________________
२१७-२२१]
ऊर्ध्वकर्मा यज्ञधरो धर्मनेमिरसंयुतः । पुरुषो योगनिद्रालुः खण्डास्यः शलिकाऽजितौ ॥१७॥ कालकण्ठों वरारोहः श्रीकरो वायुवाहनः । वर्धमानश्च चतुर्दंष्ट्रो नृसिंहवपुरव्ययः ॥१८॥ कपिलो रुद्रकपिल: सुषेणः सुमतिञ्जयः । क्रतुधामा वासुभद्रो बहुरूपो महाक्रम ॥१९॥ विधाता धार एकाङ्गो वृषाक्षः सुवृषोऽक्षजैः । रन्तिदेवः सिन्धुवृषो जितमन्युर्वृकोदरः ॥२०॥ बहुशृङ्गो रत्नबाहुः पुष्पहासो महातपाः । लोकनाभः सूक्ष्मनाभो धर्मनाभः पराक्रमः ॥ २१ ॥ पद्महासो महाहंसः पद्मगर्भः सुरोत्तमः । शतवीरो महामायो ब्रह्मनाभः सरीसृपः ॥ २२ ॥ वृन्दाङ्कोऽधोमुखो धन्वी सुधर्मा विश्वभुक् स्थिरः । शतानन्द: शरुश्चापि यवनारिः प्रमर्दनः ॥ २३ ॥ ऋक्षनेंमिर्लोहिताक्षः एकपाद् द्विपदः कपिः । एकशृङ्गो यमकील: (-ल) आसन्दः शिवकीर्तनः ॥२४॥ `शत्रु वंशः श्रीवराहः सदायोगी 'सुयामुनः ॥" [शेषनाममाला २६४-७६ ॥] ॥
मधुधेनुकचाणूरपूतनायमलार्जुनाः ॥ २१९ ॥ २० कालनेमिहयग्रीवशकटारिष्ट कैटभः । कंसकैशिमुराः साल्वेमैन्द॑द्विविंदरावः ॥ २२० ॥ हिरण्यकशिपुर्बाणैः कार्लियो नरैको बलिः । शिशुपालश्चास्य वध्याः
१ अस्य विष्णोरेते त्रयोविंशतिर्वध्याः, मन्यतेऽत्यर्थं मधुः । 'मनु अवबोधने' (त. आ.से.), 'फलि-पाटि -मनि-नमि-जनां
१०
व्युत्पत्तिरत्नाकरकलिता
Jain Education International
१०३
पाटिनाधिताश्च उर्निचे ' ( उणा - १८) इति सूत्रेण मन्यतेधन्तादेशः, उप्रत्ययश्च । २ धेनुं कायति धेनुकः । ३ चणति शब्दायते प्रतिमल्लानिति चाणूरः । 'चर्ण' शब्दे' (भ्वा.प.से.) । ४ पूनाति पूतना । पूञ् पवने' (क्र्या.उ.से.), 'पृपूभ्यां कित्' (हैमोणा - २९३ ) इति तन:, टाप् । ५ यमलरूपावर्जुनवृक्षौ यमलार्जुनौ ॥ २१९ ॥ ६ कालस्य नेमिश्चक्रधारेव कालनेमिः । ७ हयस्य ग्रीवेव ग्रीवाऽस्य हयग्रीवः । ८ शकटाकारत्वात् शकटः । ९ नास्ति रिष्टं क्षेममस्मादिति अरिष्टः । १० कैतवेन भाति कैटभः पृषोदरादिः । ११ कामयते जयं कंसः । 'कमु कान्तौ ' (भ्वा.आ.से.), वृ(वृ) तृवदिहनिकमिर्केषियुमुचिभ्यः सः ' (उणा३४२ ) इति सः । १२ केशाः सन्त्यस्य केशी । 'अत इनिठनौ' ५ ।२ ।११५ ॥ इतीनि: । १३ मुरति वेष्टयति मुरः । 'मुर [सं]वेष्टने ' (तु.प.से.), तुदादि:, 'इगुपधज्ञा- '३।१।१३५ ॥ इति कः । १४ सल्वा अभिजनोऽस्य साल्वः । सलति गच्छति वा । 'सल गतौ' (भ्वा.प.से.), 'सलेर्णिद्वा' (हैमीणा - ५१० ) इति वः । १५ मया ४० लक्ष्म्या कृत्वा इन्दति परमैश्वर्यमनुभवति मेन्द: । 'प्रज्ञादिभ्यश्च'५ ।४ ।३८ ॥ इत्यणि मैन्दैः । १६ ['विद ज्ञाने' (अ.प.से.) ], ' इगुपध- '३ । १ ११३५ ॥ इति कः । द्वयोस्त्रेताद्वापरयोर्विद: द्विविदः । १७ रहयति गृहीत्वा 'सूर्याचन्द्रमसौ इति राहुः । ' रहि (रह) त्यागे'(चु.उ.से.), दृ(दृ)सनिजनिचरिचटिरहिभ्यो उर्णूं ' (उणा३ ) इति उण् ॥ २२० ॥ १८ हिरण्येन युक्तः कसि (शि) पुः हिरण्यकसि ( शि )पुः । १९ बाणयति युद्धायें रिपूनिति बाणः । 'बण शब्दे' (भ्वा.प.से.), अस्माण्णिजन्तात् पचाद्यच् । २० के पानीये आलयोऽस्य कालिय:, पृषोदरादिः । २१ नृणाति नरकः । 'दृन् (कृ) नृ - ' (हैमोणा - २७) इत्यक: । २२ बलति ५०
१. ‘खजस्य' इति२, ‘षडास्यः' इति३ ॥ २- १. 'कालकुण्ठो' इति, २ २. 'भद्रकपिल:' इति, २-३. 'सुमितिञ्जयः' इति, २-४. 'सुधन्वा' इति च शेषनाममालास्वोपज्ञटीकयोः ॥ ३. 'सुवृषोकुजः' इति२ ॥ ४. 'रतिदिवः' इति२, 'रतिदेवः' इति४ ॥ ५. 'सिन्धुः वृषो' इति२ ॥ ६. 'शरीसृप:' इति१.२.४ ॥ ७. 'त्सरु' इति ॥ ८. ' निमिलो ' इति३, 'यज्ञनेमिलो' इति शेषनाममालास्वोपज्ञटीकयोः ॥ ९. 'सद्रु-' इति३ ॥ १०. 'सया-' इति३ ॥ ११. 'साल्वः ' इति१, 'शाल्वः' इति३ ॥ १२. 'उच्च' इति३, 'उनिच्च' इति ॥ १३. 'फलिनमिमनिजनां गुक्पाटिनाकिधतश्च' इत्युणादिगणसूत्रस्वरूपम् ॥ १४. 'कामयति' इति३ ।। १५. क्षीरतरङ्गिण्यादौ चणधातुः शब्देऽर्थे न दृश्यते, तेनात्र हैमसम्मतः शब्दार्थकः अणरणदण्डात्मकः चणधातुर्बोध्यः, तत्राह- "महिकणि-' (हैमोणा४२८) इति णिति ऊरे चाणूरो विष्णुहतो मल्लः " इति स्वोपज्ञं भ्रातुपारायणम्, भ्वादि:, धातुसं २७२, पृ. ३३ ॥ १६. कषिभ्यः सः' इत्युणादिगणे ॥ १७. 'सला' इति३.४, 'सलवा' इति२ ॥ १८. 'मेदः' इति१, 'मैन्द:' इति२.४ ॥ १९. 'मेन्द:' इति ॥ २०. अत्र 'देवताद्वन्द्वे च' ६ | ३ | ३६ || इत्यानङ् ॥ २१. ' - चटिभ्यो जुण्' इत्युणादिगणे ॥ २२. 'योद्धुं इति२.३ । १ प्रतावपि केनचित् 'योद्धुं रि-' इत्यस्य निष्काषणं कृत्वा बर्हिर्भागे 'युद्धाय रि-' इति कृतः ॥ २३. 'कालीयः' इति३ ॥
For Private & Personal Use Only
३०
www.jainelibrary.org