________________
१८४-१८८]
व्युत्पत्तिरत्नाकरकलिता
चित्रगुप्तस्तु लेखकः ॥१८६॥
१ यमस्य लेखकः, चित्रे लिखिते गुप्तः, चित्रमेनं गुप्यादिति वा चित्रगुप्तः ॥ १८६॥
स्याद् राक्षसः पुण्यंजनो नृचंक्षा यत्वाऽऽशरैः कौणपयातुधानौ । रात्रिचरो रात्रिचरः पलीदः कीनाशरक्षोनिकसात्मैजाश्च ॥१८७॥ क्रव्यात् 'कैर्बुरनैरृतावसृक्पः
१ भीमत्वाद् रक्षति जने आत्मानमस्मादिति रक्षः । १० 'रक्ष पालने ' (भ्वा.प.से.), ' - असुन्' (उणा - ६२८) इत्यसुन् । रक्ष एव राक्षसः । 'प्रज्ञादिभ्यश्च' ५ १४ | ३८ ॥ इति स्वार्थेऽण् । “प्रकृतेर्लिङ्गवचने बाधन्ते स्वार्थिकाः क्वचित् " [ ] इति पुंस्त्वम् । २ भद्रमङ्गलादिवद् विरुद्धलक्षणया पुण्यश्चासौ जनश्च पुण्यजनः । ३ नॄन् चष्टे नृचक्षाः । 'चक्षिङ् व्यक्तायां वाचि' (अ.आ.से.), ' '-असुन्' (उणा-६२८) इत्यसुन् । ४ याति गच्छति यातु, क्लीबे । 'या प्रापणे ' ( अ.प.अ.), 'कमिमनिजनिगांपाभायावाहिभ्यश्च तुः ' ( उणा - ७२ ) इति तुप्रत्ययः । "यातुरर्धर्चादिः "["] इति शबरस्वामी । " [ यातु] धानशब्दैकदेशो वा भीमवत्, तस्मात् पुंस्यपि " [ ] इति धनपाल :, २० यदाह-‘‘क्रव्यादा यातवो यातुधानाः " [ ] इति । ५ आशृणाति हिनस्तीति आशरः । 'शू हिंसायाम् ' (क्र्या.प.से.), तालव्यादिः, पचाद्यच् ।‘आशिरः' इति पाठे, 'अशेर्णिच ' (उणा-५२ ) इति किरच्, 'ऋत इद्धातोः ' ७ । १ । १०० ॥ [ इतीत् ], रपरत्वम् । “आशिरो हनुषः शङ्कु (:) क्रव्यादोऽस्रप आशि (श) र : ''['] इति संसारावर्त्तः । ६ कुणपः शबस्तद्भक्षणं शीलमस्येति कौणपः । ' शीलम् ' ४ ४ ६१ ॥ इत्यण्, 'तद्धितेष्वचामादेः '
Jain Education International
७९
७।२।११७॥ इत्यादिवृद्धि: । "कुणपमत्तीति, 'शेषे ' ४ ।२ ।९२ ॥ इति सूत्रेण शेषार्थेऽण् "[" ]इति तु कौमुदी । "कुणपा रक्षसां माता, तस्यापत्यं कौणपः"[" ] इत्यन्ये । ७ यातुसंज्ञां दधाति यातुधानः, अन्तस्थादिः । 'डुधाञ् धारणपोषणयो:'(जु.उ.अ.), ३० 'कृत्यल्युटो बहुलम् ' ३ | ३ |११३ ॥ इति ल्युट् । यातून रक्षांसि दधाति स्वजातिपोषकत्वादिति वा । "यातूनि यातना धीयन्तेऽस्मिन् ' [ अम.क्षीर. १|१ | ६० ॥ ] इति तु कौमुदी (स्वामी) । 'जातु कदाचिद् रन्ध्रं प्राप्य धानं संनिधानमस्येति "जातुधानः"[शब्दभेदप्रकाशः, श्रो- १९]इति चवर्गतृतीयादिरपि इति पुरुषोत्तमैः । ८-९ चरतीति चरः । 'चर गतिभक्षणयोः ' (भ्वा.प.से.), पचाद्यच् । रात्रौ चरः रात्रिचरैः । 'सप्तमी' २।१।४० ॥ इति योगविभागात् समासः । अथवा रात्रौं" चरतीति रात्रिंचरः । 'चरतेष्टें: '३ । २ । १६ ॥ इति टः, 'उपपदमतिङ्'
