________________
६६
वाताऽस्तं वारि शीकरः ॥ १६५ ॥
१ वातेन वायुनाऽस्तं क्षिप्तं वातास्तं वारि जलं शीकरः प्रोच्यते । शीकते सिञ्चति शीकर: । 'शीकृ सेचने ' (भ्वा.आ.से.), 'ऋच्छेररन्ं'(उणा-४११) इति बाहुलकादरन् । तालव्यादिरयम्, " शम्बशीकरपांशवः "[ ]इति तालव्यप्रकरणे ऊष्मविवेकात् । एकं वाताहतजलकणस्य । 'वाछंटी' इति भाषा ॥ १६५ ॥ वृष्ट्यां वर्षणवर्षे
अभिधानचिन्तामणिनाममाला
१ वर्षणं वृष्टिः । 'पृषु वृषु मृषु सेचने' (भ्वा.प.से.), 'स्त्रियां क्तिन्' ३।३ ।९४ ॥, ' तितुत्र- '७।२९ ॥ इतीनिषेधः, तत्र १० वृष्ट्याम् । २ “ वर्षणाद् वृषभ: "[ ] इति भाष्यकारवचनाद्
‘ल्युट्:च’३।३।११५ ॥ इति ल्युटि वर्षणम् इति साधु । ३ वर्षम् इति, 'अज्विधौ भयादीनामुपसंख्यानम्' नपुंसके भावे क्तादिनिवृत्त्यर्थम्'(वा-३।३ १५६ ॥ ) इत्यच् । पुंक्लीबलिङ्गोऽयम्। यद्वाचस्पतिः ‘"अथ वृष्टिर्वर्षमस्त्री केचिदिच्छन्ति वर्षणम्”[ळे]इति । वर्षोऽल्पतरो वृष्टिर्महतीति वर्षवृष्टयोर्भेदोऽत्र नाश्रितः । त्रीणि वृष्टेः ॥
तद्विघ्ने ग्रहग्रहाववात् ।
१-२ तद्विघ्ने वृष्टिविघ्ने, अवात् परौ ग्राहग्रहौ योज्यौ, 'ग्रह उपादाने ' (क्र्या.उ.से.), 'अव (अवे) ग्रहो वर्ष प्रतिबन्धे' २० ३ । ३ । ५१ ॥ इति पक्षे घञि अवग्राहः, घञभावपक्षे 'ग्रहवृत्(दृ)- '३ ।३ ।५८ ॥ इत्यप् अवग्रहः । अवग्रहादिदोषेण वृष्टिविघातस्य द्वे ॥ घनोपलस्तु करेकः
१ घनस्य मेघस्य उपलः पाषाणः घनोपलः । कृणोति सस्यम्, कीर्यते वा करकः त्रिलिङ्गः । 'कृञ् हिंसायाम्' (स्वा.उ. अ.), 'कृञादिभ्यः संज्ञायां वुन् ' (उणा-७१३), 'युवोरनाकौ ' ७ ३१ ॥१ ॥, क्षिपकादिपाठात् स्त्रियां टापि ' प्रत्ययस्थात्- '७ १३ ।४४ ॥ इतीत्वं न । द्वे मेघभवशिलायाः । 'गडा' इति भाषा । शेषश्चात्र
[ देवकाण्डः- २ "अम्बुघनो मेघकफः (-फो) मेघास्थिपुञ्जिका । बीजोदकं तोयडिम्भो वर्षाबीजमिरावरम् ॥१॥" [शेषनाममाला २।२९-३०] ॥ काष्ठाऽऽशा दिग् हरित् कर्कुप् ॥१६६॥
१ काशते काष्ठा, टवर्गद्वितीयोपधोऽयम् । 'काशृ' दीप्तौ’(भ्वा.आ.से.), 'हनिकुशिनीर्वा मकाशिभ्यः क्थन् '(उणा १५९), 'लशक्वतद्धिते १।३।८ ॥, 'व्रश्चभ्रस्ज- '८ २ ३६ ॥ इति षत्वम्, 'तितुत्र- '७।२ ।९ ॥ इति नेट्, 'ष्टुना ष्टुः ८ १४ १४१ ॥ 'अजाद्यतष्टाप्' ४ ॥१ ॥४ ॥, काशन्ते दीप्यन्त इति व्युत्पत्तिः । २ आ समन्तादश्नुते व्याप्नोति आशा । आङ्पूर्वः 'अशूङ् व्याप्तौ (स्वा.आ.से), पचाद्यच्, टाप् । आङ्पूर्वः 'शद्लृ ४० शातने' (भ्वा.आ.अ.,तु.आ.अ.) वा, अयमत्र गत्यर्थः, अनेकार्थत्वाद् धातूनाम्, 'अन्येभ्योऽपि - '३।२।१०१ ॥ इति डः । ३ दिशन्ति तामिति, दिशत्यवकाशं वा दिक् । 'दिश अतिसर्जने' (तु.प.अ.), 'ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चयुर्जिक्रुञ्चाञ्च'३ ।२ ५९ ॥ इति क्विन्, कइन इतः 'तस्य लोपः '१।३।९ ॥, ['वेरपृक्तस्य '६ ॥ १ ॥६७॥ इति वो लोप: ], 'क्विन्प्रत्ययस्य कुः ' ८।२।६२॥ । भागुरिमते टापि दिशा आवन्तोऽपि । " दिक् तु स्त्रियां दिशा दान्ती ककुब् देववधूः पवि: "["]इति शब्दार्णवः । ४ हरन्ति नयन्त्यनया हरित् ।'हृञ् हरणे' (भ्वा.उ.अ.), 'हैंसृतडि रुहियुषिभ्य इत् ' ( उणा - ९७) इतीत् । ५ कं वायुं कु(स्कु)- ५० भ्नाति विस्तारयति ककुप् । 'कुभ [ स्कुम्भुं ] विस्तारे,' क्विप् । न प्रजापतिना विस्तारिता इति वा । सर्वत्र 'क्विब् वचिप्रच्छायतस्तु - ' (वा - ३ ।२ । १७८ ॥ ) इत्यत्र "प्राक्प्रत्ययनिर्देशादिष्टसिद्धिः"[ ]इत्युक्तेः क्विप्, "पृषोदरादित्वाद् वा रूपसिद्धिः" [ ] इति भाष्यम् । 'ककुभा' अपि कश्चित् । एते पञ्चाऽपि स्त्रीलिङ्गाः । पञ्च दिशः ॥१६६॥
'दिगेकैवाऽस्ति, औपाधिकं तु प्राचीत्वादि "["] इति वैशेषिकमते, परं तन्मतमनादृत्य स्वमतेन दिग्भेदानाह
Jain Education International
१. ‘ऋच्छेरर:' इत्युणादिगणे ॥ २. द्र रामाश्रामी १ । ३ । ११ ॥, पृ.४२ ॥, पदचन्द्रिकायां 'शम्ब' इत्यस्य स्थाने 'शश्वत्' इति दृश्यते, दिग्वर्गः, -७९, पृ.१०५ ॥ ३. द्र. स्वोपज्ञटीका २।१६६, पृ.३८ ॥, पदचन्द्रिका, भा-१, दिग्वर्गः, श्रो- ७८, पृ. १०५ ॥ रामाश्रमी १ । ३ । ११ ॥ पृ.४१ ॥ ४. १ प्रतौ नास्ति ॥ ५.‘-पु-' इत्यस्य स्थाने १ प्रतौ बहिर्भागे 'मि' इति दृश्यते, 'पूज्जिका' इति३ ॥ ६. ' - मिराभवम्' इति३ ॥ ७. - पधेयं' इति३ ॥ ८. 'कासृ' २.३.४॥ ९. ‘-वडि-' इति३, ‘-रमि-' इत्युणादिगणे ॥ १०. 'अशू व्याप्तौ' इति स्वामी, 'अशू व्याप्तौ सङ्घाते च' इति सायणः ॥ ११. ' - युञ्जि-' इति१.२ ॥ १२. तदुक्तं भट्टोजिदीक्षितेन सिद्धान्तकौमुद्यां 'अव्ययादाप्सुपः' इति सूत्रव्याख्याने- "वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः । आपं चैव हलन्तानां यथा वाचा निशा दिशा" इति ॥ १३. द्र. रामाश्रमी १।३।१ ॥, पृ. ३७, पदचन्द्रिका, भा-१, दिग्वर्गः, श्रो- ६८, पृ.९५, तत्र पदचन्द्रिकायां 'दिशा दान्ती' इत्यस्य स्थाने 'दिशादन्तः' इति दृश्यते ॥ १४. 'हृसु-' इति४ ॥ १५. अत्र तडेर्ग्रहणं न कर्तव्यम् 'ताडेर्णिलुक् च' (उणा -९८ ) इति पृथगुणादिसूत्रविधानात् ॥ १६. ‘इति' इत्युणादिगणे ॥ १७. सौत्रोऽयं धातुः ॥ १८. प्र. पदचन्द्रिका, भा-१, दिग्वर्गः, -६८, पृ.९६ ॥
For Private Personal Use Only
३०
www.jainelibrary.org