________________
१६४-१६५]
७ स्तनयति गर्जति स्तनयित्नुः । 'स्तनगदीं देवशब्दे' (चु.उ.से.), चुरादावदन्तः, अत: 'स्तनिकृषिमदिगदिभ्यो णेरिनुच्' (उणा३०९), 'आ(अ)यामन्ताल्वाज्ये (य्ये) त्वि (ल्वि) ष्णुषु '६ १४ । - ५५॥ इति णेरयादेशः । ८ मेहति सिञ्चति महीं मेघः । 'मिह सेचने' (भ्वा.प.अ.), पचाद्यच्, 'संज्ञायां मेघमेघनिदाघावदाघा[र्घाः] '(ग-७।३।५ ॥ ) इति न्यङ्क्वादिपाठात् कुत्वम् । ९ जीवनं जलं मूतं बद्धमनेन जीमूतः । 'मूङ् बन्धने' (भ्वा.आ.से.), पृषोदरादित्वात् साधुः । जीवनं वारि मुञ्चतीति वा, पृषोदरादिः । “जीवनस्य [ जलस्य ] मूतः पुटबन्धः''[अम. १० क्षीर. १ । २ ॥८ ॥ ] इति तु स्वामी । १० परिवर्षति गर्जति पर्य(र्ज )न्यः । ( पृषु सेचने ' (भ्वा.प.से.), 'अन्यप्रत्यये षस्य ज: ' ( ) इत्युणादिसूत्रेण पर्जन्यः साधुः, चवर्गतृतीयमध्यः) 'पर्य(र्ज)न्य:’(उणा-३८३ ) इत्युणादिसूत्रेण साधुः । ११ बन्ति जीवन्त्यनेन बलाहकाभिर्हीयते गम्यते वा, वारिणो वाहको वा बलाहकः । सर्वत्र पृषोदरादित्वाद् रूपसिद्धिः । १२ हन्ति सन्तापम्, हन्यते वायुना वा घनः । 'हन हिंसागत्योः '(अ.प.अ.), बाहुलकात् कर्तरि अप्, 'मूर्ती घनः '३ ३ ७७ ॥ इति घनादेशः । १३ धारां धरति धाराधरः । 'धृञ् धारणे'
व्युत्पत्तिरत्नाकरकलिता
(भ्वा.उ. अ.), पचाद्यच् । १४ १७ वाहश्च दश्च मुक् च २० धरश्च वाहदमुग्धराः, एते जलशब्दात् पुरो योजिता मेघस्य वाचकाः स्युः, यथा वहनं वाहः, भावे घञ्, जलस्य वाहो जलवाहः । जलं वहतीति कर्मण्यणि वा । जलं ददाति जलदः। जलं मुञ्चति जलमुक् । जलं धरति जलधरः । यौगि कत्वाद् वारिवाहः, वारिदः, वारिमुक्, वारिधरः इत्यादयः । अभ्रशब्दवर्जं सर्वेऽप्यन्ये पुंलिङ्गाः । इन्द्रवंशेन्द्रयोरुपजातिः । सप्तदश मेघस्य । यद्यपि शब्दार्णवे त्रिविधा मेघा:, यथा
"
'मेघास्तु त्रिविधास्तत्र वह्निजा धूमयोनयः । निःश्वासजास्तु जीमूतास्ते ज्ञेया जीवरूपिणः ॥१॥ यज्ञजास्तु घना घोराः पुष्करावर्त्तका [दयः ] ॥["] इति
३० तथाऽप्यन्यत्राऽप्यभेदोऽपि दृश्यते, इहाऽपि तथा ।
Jain Education International
"मेघे तु व्योमधूमो नभोध्वजः । गण्डयित्नुर्गदयित्नुर्वामसिर्वारिवाहनः ॥ खतमालोऽपिं "[शेषनाममाला २।२८-२९ ॥ ] ॥१६४॥ कादम्बिनी मेघमाला
१ कं जलमाददते कादम्बा: मेघास्ते सन्त्यस्यां कादम्बिनी । यद्वा कादम्बाः पक्षिणो बलाकावत् मेघमनुधावन्ति, तद्योगात्, ज्योत्स्नादित्वादणि कादम्बिनी । " कदम्ब - विकासः कादम्ब:, सोऽस्यास्तिं कार्यत्वेन " [ अम. क्षीरें. १।२।८ ॥ ] इति तु स्वामी" । मेघमाला मेघघटा, तन्नामैकम् । ४० 'कलाइणि' इति भाषा ॥
