________________
२०१-२०५]
दुर्गा चण्डी सिंहयाना मृडानी
कुमारी ॥२०३॥
कात्यायन्य दक्षा ती शीवा महादेवी शर्वाणी सर्वमङ्गला । भवानी कृष्णमैनाकस्वसा मेनार्द्विजेश्वरी ॥२०४॥ निशुम्भशुम्भमर्हिषमथनी भूतनौयिका ।
व्युत्पत्तिरत्नाकरकलिता
१ गौरवर्णत्वाद् गौरी । 'षिद्गौरादिभ्यश्च' ४।१ १४१ ॥ इति गौरादित्वात् ङीष् । तथा च स्कन्दे
" इच्छामि देवि ! दिव्यं च वपुः कनकसुप्रभम् । गौरीति लोके विख्याता भवेयं कमलोद्भवा ॥ १॥" १०] []इति । २ संहारमूर्ती श्यामवर्णत्वात् काली । 'जानपदकुण्ड - ४ ११ १४२ ॥ इति ङीष् । वर्णस्याविवक्षायां 'काला' इत्यपि । “उमा कात्यायनी दुर्गा काली हैमवतीश्वरी । काला कालिञ्जरी गौरा "['] इति वाचस्पतिः । ३ पर्वतस्यापत्यं पार्वती। ‘तस्यापत्यम्’४।१।९२ ॥ इत्यण्, 'टिड्ढाणञ्- '४ । १ । १५ ॥ इति डीपूँं । यद्वा पर्वतोऽभिजनोऽस्याः पार्वती । 'सिन्धुतक्षशिलादिभ्योऽण ४ | ३ |९३ ॥ इति प्रथमान्तादभिजनोपाधिकादस्येत्यर्थे तक्षशिलादित्वादञि ङीष् ( ङीप् ) । " यत्र पूर्वैरुषितं सोऽभिजनः”[ ] इति धातुवृत्तिः । ४ मातृणां ब्राम्यादीनां माता मातृमाता । 'न षट्स्वस्त्रादिभ्यः' ४ । १ । १० ॥ इति न २० ङीपू । ५ तपस्यन्त्यानया स्वयं शीर्णमपि पर्णं न भुक्तमिति, न विद्यते पर्णमप्याहारोऽस्या अपर्णा । जाते [ रि] त्यनुवृत्तेः ‘पाककर्णपर्ण–' ४।१।६४॥ इत्यादिना न ङीष् । ६ रुद्रस्य स्त्री रुद्राणी । 'इन्द्रवरुण - ४ १ १४९ ॥ इत्यादिना ङीषानुकौ । ७ जगन्मातृत्वात् अम्बैव अम्बिका। संज्ञायां कन्, 'प्रत्ययस्थात् कात् पूर्वस्यात : - ७ । ३ । ४४ ॥ इतीत्वम् । ८ त्रीणि अम्बकानि नेत्राण्यस्याः त्र्यम्बका । ९ अवति रक्षति आपद्भ्य उमा । ‘अव रक्षणादौ’(भ्वा.प.से.), 'अविसिवि[स] शुषिभ्यः कित्' (उणा - १४१) इति मन्प्रत्यये, कित्त्वे', 'ज्वरत्वर- '६ १४ ॥२०॥ इत्यट् (ठ्) त्वे, बाहुलकात् ह्रस्वत्वे च उमा । ओर्महेश्वरस्य मा
Jain Education International
९१
लक्ष्मीरिति वा । " उ मेति मात्रा तपसे निषिद्धा " [ कुमार - ३० संभवम्, सर्ग: - १, श्री - २६] इति वा । १० ' सर्वे गत्यर्था ज्ञानार्था:' इत्युक्तेः दुःखेन गम्यते ज्ञायतेऽसाविति दुर्गा। 'गम्लृ गतौ' (भ्वा.प.अ.), 'अन्येभ्योऽपि (अन्येष्वपि ) - '(वा३।२।४८॥) इति डः। दुःखेन गन्तुं शक्यतेऽस्यामिति आधारविवक्षायां "सुदुरोरधिकरणे' (वा - ३१२ १४८ ॥ ) डः " [ माधवीयधातुवृत्तौ भ्वा., पृ. २७८ ] इति माधवः । दुर्गं वनं 'गिरिर्वा निवासत्वेनास्त्यस्या इति, अर्श आदित्वादचि दुर्गा । दुर्गनामासुरवधाद्वा । तथोक्तम्
