________________
९०
अजो विष्णुः, को ब्रह्मा, तावत्र स्त इति, 'गाण्ड्यजगात् संज्ञायाम् '५।२।११०॥ इति वः । " निपातनात् कुत्वम्, अजकावम्"[ ]इति तु भाष्यम्, तन्मते सूत्रेऽपि ककारः, प्रज्ञादित्वादणि, 'अन्येषामपि भाषायां दीर्घत्वं दृश्यते'
अभिधानचिन्तामणिनाममाला
६।३।१३७॥ इति दीर्घः । “धनुस्त्वजगवं 'पुण्य ( युग्य) - मजकावमजाजकम् ''[१] इति शब्दार्णवः । तस्य महादेवस्य धनुस्तद्धनुः । महादेवधनुषस्त्रीणि ॥
ब्राह्माद्या मातरः सप्त
१ ब्रह्मादीनां स्वेदान्निर्गतत्वाद् ब्रह्मण इयं ब्राह्मी । १० तस्येदम् ' ४ | ३ | १२० ॥ इत्यण्, 'ब्राह्मोऽजातौ ६ |४|१७१ ॥ इति टिलोपः, 'टिड्ढाणञ्- '४ । १ । १५ ॥ इति ङीप् । ब्रह्माणीति शैवप्रसिद्धम् । ब्राह्मी आद्या आसां ब्राह्माद्याः । मान्ति वर्तन्ते मातरः, शंभो: परिकरभूताः । यदुक्तम्
'स्मृताद्या ब्रह्माणी सिद्धा माहेश्वरी च कौमारी । वैष्णव्यथ वाराही चामुण्डा मातरः सप्त ॥१॥" [] इति । केचित्त्वष्टावाहुः । तदुक्तम्
"ब्राह्मी माहेश्वरी चेन्द्री (चैन्द्री) वाराही वैष्णवी तथा । कौमारी चाथ चामुण्डा चर्चिकेत्यष्टमातरः ॥२॥" []इति । तथा च भट्टस्वामी "अस्याष्टौ परिवारत्वेन मान्ति २० वर्त्तन्ते मातरः " [ अम. क्षीर. १ । १ । ३५ ॥] । सर्वधरादयस्तुचामुण्डाचर्चिकाशब्दावपनीय कौमारीति पठित्वा "सप्तैव मातरः''[ ]इत्याहुः । ‘मातर: ' बहुवचनान्त एव यथा "तं मातरो देवमनुव्रजन्त्यः " [ ] इति । महादेवस्य हि ब्राह्माद्या मातृनाम्न्यः परिवारत्वेन वर्त्तन्ते, तासां सप्तानामेकम् ॥
प्रमथाः पार्षदा गणाः ॥ २०१ ॥
१ रुद्रद्वेषिणं प्रमथ्नन्ति प्रमथाः । मन्थ विलोडने ' (क्रया.प.से.), पचाद्यच् । २ पर्षदि साधवः पार्षदाः । णे, ' परिषदो ण्य : ४ । ४ । १०१ ॥ इति योगविभागात् णः । "भूताः शिवस्य पार्षदाः"["]इति संसारावर्त्तः । " स पार्षदैरम्बरमा -
Jain Education International
[ देवकाण्डः-२ पुरत् "["] इति जाम्बवत्यां पाणिनिः । परिषदि साधव इति ३० व्युत्पत्त्या पारिषदा इत्यपि । ३ गण्यन्ते दिव्यपदप्राप्त्येति गणाः । ' गण संख्याने ' ( चु.उ.से.), कर्मणि घञ् । शिवस्य गणनामानि त्रीणि, महादेवस्य 'पासवाण' इति भाषा ॥ २०९ ॥
लघिमा वर्शितेशित्वं प्राकाम्यं महिमाऽर्णिमा । यत्रकामावसायित्वं प्राप्तिरैश्वर्यमष्टधा ॥ २०२॥
