________________
२०५ - २०८]
" यस्माच्चण्डं च मुण्डं च गृहीत्वा त्वमुपागता । चामुण्डेति ततो लोके ख्याता देवी भविष्यसि ॥१ ॥” ['] । २ चर्च्यते पूज्यते चर्चा, 'चर्च पूजायाम्' ( ), 'चर्च अध्ययने' (चु.उ.से.), अस्माद्वा भिदादित्वादङ, चचैव चर्चिका | स्वार्थे कन्, 'प्रत्ययस्थात्- ' ७।३।४४ ॥ इतीत्वम् । ३ चर्म 'मुण्डेऽस्याः चर्ममुण्डा । ४ मार्जारः कर्णिकाऽस्याः मार्जरकर्णिका । मार्जारवत् कर्णावस्याः इति वा । ५ दैत्यानां कर्णान् मोटयति उत्पाटयति कर्णमोटी । 'मुट' प्रमर्दने' ( ), पचाद्यच्, गौरादिः । ६ महान् गन्धोऽस्याः १० महागन्धा, दैत्यास्रविस्रत्वात् । ७ भैरवस्य भार्या भैरवी । ८ कपालमस्त्यस्याः कपालिनी । 'अत इनिठनौ' ५।२ ।११५ ॥ इतीनि:, 'ऋन्नेभ्यो ङीप् ४ ११ १५ ॥ अष्टौ चामुण्डायाः ॥ शेषश्चात्र
व्युत्पत्तिरत्नाकरकलिता
"चामुण्डायां महाचण्डो चण्डमुण्डाऽपि " [शेषनाममाला २६२ ॥ ] ॥ २०६ ॥
हेरम्बो गणविघ्नेश: पशुपाणिर्विनायकः । द्वैमातुरो गजास्यैकदन्त लम्बोदराखुंगौ ॥२०७॥
१२,
१ हे शङ्करे रम्बते लम्बते शैशवे इति हेरम्बः । "हे प्रत्यूहे रम्बते शब्दायते " [अम.क्षी. १ । १ । ३८ ॥ ]इति तु २० स्वामी । यद्वा हे शिवसमीपे रम्बते शब्दायते इति वा । 'अबि रबि शब्दने' (भ्वा.आ.से.), पचाद्यच्, 'तत्पुरुषे कृति बहुलम्' ६ |३ | १४ ॥ इत्यलुक् । देश्योऽप्ययं बहुश: संस्कृते प्रयुक्तत्वात् निबद्धः । २-३ गणविघ्नाभ्यामग्रे ईश:, तेन गणानां प्रमथादीनामीर्शैः गणेशः, विघ्नानामीशो विघ्नेशः, यौगिकत्वात् प्रथमाधिपो, विघ्नराजः इत्यादयः । ४ पर्शुः
Jain Education International
९३
पाणावस्य पर्शुपाणिः । ५ वि इति विघ्नानां नायको विनायकः, पदैकदेशे पदसमुदायोपचाराद् विशब्देन विघ्नः प्रोच्यते । विशिष्टानां नायको वा । विगतो नायको नियन्ताऽस्यै वा । ' ण्वुल्तृचौ ' ३ |१ | १३३ ॥ इति ण्वुल् । यद् वामनपुराणे
३०
" नायकेन मया देवि ! विनोद्भूतोऽपि पुत्रकः । यस्माज्जातस्ततो नाम्ना भविष्यति विनायकः ॥ १॥" [ " ] इति । अन्येषां विनेतृत्वाद्वा । ६ दुर्गया चामुण्डया च पालितत्वाद् द्वयोर्मात्रोरपत्यं द्वैमातुरः । 'मातुरुत्संख्या-सं-भद्रपूर्वायाः ४ । १ । ११५ ॥ इत्यण्, 'उरण् रपरः' १ । १ ५१ ॥ इति रपरत्वम् । " शिरोरहितो जातोऽतो हस्तिशिरसि योजित इत्यतो हस्तिन्यापत्यत्वाद् द्वयोरपत्यम् "[ ]इति तु कौमुदीं । ७ 'गजस्येव आस्यमस्येति गजास्यः । " समुदाये प्रवृत्ताः शब्दा अवयवेष्वपि वर्त्तन्ते " [ ]इति गजास्यः । गजास्यमिवास्येति वा । उष्ट्रमुखवत्समासोत्तरपदलोपौ । ८ कार्त्तिकेनोत्पाटि - ४० तैकदन्तत्वाद् एको दक्षिणो दन्तोऽस्य एकदन्तः । ९ लम्बमुदरमस्य लम्बोदरः । १० आखुना गच्छति आखुगः । 