________________
१०
८०
1
सूत्रं वासरूपविधिना प्राप्तस्याऽणो निवृत्त्यर्थम् ['] इति न्यासः । कौमुदीकारादयस्तु - ""पृषोदरादित्वात् क्रव्यभावे, कृत्तविकृत्तरूपपक्वमांसभक्षः क्रव्यादः, आममांसभक्षंस्तु' क्रव्यात्' [ काशिकावृत्तिः ३ ।२ । ६९ ॥ ] इति जयादित्यानां प्रमादः, "नैर्ऋतः कर्बुरः क्रव्यात् क्रव्यादोऽस्रप आशर : '[]इति शब्दार्णवसंसारावर्त्तादावविशेषेणैव निबन्धादिति हट्टचन्द्र:, 'सोऽयं चन्द्रे' कलङ्को हट्टचन्द्रस्याप्रतिसन्धानदोषात् । शब्दार्णव एव रक्षः पर्याये द्वावेतौ पठित्वापि पुनः कृदध्याये -
अभिधानचिन्तामणिनाममाला
"सदान्नादकणादौ च स्यात् क्रव्यादाममांसभुक् । क्रव्यादः कृत्तविकृत्तपक्वमांसमांसभुगुच्यते ॥१॥" [" ] इत्युक्तेः । तस्माद् राक्षसस्य रूढिरूपे द्वे एते संज्ञे सामान्येन, यौगिकत्वे तु जयादित्ये व्यवस्था "["] इत्याहुः । १५ कर्बुरवर्णत्वात् कर्बुरः । कर्बति गच्छतीति वा । 'क गतौ’(भ्वा.प.से.), ‘वाश्यर्सि - ' (हैमोणा - ४२३ ) इत्युरः । “कबृ वर्णे' (भ्वा.प.से.), बाहुलकादुरप्रत्ययो रेफोपसृष्टः ''[मा. धातुवृत्तिः, भ्वादि:, धातुसं - २५९ ] इति माधवः । १६ निर्ऋतेर्दिक्पालस्यापत्यं नैर्ऋतः । तस्यापत्यम् ' ४।१।९२ ॥ इत्यण् । निर्ऋत्यां दिशि भवो विद्यमान इति, 'शेषे ४ । २ । ९२ ॥ अण् वा । १७ असृक् पिबति असृक्पः । 'पा पाने' (भ्वा.प.अ.), २० 'आतोऽनुपसर्गे कः ' ३ ।२३ ॥, ' आतो लोप इटि च ६४ ६४ ॥ इत्यालोपः । अमरकोषे तु "अस्रपः " [ अमरकोषः १ । १ । - ५९ ॥ ] इति सदन्त्यः | "न श्रपयति क्रव्यात्वाद् अश्रपः इति, श्रपधातोः पचाद्यचि शतालव्येऽपिं "[४] इति गोवर्धनीयोणादि वृत्तिः । 'सुराशीध्वो:' (वा - ३ ।२।८ ॥ इत्युपसंख्यानाद् आश्रपः इत्यत्र 'गापोष्टक्' ३ ।२ ।८ ॥ इति टक् न भवति । सप्तदश राक्षस' । शेषश्चात्र
Jain Education International
“पलप्रियः `खषापुत्रः कर्बरो नरविष्वणः ।
आशि हनुषः शङ्कुर्विधुरो जललोहितः ॥२॥ उद्वरः स्तब्धसंभारो रक्तग्रीवः प्रवाहिकः । सन्ध्याबलो रात्रिबलस्त्रिशिराः समितीपदः ॥ ३॥ [शेषनाममाला २।३७-३९] ॥
[ देवकाण्डः-२
जलयादः पतिर्पाशिमेघनादा
वरुणस्त्वर्णमन्दिरः प्रचेताः ।
For Private & Personal Use Only
जलकान्तारः स्यात् परञ्जनश्च ॥१८८॥
