________________
१९५-१९८]
" ततस्तमृषयो दृष्ट्वा भार्गवाङ्गिरसौ मुने ! । क्रोधभाजोऽब्रुवन् सर्वे लिङ्गोऽस्य पततां भुवि ॥४॥" [']इति । २५ कपर्दो जटाजूटोऽस्यास्ति कपर्दी । 'अत इनिठनौ '५ ।२ ।११५ ॥ इतीनिः । २६ ईष्ट इत्येवंशीलः ईश्वरः । 'ईश ऐश्वर्ये' (अ.प.से.), 'स्थेशभासपिसकसो वरच्' ३।२।१७५ ||| यदुक्तं स्कन्दे
व्युत्पत्तिरत्नाकरकलिता
"ईश एवाहमत्यर्थं न च मामीशते परः । ददामि च सदैश्वर्यमीश्वरस्तेन कीर्त्तितः ॥५॥”
[]इति । २७ ऊर्ध्वं लिङ्गमस्य ऊर्ध्वलिङ्गः । २८-२९ १० एका तिस्रश्च दृशोऽस्य एकदृक्, अर्धनारीश्वरमूर्ती महेश्वराङ्गस्य एकदृक्त्वात् । तिस्रो दृशोऽस्य स त्रिदृक्, ललाटे नेत्रयोगात्, यौगिकत्वाद् एकनेत्रः, विषमनेत्र : । ३० भाले दृगस्य भालदृक् । ३१ अर्धनारीश्वरमूर्तौ एकः पादोऽस्य एकपात् । 'संख्यासुपूर्वस्य ५ ।४ । १४० ॥ इति पादशब्दान्तलोपः । एकत्रिहगादीनां त्रयाणां द्वन्द्वः ॥१९६ ॥ ३२ मृडयति सुखयति मृडः । 'मृड सुखे'' (तु.प.से., क्र्या.प.से.), 'इगुपधज्ञा- '१।१।१३५ ॥ इति कः । ३३ अट्टः हासोऽस्य अट्टहासी । 'अत इनिठनौ' ५।२ । ११५ ॥ इतीनिः । ३४ घना मेघा वाहनमस्य घनवाहनः । यौगिकत्वाद् अब्दवाहनादयोऽपि । ३५ अहिः शेषनागो बुध्ने२० ऽस्य भूमूर्ते : अहिर्बुध्नः । पृषोदरादित्वाद् रेफागमः । " द्वाभ्यां पृथक्पदाभ्यां प्रथमैकवचनान्ताभ्यामेकं नाम "[] इत्यन्ये । विभक्त्यन्तरेऽपि, यथा-‘“अहये बुध्नाय नमो बुध्नयै नमोऽस्तु गणपतये "[] । ३६ रविचन्द्राग्निरूपत्वाद् द्विविधरूपाण्यक्षीण्यस्य, त्रित्वाद्वा विरूपाक्षः । 'बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात् खच् (षच्) '५ ।४।११३ ॥ । ३७ विषमन्तयति विषान्तकः, समुद्रमथने विषभक्षणात् । ३८ महाव्रतं कापालिकलिङ्ग विद्यतेऽस्य महाव्रती । 'अत इनिठनौ ५ । २ । ११५ ॥ । ३९-४० वह्निहिरण्यशब्दाभ्यां परो रेतः शब्दः, वह्नौ रेतोऽस्य वह्निरेताः,
1
Jain Education International
८७
सकारान्तः । “देव्या सोढुमशक्यत्वादग्नौ क्षिप्तमयै, अत एव कुमारः पावकिः " [ अम. क्षीर. १ । १ । ३३ ॥ ] इति स्वामी । ३० हिरण्यं रेतोऽस्य हिरण्यरेताः, अग्निमूर्त्तिना ह्यमुना हिरण्यं