For Private
" तत्रैव च वधिष्यामि दुर्गमाख्यं महासुरम् । दुर्गादेवीति विख्यातं तन्मे नाम भविष्यति ॥२॥"
१. द्र. पदचन्द्रिका, भा-१, स्वर्गवर्गः, श्रो-३१, पृ. ५२ ॥ २. पूर्ती' इति ॥ ३. 'डीष्' इति२.३.४ ॥ ४. 'सिन्धु-' इति ४प्रतौ नास्ति ॥ ५. ३ प्रतौ नास्ति ॥ ६. 'गिरिर्वासो निवा-' इति२ ॥ ७ द्र. पदचन्द्रिका, भा-१, स्वर्गवर्गः, श्रो-३२, पृ.५३ ॥ ८. 'चंडि' इति ॥ ९. 'डीप्' इति १.३.४॥ १०. 'मृडाणी' इति३ ॥ ११. 'फ: ' इति३ ॥ १२. ' - यनी' इति३ ॥ १३. 'सया' इति४ ॥ १४. द्र. स्वोपज्ञटीका २।२०४ ॥ पृ.४९ ॥ १५. 'डीपि' इति३ ॥ १६. अम.क्षीर. टीकायां "पुंयोगे च शिवस्य स्त्री शिवी" इति दृश्यते, १११ ॥३७॥, पृ.१३ ॥
[ ँ]इति मार्कण्डेयपुराणम् । ११ चण्डति चण्डी, कोपनत्वात् । 'चर्डि' कोपे ' (भ्वा.आ.से.), पचाद्यच्, स्त्रियां ‘बाह्वादिभ्यश्च’४।१ ।४५ ॥ इति ङीष् । १२ सिंहो यानमस्याः सिंहयाना, यौगिकत्वात् सिंहवाहनाऽपि । १३ मृडस्य शिवस्य भार्या मृडानीँ ं । 'इन्द्रवरुण - १४ ।१ ।४९ ॥ इत्यादिना डीषानुकौ । १४ कतस्यापत्यं कात्यायनी । 'गर्गादिभ्यो यञ् ४।१।१०५ ॥, ततः ‘सर्वत्र ं लोहितादिकतन्तेभ्यः ' ४ । १ । १८ ॥ इति ष्फः, फस्यायनादेशः, षित्त्वात् ङीष् । १५ दक्षाज्जाता दक्षजा । 'जनी प्रादुर्भावे'(दि.आ.से.), 'पञ्चम्यामजातौ ३ ।२ ।९८ ॥ इति डः । यौगिकत्वाद् दाक्षायणीं । १६ अर्यत इति आर्या । 'ऋ ५० गतौ ' (जु.पं.अ.), 'ऋहलोर्ण्यत् '३।१ ।१२४ ॥ इति ण्यत् । १७ कुमारी अवस्थाभेदात् ॥ २०३ ॥ १८ सती इति प्राग्जन्मनि दक्षपुत्रीत्वे नाम, दक्षजेतिवत् । यद् वामनपुराणम्
'ब्रह्मंस्त्वय समाख्याता मृता दक्षात्मजा सती । सा जाता हिमवत्पुत्रीत्येवं मे वक्तुमर्हसि ॥३॥" [*] । १९ शक्तिशक्तिमतोरभेदोपचारात्, स्वतः श्रेयस्करीत्वाद्वा शिवा । " पुंयोगे डीर्षि शिवी' [ अम. क्षीर. १ । १ । ३७ ॥] इति च स्वामी । २० महादेवस्य भार्या महादेवी । २१ शर्वस्य
४०
Personal Use Only
www.jainelibrary.org