६५
दुर्दिनं मेघजं तमः ।
१ दुष्टं निन्दितं दिनं दुर्दिनम् । अत्र दिनमिति अहर्निशोपलक्षणम्, तेन रात्रावपि दुर्दिनम्, अत एव मेघान्धकारमात्रे ‘दुर्दिनम्’[ ]इति रत्नकोषः,“दुर्दिनं जलदध्वान्तम्”[”]इति।
"यत्रौषधिप्रकाशेन नक्तं दर्शितसञ्चराः ।
44
अनभिज्ञास्तमिस्राणां दुर्दिनेऽप्यभिसारिकाः॥१॥” [ कुमारसंभवम्, सर्गः ६ श्रो- ४३] इति कुमारे रात्रावपि दुर्दिनप्रयोगः । " यन्नेत्रयोर्दुदिनमित्यत्र त्वसंभवः स्वार्थाविनाभूतपयः प्रवाहं लक्षयन् अश्रुप्रवाहं ५० लक्षयति"[ ] इति शृङ्गारप्रकाशः, एवं लक्षितलक्षणया । 'अकरोत् पृथिवी रुहानपि श्रुतशाखारसवाध्यदुर्दिनम् (बाष्पदूषितान् (-दुर्दिनान्) ''[रघुवंशम् ८ ७० ॥]इति रघुः । "वार्दालं ं दुर्दिनं मेघ-''[मेदिनीकोश, लान्तवर्गः, श्ले-११९] इति मेदिनि: । मेघाज्जातं मेघजं तमोऽन्धकारं दुर्दिनं प्रोच्यत इत्यन्वयः । एकं मेघजनितान्धकारस्य ॥ ओसारो वेगवान् वर्षः
१ वेगवान् वेगयुक्तो वर्षो वृष्टिः आसारः प्रोच्यते । आसरणमासारः । 'सृ गतौ ' (भ्वा.प.अ.), 'अकर्तरि च कारके संज्ञायाम् ' ३ | ३ |१९ ॥ इति घञ् । धाराणां संभूय जननमासार ६० इत्यर्थः ।" धारासंपातः ॥ [ शेषनाममाला २।२९ ॥ ] इति शैषिकम् । एकं शीघ्रवृष्टेः ॥
२०
शेषश्चात्र
१. 'स्तनगद' इति३.४ ॥ २. 'मघ' इति गणसूत्रे न दृश्यते ॥ ३. ४प्रतौ न दृश्यते ॥ ४. कोष्ठान्तर्गतपाठः २प्रतावेव दृश्यते ॥ ५. ' धरतीति' इति३.४ ॥ ६. द्र. पदचन्द्रिका, भा-१, दिग्वर्गः, श्रो- ७५, पृ. १०१ ॥, रामाश्रमी १।३।८ ॥ पृ. ४० ॥७. अपि ' इति १.२.४ प्रतिषु न दृश्यते ॥ ८. तुलनीयोऽमरकोषः १ । ३ ॥८ ॥ ९. ३ प्रतौ नास्ति ॥ १०. ' सोऽस्याः' इति३ ॥ ११. अम. क्षीर. टीकायाम्- "कमाददते कादम्बा मेघास्ते सन्त्यस्यां कादम्बिनी, कदम्बे विकाशो वास्त्यस्याम्" इति दृश्यते, १ ॥२४८ ॥, पृ.२४ ॥ १२.द्र. पदचन्द्रिका, भा-१, दिग्वर्गः, -७५, पृ.१०१ ॥ १३. अत्र' दुर्दिनमिति' इत्यधिकपाठो दृश्यते ॥ १४.द्र. पदचन्द्रिका, भा-१, दिग्वर्गः, श्रो- ७९, पृ. १०५ ॥ रामाश्रमी १।३।१२ ॥ पृ.४२ ॥ अमरकोशस्य अमरपदपारिजातटीका, भा-१, ११३ ॥ १२ ॥ पृ. ५८ ॥ १५. 'अनभिज्ञातमिश्रा - 'इति३ ॥ १६. द्र. पदचन्द्रिका, भा-१, दिग्वर्गः, श्ले-८०, पृ.१०६ ॥ १७. 'दुर्दिनान्' इति रघुवंशे पाठान्तररूपेण दृश्यते ॥ १८. 'वार्दाभं' इति२.३.४ ॥ १९. 'बार्दलं दुर्दिने मेलानन्दायां वार्दलः स्मृतः " इति मेदिन्याम्, पृ. १५३ ॥ २०. 'आसा- ' इति१.३.४ ॥
For Private Personal Use Only
www.jainelibrary.org