१ लघोर्भावो लघिमा, येन वायोरपि लघुर्भवति । २ वशिनो भावो वशिता वशित्वम्, सर्वजीववशीकरणशक्तिः, भूतानि पृथिव्यादीनि, भौतिकानि गोघटादीनि तेषु वशी स्वतन्त्रो भवति तेषां त्ववश्यः, तत्कारणतन्मात्रपृथिव्यादिपरमाणुवशीकारात् 'तेत्कार्यवशीकर:, तेन तान् यथावस्थापयति, ४० तथावतिष्ठन्त इत्यर्थः । बृहस्पतिस्तु - " वशिता, यया भूमावपि जलवन्मज्जनोन्मज्जने करोति " [ ] इत्याह । ३ ईष्टे इत्येवंशील ईशी, ईशिनो भाव ईशित्वम्, तेषां भूतभौतिकानां विजितमूलप्रकृतिः सन् य उत्पादो यो विनाशो यच्च यथावदवयवसंस्थानं तेषामीष्टे । ४ प्रकृष्टः कामोऽस्य प्रकामः, तद्भावः प्राकाम्यम्, इच्छानभिघातः, नास्य केनापीच्छा प्रतिहन्यते । ५ महतो भावो महिमा, अल्पोऽपि नगनगरगगनपरिमाणो भवति । ६ अणोर्भावः अणिमा, येन कृत्वा महान् अपि अणुपरिमाणो भवति । ७ यत्र काम इच्छा तत्र आवसतीत्येवंशीलः यत्रकामावसायी, तद्भावस्तत्त्वम्, सत्यसङ्कल्पना, विजितगुणार्थ - ५० तत्त्वो यद्यदर्थतया सङ्कल्पयति तत्तस्मै प्रयोजनाय कल्पतें, विषमप्यमृतकार्ये सङ्कल्प्य भोजयन् जीवयतीर्ति । ८ प्रापणं प्राप्तिः सर्वे भावा संनिहिता भवन्ति तद्यथा भूमिष्ठोयङ्गुल्यग्रेण चन्द्रं स्पृशति । इत्यैश्वर्यमष्टधा । महादेवस्याष्टानां लघिमादीनां नामैकम् 'ऐश्वर्यम्' इति ॥ २०२॥
।
गौरी काली पार्वती मातृमातापर्णा रुद्राण्यम्बिका त्र्यम्बकोमा ।
१. ‘पुण्यमतकावमऽत्तजक -' इति२ ॥ २. प्र. पदचन्द्रिका, भा-१, स्वर्गवर्गः, श्री - ३०, पृ.४९ ॥, रामाश्रमी १।१।१३५ ॥, पृ.१८ ॥, ३. द्र. स्वोपज्ञटीका २।२०१ ॥, पृ.४८ ॥ ४. ३प्रतौ नास्ति ॥ ५. 'चण्डी' इति३ ॥ ६. द्र. पदचन्द्रिका, भा-१, स्वर्गवर्गः, श्री - ३०, पृ.५० ॥, रामाश्रमी १११ ॥ ३५ ॥ पृ.१९ ॥ ७. अस्य स्थाने अम क्षीर. टीकायां 'मातृनाम्न्यः' इति दृश्यते १ । १ । ३५ ॥ पृ. १२ ॥ ८. द्र. पदचन्द्रिका, भा-१, स्वर्गवर्गः, श्रो- ३०, पृ.५० ॥ ९. 'पर्षदाः' इति३ ॥ १०. द्र. पदचन्द्रिका, भा-१, स्वर्गवर्गः, श्रो- ३०, पृ.५० ॥, रामाश्रमी १ । १ । ३५ ॥, पृ.१९ ॥, रामाश्रम्यां पार्षद्या पार्षदाः' इति दृश्यते ॥ ११. द्र. पदचन्द्रिका, भा-१, स्वर्गवर्गः, श्रो-३०, पृ.५० ॥ १२. 'तत्कार्यावशी-' इति१.२.४ ॥ १३. 'यदावदवसं- ' इति३ ॥ १४. 'कल्प्यते' इति१.२ ॥ १५. यति' इति३ ॥
For Private & Personal Use Only
www.jainelibrary.org