१. प्र. पदचद्रिका, भा-१, स्वर्गवर्गः, श्रो- ५४, पृ.७९ ॥ २. न्यासे- "कथं तर्हि क्रव्याद इति । यदि वचनं वाऽसरूपविधिबाधनार्थमिति भावः । कृत्तविकृत्तेत्यादिना कृत्तविकृत्तशब्द उपपदेऽण् कथं क्रव्यादशब्दः सिध्यति, कृत्तविकृत्ताद इति भवितव्यमित्याह तस्य चेत्यादि । ननु च कृत्तविकृत्तशब्दे उपपदेऽणि कृते तत्र चोपपदस्य क्रव्यभाव इति रूपं भवति, क्रव्यशब्द उपपदेऽणि कृते तदेव, क्वात्र विशेष:, यतः क्रव्यशब्द उपपदेऽण् प्रतिषिध्यते ? इत्यत आह- कृत्तविकृत्त इत्यादि । एतेनार्थभेदं दर्शयति-यो हि कृत्तविकृत्तशब्देन पक्वमांसभक्षः स एव क्रव्याद उच्यते, यस्त्वपक्वमांसभक्षः स क्रव्यादुच्यते" इति दृश्यते, काशिकावृत्तिः, भा-२, ३।२।६९ ॥ पृ.५९० ॥ ३ पृषोदरादिपाठात् क्रव्यभावः' इति काशिकावृत्तौ भा-२, ३ ।२।६९ ॥, पृ.५९० ॥ ४. इतोऽग्रे काशिकावृत्तौ 'उच्यते' इति दृश्यते ॥ ५. काशिकावृत्तौ 'तु' इति नास्ति ॥ ६. द्र. पदचन्द्रिका, भा-१, स्वर्गवर्ग:, श्री - ५४, पृ. ८० ॥, रामाश्रमी १।१ । ६० ॥ पृ. ३१ ॥ तत्र " क्रव्यादोऽत्रप आशरः" इत्यस्य स्थाने "कर्बुरो यातुरक्षसी" इति दृश्यते ॥ ७. 'र्णवः ' इति३ ॥ ८. ' सायं चन्द्रे कङ्को' इति२ ॥ ९. 'चन्द्रेण' इति३ ॥ १०. द्र. पदचन्द्रिका, भा-१, स्वर्गवर्गः, श्रो- ५४, पृ. ८०॥ रामाश्रमी १११॥५९॥, पृ.३१ ॥ ११. द्र. पदचन्द्रिका, भा-१, स्वर्गवर्गः, श्रो- ५४, पृ.८० ॥ १२. 'वाससि -' इति१.२.४ ॥ १३. ' - व्यादीति' इति३ ॥ १४. द्र. पदचन्द्रिका, भा-१, स्वर्गवर्गः, श्रो- ५४, पृ. ८० ॥ १५. 'राक्षस्य' इति१.२ ॥ १६. 'खखा-' इति३, 'खसा-' इति शेषनाममालास्वोपज्ञटीकयोः ॥ १७. 'आशीरो' इति३, 'अशिरो' इति शेषनाममालायाम् ॥ १८. 'शमि-' इति१.२.४ ॥ १९. 'वृणाति' इति१.२ ॥ २० वरुणे' इति३ ॥ २१. द्र रामाश्रमी १।१।६१ ॥, पृ.३१ ॥, पदचन्द्रिका, भा-१, स्वर्गवर्ग:, श्रो- ५६, पृ. ८१, तत्र 'वृणन्ति' इत्यस्य स्थाने 'वृणोति' इति, 'वै' इत्यस्य च स्थाने 'वृ' इति दृश्यते ॥, टीकासर्वस्वेऽपि पूर्वार्धे 'वरं वृणन्त्यमुं-' इति, उत्तरार्धे च 'वृञ्धातुर्वरणे-' इति दृश्यते, भा-१, ११६१ ॥, पृ. ४५ ॥ २२. 'यादसांपतिरप्पतिः ' इत्यमरकोषे ॥
१ वृणोर्ति' बिभर्ति पाशं वरुणः । 'वृञ् वरणे' (स्वा.उ.से.), 'कृ (कृ) वृदारिभ्यः उनन् ' ( उणा-३३३) । व्रियत इति वा ।
" वरं वृणन्ति तं देवा वरदश्च वरार्थिनाम् । धातुर्वै वरणें प्रोक्तस्तस्माद् वरुणः स्मृतः ॥ १॥” [] इति शाम्बपुराणम् । २ अर्णवो मन्दिरमस्य अर्णवमन्दिरः । ४० ३ प्रकृष्टं चेतोऽस्य प्रचेताः, सकारान्तः । यद्वा प्रचेतयति प्रचेताः । 'चिती संज्ञाने ' (चु.उ.से.), 'असुन्' (उणा-६२८) इत्यसुन् । ४-५ जलयादसोः पतिः, तेन जलपतिः, यादः पतिः । ‘“यादसांपतिरपि’[ अमरकोषः १ । १ । ६१ ॥ ] इत्यमरैः । एवं यादसांपतिः, अपांपतिः, सर्वत्र 'तत्पुरुषे कृति - '६ ॥ ३ ॥१४ ॥ इत्यलुक् । ६ पाशोऽस्त्यस्य पाशी । 'अत इनिठनौ ५ ॥ २ ॥ ११५ ॥ इतीनिः । यौगिकत्वात् पाशपाणिरित्यादयः । ७ मेघवन्नादोऽस्य
३०
www.jainelibrary.org