44
२ । २ । १९ ॥ इति समासः, 'रात्रेः कृति विभाषा - '६ ॥ ३ ॥ ७२ ॥ ४० इति मुम्विकल्पः । १० पलं मांसमत्ति पलादः । 'अद भक्षणे' (अ.प.अ), 'कर्मण्यण् ' ३ ।२ ।१ ॥ । ११ कनति दीप्यते कीनाशः । 'कन दीप्तौ " (भ्वा.प.से.), 'कनेरीच्चात: ' (हैमोणा-५३४)इत्याशः । कीनमार्ममांसमश्नातीति वा । १२ भीमत्वाद् रक्षन्त्यात्मानमस्मादिति रक्षः, क्लीबे । 'रक्ष पालने ' (भ्वा.प.से.), '- असुन् ' ( उणा - ६२८) इत्यसुन् । १३ नितरां कसति पतिं गच्छति निकसा । 'कस गतौ ' (भ्वा.प.से.), पचाद्यच् । तस्या आत्मजो निकसात्मजः, दन्त्यसकारवान् । यद्वा निकला रक्षसां माता, तदात्मजत्वाद् निकषात्मजः, मूर्धन्यमध्यः ॥ १८७ ॥ १४ क्रव्यमत्ति क्रव्यात् । 'अद भक्षणे' ५० (अ.प.अ), ‘क्रव्ये च’३ ।२।६९ ॥ इति विं (विट्) । क्रव्यादोऽपि । " क्रव्याद इति, मांसवाचककृत्तविकृत्तशब्दे उपपदे कर्मण्यण्, पृषोदरादित्वात् कृत्तविकृत्तशब्दस्य क्रव्यादेशः, 'अदोऽनन्ने '३ ।२।६८ ॥ इति सिद्धे 'क्रव्ये च ' ३ ।२ ।६९ ॥ इति
१. 'निजनमात्मा -' इति३ ॥ २. "स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यतिवर्तन्तेऽपि " ( परि-५।४।२२ ॥ काशिका) इत्यपि च ॥ ३. ' - गाभायाहिभ्यश्च' इत्युणादिगणे ॥ ४. द्र. पदचन्द्रिका, भा-१, स्वर्गवर्गः, -५५, पृ. ८१ ॥ ५. द्र. स्वोपज्ञटीका २।१८७॥, पृ. ४४ ॥ तत्र 'तस्मात्' इति नास्ति ॥ ६. द्र. स्वोपज्ञटीका २ । १८७ ॥ पृ. ४४ ॥ ७. 'शृणोति' इति१.४ ॥ ८. 'अशेर्णित्' (उणा - ५२ ) इत्युणादिगणे ॥ ९ द्र. पदचन्द्रिका, भा-१, स्वर्गवर्गः, श्री - ५४, पृ. ८० ॥ तत्र 'आशिरोऽनुशव:-' इति दृश्यते, रामाश्रमी १।१५९ ॥, पृ. ३१ ।। १०. ' इति वृद्धि:' इति३ ॥ ११. द्र. पदचन्द्रिका, भा-१, स्वर्गवर्ग:, - ५४, पृ.७९ ॥ तत्र "कुणपमत्तीति शेषेऽणि " ( पा. ४।२।९२ ) [ ति] तु कौमुदी" इत्येव दृश्यते ॥ १२ द्र. पदचन्द्रिका, भा-१, स्वर्गवर्ग:, - ५४, पृ.७९ ॥ तत्र 'रक्षसां माता' इत्यस्य स्थाने 'रक्षोमाता' इति दृश्यते ॥ १३. 'जातुः' इति३ ॥ १४. प्र. पदचन्द्रिका, भा-१, स्वर्गवर्ग:, श्रो- ५५, पृ. ८१ ॥ १५. 'रात्रिंचर:' इति२ ॥ १६. 'रात्रिं ' इति३ ॥ १७. 'चरेष्टः' इत्यष्टाध्याय्याम् ॥ १८. 'कनी दीप्तिकान्तिगतिषु' इति क्षीरतरङ्गिण्यादौ ॥ १९. 'मामं मास-' इति३ ॥ २० ३प्रतौ नास्ति ॥ २१. ' - विकृत्त-' इति २प्रतौ नास्ति ॥
For Private Personal Use Only
www.jainelibrary.org