. ४२ ॥, रामाश्रमी १।१।२८ ॥, पृ.१६ ॥ १६. द्र. स्वोपज्ञटीका २।२२२ ॥ पृ.५५ ॥ १७. 'दीप्तिभिद्या-' इति १, 'दीप्तिर्भिद्या-' इति३ ॥
For Private Personal Use Only
www.jainelibrary.org