________________
८६
अभिधानचिन्तामणिनाममाला
‘आतोऽनुपसर्गे कः’३ ॥२॥३॥ इति कः, 'आतो लोप इटि च' ६।४।६४॥ इत्यालोपः । " ईश्वराद् ज्ञानमिच्छेच्च धनमिच्छेद्भुताशनात् ''[]इति श्रुतेः । ७ उद्दिशत्यागमविशेषमिति उड्डीशः । उपूर्व दिश अतिसर्जने ' (तु.प.अ.), पृषोदरादित्वाद् द्वयम् । ८ वामः श्रेष्ठो देवो वामदेवः । यद्वा वामः प्रतीपः संसारात्, स चासौ देवश्च वामदेवः । यद्वा लोकाचारविपरीतत्वाद् वामः । 'टुवम' उद्गिरणे ' (भ्वा.प.से.), घञि 'नोदात्तोपदेश - ' ७।३।३४ ॥ इत्यादिना वृद्धिनिषेधे प्राप्ते 'अनाचमे : ' ७ | ३ | ३४ ॥ इति 'कम्यमिचमिं ' ( वा ७।३।३४ ॥ ) इत्यादिना १० निषेधः । वामः सुन्दरश्चासौ देवश्चेति वा । ९ वृषोऽङ्कः चिह्नमस्य वृषाङ्कः । यौगिकत्वाद् वृषलाञ्छन इत्यादयः । १० कण्ठे कालोऽस्य कण्ठेकालः । 'अमूर्धमस्तकात् स्वाङ्गदकामे ' ६ । ३ । १२ ॥ इति सप्तम्या अलुक् । ११ शश्वद्भूतानां शं कल्याणं करोति शङ्करः। ‘डुकृञ् करणे' (क्र्या.उ.अ.), कृञो हेतुताच्छील्यानुलोम्येषु' ३ ।२।२० ॥ इति टः । तथा च स्कन्दे
"शं करोमि सदा ध्यानात् परमं यन्निरामयम् । भूतानामसकृद् यस्मात् तेनाऽहं शङ्करः स्मृतः ॥ २ ॥ [ ] इति । १२ नीलः कण्ठोऽस्य नीलकण्ठः, कालकूटभक्षणात् । १३ श्रीः शोभा कण्ठेऽस्य श्रीकण्ठः । तदुक्तं २० महाभारते
" इन्द्रेण तत् पुरु क्षिप्तं वज्रं श्रीकण्ठकाषिणा । दत्त्वो कण्ठं तु तत् पार्थ ! ततः श्रीकण्ठता मम ॥३॥” [] । १४ उच्यति क्रुधा समवैति, ओषति पुरं दहति वा उग्रः । 'उच समवाये ' ( दि.प.से.), 'उष दाहे ' (भ्वा.प.से.) वा, 'ऋजेन्द्रेन्द्राग्रोग्र- '( उणा - १८६ ) इति सूत्रेण रक्प्रत्ययान्तो निपातितः । १५ 'जट झट सङ्घाते ' ( भ्वा.प.से), 'इन् सर्वधातुभ्यः '(उणा-५५७ ) इतीन् जटिः । " जटिर्जटाशीलाशीलिनी''[ ]इति द्विरूपकोष : । धुरस्त्रैलोक्यचिन्तायाः जटिः
[देवकाण्डः-२ सङ्घातोऽत्रेति धूर्जटिः । " धूर्गङ्गा जटास्वस्य, पृषोदरादित्वादाकारस्येत्वम्''[']इति स्वामीं भ्रान्तः, उक्तरूपेण जटि - ३० साधनात् । " धूर्भारभूता जटिर्जटास्य "[] इति कौमुदी । "धूम्रं रूपं च यत् तस्य तेन धूर्जटिरुच्यते "[ स्वोपज्ञटीका, श्श्रो-२।१९५]इत्याचार्याः । १६ बिभेत्यस्माद् भैरवरूपत्वाद् भीमः । 'जिभी भये'(जु.प.अ.), 'भियः षुर्क् वा '(उणा१४५) इति सूत्रेण मक्प्रत्ययः । 'भीमादयोऽपादाने '३।४ ।७४॥ इति वा साधुः । १७ बिभर्त्ति शक्तिं भर्गः । 'डुभृञ् धारणपोषणयो:'(जु.उ.