________________
८८
"नीलं येन समागं (ममाङ्गं) तु रसाक्तं लोहितं त्विषा । नीललोहित इत्येव ततोऽयं परिकीर्त्तितः ॥४॥ []इति वा । "नीलः कण्ठो लोहिताश्च केशाऽस्येति नीललोहिते : "[अम.क्षीर. १ । १ । ३३ ॥ ] इति स्वामी । ५१ सर्वं जानाति सर्वज्ञः । 'ज्ञा अवबोधने' (क्र्या.प.अ.), 'इगुपधज्ञा- '३।१।१३५ ॥ इति कः, 'आतो लोपः - '६।४।६४ ॥ इत्यालोपः । ५२ नाट्यं प्रियमस्य नाट्यप्रियः । ५३ गदासुरवधे खण्डीभूतः पर्शुरस्य खण्डपर्शः । यद्वा खण्डयतीति खण्डः, पचाद्यच् । तादृशः परस्य खण्डपर्शुः ।“खण्डपर्शुः पर्शुरामे शङ्करे चूर्णलेपिनि "[विश्वप्रकाशः, १० शान्तवर्ग:, श्रो-३८] इति विश्वः । ५४-५६ महापरा देवनटेश्वराः, देवनटेश्वराः महच्छब्दात् पुरौं' योज्याः, तेन महांश्चासौ देवश्च महादेवः, सर्वदेवानां महनीयत्वात् । तथा च शाम्बपुराणम्"पूज्यते यत्सुरैः सर्वैर्महांश्चैव प्रमाणतः । धातुर्महति ( - महेति) पूजायां महादेवस्ततः स्मृतः ॥५॥” ["]इति । स्कन्देऽपि
" महतामपि देवानामहमेव महान् यतः ।
न तु मत्तो महानन्यो महादेवस्ततो ह्यहम् ॥ ६ ॥” [ ै]इति । महानटः, नाट्यस्थितिकारित्वात् । महांश्चासावीश्वरश्च महेश्वरः । 'सन्महत्परमोत्तमोत्कृष्टाः २ ।१ । ६१ ॥ इति समासः, 'आन्महतः समानाधिकरणजातीययो: '६ ३ ४६ ॥ इत्यात्वम् । ५७ प्रलये कृत्स्नं हरति हरः । 'हृञ् हरणे ' (भ्वा.उ. अ.), पचाद्यच् । पृषोदरादित्वादीत्वें हीरोऽपि "हीर: कपर्दी समीर : "["] इति संसारावर्त्तात् ॥ १९८ ॥ ५८-६१ पशूनाम्, प्रमथानाम्, भूतानाम्, उमायाश्च पतिः, पशूनां सुरनरतिरश्चां पतिः पशुपतिः, सुरनरतिरश्चां पशुत्वेनोक्तत्वात्, “आब्रह्मान्तं लोकाः पशवः" [”]इति स्मृतेः । “तिर्यग्जातौ पशुः प्रोक्तः सर्वप्राणिनि पुंस्ययम्”["]इति स्वामी । “पशवः प्रमथास्तेषां पति:
२०
4
अभिधानचिन्तामणिनाममाला
[ देवकाण्डः-२ पशुपतिः "["]इति कौमुदी । “पशुर्मृगादौ छगले प्रमथे च पशुः पुमानयम् "["]इति तालव्यान्ते रभसः । स्कन्दे'पालयामि पशून् यस्मात् सृजामि च यदृच्छया । तेषां च पतिरेवाहं तस्मात् पशुपतिः स्मृतः ॥७॥” [" ]इति । प्रमथपतिः, भूतपतिः, उमापतिः, यौगिकत्वात् पशुनाथः, गणनाथः, भूतनाथः, गौरीनाथः इत्यादयः । ६२६३ पिङ्गा जटा ईक्षणं च यस्य स तथा पिङ्गजटः, पिङ्गेक्षणः । ६४-७० पिनाकं च शूलं च खट्वाङ्गं च गङ्गां च अहिं च इन्दुं च कपालं च बिभर्त्ति तेन पिनाकभृत्, शूलभृत्, खट्वाङ्गभृत्, गङ्गाभृत्, अहिभृत्, इन्दुभृत्, कपालभृत्, यौगिकत्वात् पिनाकपाणिः, शूली, खट्वाङ्गधरः, गङ्गाधरः । 