'गम्लृ गतौ ' (भ्वा.प.अ.), 'अन्यत्रापि (अन्येष्वपि दृश्यते' (वा-३।२।४८॥) इति डः । यौगिकत्वात् षिकरथोऽपि । दश गणेशस्य । शेषश्चात्र
I
“पृश्निगर्भः पृनिशृङ्गः(-ङ्गो) द्विशरीरस्त्रिधातुकः । हस्तिमल्लो विषाणान्तः " [ शेषनाममाला २।६२-६३ ॥]
॥२०७॥
स्कन्दः स्वामी महासेनः सेनानीः शिखिवाहनः । षाण्मातुरो ब्रह्मचारी गङ्गोमाकृत्तिकासुतः ॥ २०८ ॥ ५०
१. द्र. स्वोपज्ञटीका २।२०६ ॥ पृ. ५० ॥ २. क्षीरतरङ्गिण्यादावयं धातुः पूजार्थे न दृश्यते ॥ ३. भिदादित्वेनाऽङ्त्वं विचारणीयम्, ‘चिन्तिपूजिकथिकुम्बिचर्चश्च' ३ | ३ | १०५ ॥ इत्यनेनाऽसिद्धेः ॥ ४. ' चर्चेव' इति३ ॥ ५. 'मुण्डोऽस्याः' इति२ ॥ ६. 'मुडि प्रमर्दने ' (क्षीरतर., भ्वादि:, धातुसं - २२१, पृ. ५७ ) इत्यत्र स्वामिनोक्तम् - " मुट इति दुर्ग : " इति 'मुट आक्षेपप्रमर्दनयो: ' (क्षीरतर, तुदादिः, धातुसं-७९, पृ. २५५ ) इति, 'छुट छेदने'(क्षीरतर., चुरादिः, धातुसं - ६६, पृ. २९९ ) इत्यत्र 'मुट इति दुर्ग:' इति चोक्तम् ॥ 'मुट आक्षेपप्रमर्दनयो: ' (मा. धातुवृत्तिः, तुदादिः, धातुसं८०, पृ. ४७६ ) इति, 'मुट प्रमर्दने' (मा. धातुवृत्तिः भ्वादि:, धातुसं-२१८, पृ. ११३ ) इति, 'मुट सञ्चूर्णने ' (मा. धातुवृत्तिः, चुरादिः, धातुसं-६७, पृ. ५४५) इति च सायणेनोक्तम् ॥ अत्र मोटयतीति विगृहीतत्वात् चुरादेर्ग्रहणं बोध्यम् ॥ ७. 'दैत्यास्र-' इति ॥ ८. 'ङीष्' इति२.३.४ ॥ ९. इतोऽग्रे १.२ प्रतौ 'चण्डमुण्डी' इति दृश्यते ॥ १०. ' - दन्तो' इति१.३ ॥ ११. ३. ४प्रतौ नास्ति ॥ १२ द्र. पदचन्द्रिका, भा-१, स्वर्गवर्गः, श्ले३३, पृ.५३॥, अम.क्षीर.टीकायां "प्रत्यूषे हेरम्बते शब्दायते हेरम्ब इति नैरुक्ताः, देशीपदप्रायं तु मन्महे " इति दृश्यते, १।१।३८ ॥, पृ.१३॥ १३. 'रबि लब अब शब्दे' इति क्षीरतरङ्गिण्यादौ ॥ १४. ' - मीशाः' इति३ ॥ १५. ' - स्येति' इति४ ॥ १६. द्र. स्वोपज्ञटीका २।२०७॥, पृ.५० ॥ १७. द्र. पदचन्द्रिका, भा-१, स्वर्गवर्गः, श्रो-३३, पृ. ५३ ॥ १८. 'गजस्य अस्य' इति१, 'गज आस्य-' इति२.४ ॥ १९. "परशुरामेणोत्पाटितैकदन्तो गणेशः " इति वाचस्पत्यम्, पृ. १४६९ ॥ २०. 'दक्षिगौ दन्तौऽ-' इति४ ॥ २१. 'मूषक - ' इति १.४ ॥
For Private Personal Use Only
www.jainelibrary.org