अ.), स्वृभृभ्यां गः ' ( ) इति गः । भृज्यन्ते कामकालादयोऽनेनेति वा । 'भ्रस्जौं' पाके' (तु.उ.अ.), करणे घञ् । भर्जति ( भर्जते ) वा भर्ग: । भर्ज ['ऋजी भृजी भर्जने' (भ्वा.आ.से.), पचाद्यच् ] न्यङ्क्वादित्वात् ४० कुत्वम् । भृज्यते पच्यते जगदत्रेति वा । अधिकरणे घञ्, 'चजो: कु घिण्ण्यतो : '७ | ३ |५२ ॥ । 'भर्ग्यः' इति पाठे ‘ऋहलोर्ण्यत्’३।१।१२४॥, ' चजोः कु घिण्ण्यतोः '७॥३॥५२॥ इति कुत्वम्, परं बहुभिस्तु 'भर्ग' इति मूलपाठः स्वीकृतः । ॥१९५॥ १८ मृत्युं जयति मृत्युञ्जयः । 'जि जये ' (भ्वा.प.अ.), 'जि अभिभवे' (भ्वा.प.अ.) अतो वा, 'संज्ञायां भृतवृजिधारिसहितप (तपि) - ३ ।२।४६ ॥ इति खच् । १९ पञ्च मुखानि सद्योजात १ वामदेव २ अघोर ३ तत्पुरुषे ४शानलक्षणान्यस्य पञ्चमुखः । २० अष्टौ मूर्त्तयः क्षितिजलपवनहुताशनयजमानाकाशसूर्यचन्द्रलक्षणा अस्येर्ति अष्टमूर्त्तिः । २१ श्मशानं ५० वेश्माऽस्य श्मशानवेश्मा, नकारान्तः । २२ गिरिरस्यास्ति गिरिशः । 'लोमादिपामादि- '५ ।२।१०० ॥ इत्यादिना श: । गिरौ शेते इति वा । 'शीङ् स्वप्ने' (अ.आ.से.), गिरौ शेतेर्ड: । गिरिं हिमाद्रिं श्यति उपभोगेन" तनूकरोति वा । 'शो तनूकरणे'(दि.प.अ.), 'अन्येभ्योऽपि (अन्येष्वपि ) '३ ।२ । १०१ ॥ इति डः, डित्त्वाट्टिलोपः । २३ गिरेरीश : गिरीशः । २४ मुनिभिः शापेन पातितलिङ्गत्वात् षण्ढः । यदुक्तं वामनपुराणे
Jain Education International
१. ' -भ्यः' इति१, '-भ्यः कः' इति२ ॥ २. 'टुवमु' इति१, 'टुवमुद्रिर-' इति३ ॥ ३. 'अनाचमिकमिवमीनामिति वक्तव्यम्' इति वार्त्तिकस्वरूपम् ॥ ४. द्र. पदचन्द्रिका, भा-१, स्वर्गवर्गः, -२५, पृ. ४५ ॥ ५. 'हत्वा' इति३ ॥ ६. द्र. स्वोपज्ञटीका २।१९५ ॥ पृ. ४७ ॥ ७. ऋजेन्द्रेद्राग्रोग्र-' इति १, 'ऋजेन्द्राग्र' इत्युणादिगणे ॥ ८. द्वयोर्द्विरूपकोषयोर्न दृश्यते ॥ "जटिर्जटी, शिला-शिली" ति द्विरूपकोषः ।" इति पदचन्द्रिका, भा १, स्वर्गवर्गः, श्ले-२८, पृ. ४७ ॥ ९. द्र. पदचन्द्रिका, भा-१, स्वर्गवर्गः, श्री - २८, पृ. ४७ ॥ १०. अम. क्षीरस्वामिटीकायां " धूर्गङ्गा जटास्वस्य धूर्जटिरिति निरुक्तम्" इत्येव दृश्यते, १ । १ । ३३ ॥, पृ.११ ॥ ११. 'षुक् च' इति१.२ ॥ १२. 'सृ-' इति३, 'स्पृ-' इति४ ॥ १३. क्षीरतरङ्गिण्यादौ ओकारानुबन्धरहितः पाठो दृश्यते ॥ १४. 'अस्य' इति३ ॥ १५. 'गिरौ डश्छन्दसि' (वा - ३ |२| १५ || ) इत्यनेन डप्रत्ययो भवतीत्याशयः ॥ १६. इतोऽग्रे १प्रतौ 'वा' इति दृश्यते ॥ १७. १ प्रतौ नास्ति ॥
For Private & Personal Use Only
www.jainelibrary.org