'धृञ् धारणे'(भ्वा.उ.अ.), पचाद्यच् । गङ्गाया धरो गङ्गाधरः । अन्यथा तु कर्मण्यण्, 'संज्ञायां भृतृवृज (वृजि) '३ ।२४६ ॥ इति ४० सूत्रेण खच् वा स्यात् । उरगभूषणः, शशिभूषणः, कपाली इत्यादयः ॥ १९९ ॥ ७१-७७ गजस्य, पूष्ण, पूरस्य, अनङ्गस्य, कालस्य, अन्धकस्य, मखस्य असुहृद् गजासुहृत्, गजासुरहन्तृन्त्वात् । पूषासुहृत्, दक्षाध्वरध्वंसने हि पूष्णो दन्ता महेश्वरेण पातिताः । यद् वामनपुराणम्
Jain Education International
१. द्र. टीकासर्वस्वम्, भा-१, ११३३ ॥ पृ. २६ ॥, पदचन्द्रिका, भा-१, स्वर्गवर्गः, श्रो- २८, पृ. ४७ ॥ २. ' - लोहि तु स्वामी' इति१ ॥ ३. द्र. पदचन्द्रिका, भा-१, स्वर्गवर्गः, श्लो-२८, पृ. ४७, तत्र 'नीललोहितः' इति न दृश्यते, अम. क्षीरस्वामिटीकायां "नीलः कण्ठे लोहितश्च केशेऽतो नीललोहित इति पुराणम्" इति दृश्यते १ । १ । ३३ ॥, पृ.११ ॥ ४. ' - धेति' इति१.२ ॥ ५. 'परा' इति२ ॥ ६. द्र. पदचन्द्रिका, भा-१, स्वर्गवर्गः, श्रो-२७, पृ.४६ ॥ ७. 'ह्ययम्' इति२ ॥ ८. '-दरादीत्वे' इति१.४ ॥ ९. ' - दीत्वा' इति२ ॥ १०. रामाश्रमी १ । १ । ३३ ॥ पृ.१८ ॥ तत्र 'शमिर : ' इति दृश्यते ॥ ११. द्र. स्वोपज्ञटीका २ । १९९ ॥ पृ.४७ ॥ १२. अम. क्षीरस्वामिटीकायां न दृश्यते, स्वाम्यनुल्लेखेनोद्धृतमिदं वचनं रामाश्रम्यां द्रष्टव्यम्, ११३० ॥ पृ.१७ ॥ १३. द्र. पदचन्द्रिका, भा-१, स्वर्गवर्गः, श्री - २५, पृ.४४ ॥ १४. द्र. पदचन्द्रिका, भा-१, स्वर्गवर्गः, श्री- २५, पृ.४४ ॥, रामाश्रमी १ । १ । ३० ॥, पृ.१७ ॥ तत्र 'प्रमथेऽपि पुमानयम्' इति पदचन्द्रिका, 'प्रमथे च पुमानयम्' इति रामाश्रमी ॥ १५. टीकासर्वस्वम्, भा - १, ११॥३१ ॥, पृ. २५ ॥, पदचन्द्रिका, भा-१, स्वर्गवर्गः, श्रो- २५, पृ. ४४ ॥ १६. १. ३प्रत्योर्नास्ति ॥ १७. द्र. स्वोपज्ञटीका २२०० ॥ पृ.४८ ॥ १८. 'समरे शूलिना' इति३ ॥ १९. 'शुलि -' इति१ ॥
" ततः क्रोधाभिभूतेन पूष्णो वेगेन शंभुना ।
मुष्टिनाऽऽहत्य दशनाः पातिता धरणीतले ॥ ८ ॥" [] पुरासुहृत्, शंभोराग्नेयबाणेन त्रिपुरस्य प्लुष्टत्वात् । अनङ्गासुहृत्, शंभोस्तृतीयनेत्राग्निना कामस्य दग्धत्वात् । कालासुहृत्, दक्षमखध्वंसे यमस्य जितत्वात् । अन्धकासुहृत्, अन्धको हि ५० समरे " शूलेन "शूलिना प्रोतः । मखासुहृत्, दक्षस्य मखो महेश्वरेण विध्वंसितः। यौगिकत्वाद् गजासुरद्वेषी, पूषदन्तहरः, त्रिपुरान्तकः । त्रयाणां पुराणां समाहारः त्रिपुरम्, पात्रादिगणस्थः,
३०
For Private & Personal Use Only
www.jainelibrary.org