________________
९४
द्वादशाक्षो महातेजाः कुमारः षण्मुखो गुहः । विशखः शक्तिभृत् क्रौञ्चतारकारिः शराग्निर्भूः
अभिधानचिन्तामणिनाममाला
॥२०९॥
१ स्कन्दति गच्छति शोषयति दैत्यानिति वा स्कन्दः । 'स्कन्दिर गतिशोषणयोः ' (भ्वा.प.अ.), पचाद्यच् । तथा च वायुपुराणम् “स्कन्दिता दानवगणांस्तेन स्कन्दः प्रतापवान् ''[']इति । स्कन्नं शुष्कं रेतोऽस्येति, पृषोदरादिर्वा । २ स्वमस्यास्ति स्वामी । 'स्वामिन्नैश्वर्ये '५ ।२ ।१२६ ॥ इति साधुः । ३ महती सेनाऽस्य महासेनः । ४ सेनां नयति प्रापयति सेनानीः । ' णीञ् प्रापणे' १० (भ्वा. उ. अ.), 'सत्सूद्विषद्रुह - '३।२।६१ ॥ इत्यादिना क्विप् । ५ शिखी वाहनमस्य शिखिवाहनः, यौगिकत्वात् मयूररथः इत्यादयः । ६ षण्णां मातृणामपत्यं षाण्मातुरः । 'मातुरुत्संख्यासं-भद्र- पूर्वायाः ४ ।१ ।११५ ॥ इत्यण्, उत्वम्, रपरत्वं च । ७ ब्रह्म चरतीत्येवंशील : ब्रह्मचारी । 'चर गतिभक्षणयोः ' (भ्वा.प.से.), 'सुप्यजातौ णिनिस्ताच्छील्ये ' ३ ।२ ७८ ॥ इति णिनि:, 'अत उपधायाः ७ । २ । ११६ ॥ । ८-१० गङ्गोमाकृत्तिकाभ्योऽसुतः, तेन गङ्गासुतः, उमासुतः, कृत्तिकासुतः, कृत्तिकानां सुत इति समासः, यौगिकत्वाद् गाङ्गेयैः, पार्वती
नन्दनः बाहुलेयः इत्यादयः ॥ २०८ ॥ ११ द्वादशाऽ क्षीण्यस्य २० द्वादशाक्षः । बहुव्रीहौ सक्थ्यक्ष्णोः षच्, 'यस्येति च' ६।४।१४८॥ । षण्मुखत्वाद् द्वादशनेतृत्वम् । १२ महत्तेजोऽस्य महातेजाः, सकारान्तः । १३ कुमारयति क्रीडयति शिखिना कृत्वेति कुमारः । 'कुमार क्रीडायाम् ' (चु.उ.से.), पचाद्यच् । यदुक्तं वायुपुराणे - " यस्मात् क्रीडति सोत्यर्थं कुमारस्तेन कीर्त्तितः"[ ] इति । काम्यते अभिलष्यते इति वा । “कमु कान्तौ’(भ्वा.आ.से.), 'कमे: किदुच्चोपधायाः' (उणा-४१८)इत्यार[न्]प्रत्यये उपधायाश्चोत्वे कुमारः "["] इति तु व्याख्यामृतम् । सदा बालत्वाद्वा । तथा च स्कन्दे
[ देवकाण्डः-२
" पुत्रस्ते भविता देवि ! महायोगबलान्वितः ।
सदा बालोऽथ सुभगो धर्मविधर्मवत्सलः ॥ १ ॥" ३० ["] इति नारदवचनात् । षोडशवर्षदेशीयः, न त्वनूढतया कुमार इत्यादर्त्तर्व्यंः, यतोऽनेन देवसेना ऊढ । तथा च वायुपुराणम् -
" शतक्रतो रूपवती देवसेनेति या सुता । सा महेन्द्रेण रत्यर्थं भार्यात्वेनोपपादिता ॥२॥"
Jain Education International
[३]इति ।