प्रसूतमिति । ४१ शिवं कल्याणं, तद्योगात् शिवः । 'अर्शआदिभ्योऽच्' ५।२॥१२७॥ । लोकानां शिवकारित्वाद् वा । शेते वसति प्रलये जगदस्मिन् वा । 'शीडापो ह्रस्वश्चै [वा]' (हैमोणा - ५०६ ) इति वः । ४२ अस्थिमयं धनुरस्य अस्थिधन्वा, नकारान्तः । ' धनुषश्च' ५ । ४ । १३२ ॥ इति सूत्रेणान । ४३. पुरुषास्थीनि मलते धारयतीत्येवंशीलः पुरुषास्थिमाली । 'मल मल्ल धारणे' (भ्वा.आ.से.), 'सुप्यजातौ णिनिस्ताच्छील्ये' ३।२ १७८ ॥ इति णिनिः ॥ १९७ ॥ ४४ गङ्गाधरणाय व्योमव्यापी केशोऽस्य व्योमकेशः । व्योम द्यौः, के मूर्ध्नि शेतेऽस्येति ४० वा ।‘“शीर्णि द्यौः समवर्तत "[ऋ. १० ] इति श्रुते: ।‘अन्येऽभ्योऽपि (अन्येष्वपि दृश्यते ' ३ ।२।१० ॥ इति डः । ४५ शिविर्नाम राजा नारायणेन हतः, स चेश्वरस्यात्यन्तं प्रिय इति, तस्यास्थीनि शिरसि धृतानि, अतः पिष्टोऽस्थ्यादिरूपेण शिपिरत्र शिपिविष्टः, पृषोदरादित्वात् । शिपिरिन्द्रलुप्त [ वात] स्तेन विष्टो व्याप्त इति वा । ४६ बिभर्त्ति कपालम्, बिभेत्यस्मादिति वा भैरवः । 'भैरवकैरव - ' (हैमोणा - ५१९) इत्यादिना निपातनात् साधुः । ४७-४८ दिश: कृत्तिश्च वासोऽस्य दिग्वासाः, सकारान्तः, नग्नत्वात्। कृत्तिः चर्म वासोऽस्य कृत्तिवासाः सकारान्तः, गजचर्म संव्यानत्वात् । ४९ भवति विश्वमस्माद् ५० रजोगुणापन्नत्वादिति भवः । बाहुलकादपादानेऽप्यच् । विश्वमस्त्यस्मिन्निति वा । 'असु (अस) भुवि ' ( अ.प.से.) इत्यस्य धातोर्भूरा देशाद् भुवोऽच् । [ यद्वा ] 'श्रिणीभुवः-'३।३।२४ ॥ इत्य[x] श्रिणीसाहचर्यात् भुवो भौवादिकादेव घञ् । ५० " जुह्वतो ब्रह्मणो ललाटे स्वेदो जातस्तं महेश्वरं तेजोऽध्यतिष्ठत्, तच्चाग्नौ निपत्य नीलं भूत्वा लोहितं बभूव, ततोऽयं जात इति नीललोहित: "[" ] इति पौराणिका: । स्कन्दे
'ङ्गिरसो' इति दृश्यते ॥ २. 'ददासि' इति२ ॥ ३. प्र. पदचन्द्रिका, भा
१. द्र. स्वोपज्ञटीका २ । १९६ ॥, पृ. ४७ ॥ तत्र 'ङ्गिरसौ' इत्यस्य स्थाने १, स्वर्गवर्ग:, - २५, पृ.४५ ॥ ४. ' - नेत्रश्च' इति३ ॥ ५. अत्र मृडति मृड्नाति वा पाठ्यम्, मृडधातोस्तुदादिक्र्यादित्वात् ॥ ६. 'सुखने' इति क्षीरतरङ्गिण्यादौ दृश्यते ॥ ७ 'भूमूर्तिः' इति२ ॥ ८. द्र. स्वोपज्ञटीका २।१९८ ॥, पृ. ४७ ॥ ९ २प्रतौ नास्ति ॥ १०. इतोऽग्रे अम.क्षीर. टीकायां 'हि' इति दृश्यते १ । १ । ३३ ॥ पृ.११ ॥ ११. 'अस्य' इति अम क्षीर. नास्ति, १ । १ । ३३ ॥, पृ.११ ॥ १२ द्र. पदचन्द्रिका भा-१, स्वर्गवर्गः, श्रो- २८, पृ.४७॥ १३. 'ह्रस्वेति' इति २.३ ॥ १४. द्र. स्वोपज्ञटीका २।१९८ ॥ पृ.४७ ॥ अम. क्षीर. १ । १ । ३४ ॥ पृ.१२ ॥ १५. 'इन्दं लुप्त - ' इति२ ॥ १६. 'संख्यान -' इति ॥ १७. 'अस्तेर्भू:' २४ ५२ ॥ इत्यनेन ॥ १८. अत्र 'ऋदोरप्' ३।३१५७ ॥ इति मनसि निधाय 'अप्' इति पाठ्यम् ॥ १९. द्र. पदचन्द्रिका, भा-१, स्वर्गवर्गः, श्रो- २८. पृ. ४७॥ तत्र 'महेश्वरं इत्यस्य स्थाने 'माहेश्वरं' इति दृश्यते ॥
For Private Personal Use Only
www.jainelibrary.org