‘“उदीर्णसेनापतये महासेनाय सुव्रत ! ॥" [ " ] इति । ब्रह्मचारित्वात् कुत्सितो मारः कामोऽस्येति वा, एकपत्नीत्वात् । १४ षट् मुखान्यस्य षण्मुखः, अग्निपत्नीनां षण्णां स्तनपानत्वात् । १५ गूहति रक्षति सेनां गुहः । 'गुहूँ संवरणे' ४० (भ्वा.आ. वे.), 'इगुपधज्ञा- '३ । १ । १३५ ॥ इति कः । १६ विशाखानक्षत्रेण युक्त: काल इत्यर्थे 'नक्षत्रेण युक्तः कालः ' ४ । २ । ३ ॥ इति सूत्रेणाऽण्, तस्याण: 'लुबविशेषे '४ २ ४ ॥ इति लुप्, 'लुपि युक्तवद् व्यक्तिवचने ' १ ।२ ।५१ ॥ इति प्रकृति [व] लिङ्गसंख्ये, ततो विशाखायां जात इत्यर्थे 'सन्धिवेला-' ४।३।१६॥ इति सूत्रेणाऽण्, तस्य ' श्रविष्ठाफाल्गुनी ' ४ | ३ | १६ ॥ इत्यादिना लुकि 'लुक् तद्धितलुकि ' १ ।२ ।४९ ॥ इति
लुकि विशाखः । १७ शक्तिमायुधं बिभर्त्ति शक्तिभृत् । ‘डुभृञ् धारणपोषणयो: ' (जु.उ. अ.), क्विपूँ, 'इस्वस्य पिति - '६ । १ ७१ ॥ इति तुक् । १८-१९ क्रौञ्चतारकाभ्या - ५० मग्रेऽरिः। 'क्रुञ्जं गतौ'(भ्वा.प.से.), 'ऋत्विक्- '३।२ ५९ ॥ इत्यादिना क्विने, 'प्रज्ञादिभ्यश्च ५ ४ १३८ ॥ इति अण् । क्रौञ्चस्य गिरेरसुरस्य वा अरिः क्रौञ्चारिः । अन्धकासुरे हि महेशात् क्रौञ्चमध्ये प्रनष्टेऽनेन क्रोञ्चो दारित इति हि प्रसिद्धिः । "कैलासे च नदीशे च क्रौञ्चः क्रौञ्चोऽभिधीयते ''[] बृहद्वादावली । तारक [स्य ] दानवस्य अरि: तारकारिः । यौगिकत्वात् क्रौञ्चदारणें':, तारकान्तकः इत्यादयः । २०-२१
4
१. द्र. पदचन्द्रिका, भा-१, स्वर्गवर्गः, श्रो-३४, पृ. ५४ ॥ २. 'स्वादामि-' इति२.३ ॥ ३. 'संपूवा-' इति४, पूर्वाद्' इति३ ॥ ४. 'कृत्तिकामग्रे' इति ॥ ५. 'गङ्गेय:' इति३ ॥ ६. द्र टीकासर्वस्वम्, भा-१, ११४० ॥ पृ.३१ ॥, पदचन्द्रिका, भा-१, स्वर्गवर्गः, श्री - ३५, पृ.५५ ॥ ७. द्र. पदचन्द्रिका, भा-१, स्वर्गवर्गः, -३५, पृ.५५, तत्र 'कमु कान्तौ' इत्यस्य स्थाने 'काम्यत इति' इति दृश्यते ॥ ८. ३प्रतौ नास्ति ॥ ९. 'त्वेत्वनू - ' इति३ ॥ १०. ' - हर्तव्य:' इति३ ॥ ११. 'उढा' इति३ ॥ १२. १ प्रतौ 'पुराणम्' इत्येव दृश्यते ॥ १३. द्र टीकासर्वस्वम्, भा-१, १।१।४०॥, पृ.३१॥, पदचन्द्रिका, भा-१, स्वर्गवर्गः, श्रो- ३५, पृ.५५ ॥ रामाश्रमी १।१४० ॥ पृ.२१ ॥ १४. 'गुह' इति३ ॥ १५. 'स्रवि-' इति१.२ ॥ १६. 'डीपो' इति३ ॥ १७. 'क्विपि' इति३ ॥ १८. 'क्रुन्च' इति स्वामी, क्षीरतर., भ्वादि:, धातुसं- ११६, पृ.४० ॥, 'क्रुञ्च कौटिल्याल्पीभावयोः' इति सायणः, मा. धातुवृत्तिः, भ्वादि:, धातुसं - ११६, पृ. ८९ ॥ १९. 'क्विप्' इति३.४ ॥ २०. 'कैलाशे' इति२ ॥ २१. इतोऽग्रे २प्रतौ 'क्रौचः' इत्यधिकः पाठो दृश्यते ॥ २२. 'कौञ्चौऽभि-' इति १ ॥ २३. द्र. पदचन्द्रिका, भा-१, स्वर्गवर्ग:, श्रो-३५, पृ. ५६ ॥, रामाश्रमी १।१४० ॥ पृ. २१ ॥ तत्र 'बृहद्धारावली' इति दृश्यते ॥ २४. 'तारका-' इति ॥ २५. ' - दारुणः' इति२.३ ॥
For Private Personal Use Only
www.jainelibrary.org