________________
६४
[ देवकाण्डः-२
दन्तमपि । विंशतिराकाशस्य । विहायसा भुवश्चाव्यये (अभि.लो-६।१५२६), महाबलिं देश्याम्, अलिङ्गमिति लिङ्गानुशासनवृत्तौ । शैषिकाणि–" [ नक्षत्रवर्त्मनि ] ग्रहनेमि: नमोऽवटी छायापथ: " [शेषनाममाला २।२७-२८ ।।] ॥ १६३ ॥ नभ्राट् तडित्वान् मंदिरो घनाघनो
ऽभ्रं धूमयोनिस्तनयित्नुमेधाः ।
Jain Education International
अभिधानचिन्तामणिनाममाला
जिपशितुग्धुग्दीर्घहकारश्च' (उणा - २७ ) इति अमतेर्विधीयमान उप्रत्ययो वुगागमो बाहुलकाद्भवति, तस्मिन् गुणे परत्वरेफमकारश्च अम्बु, अमतेरेव वा तैनैव सूत्रेण उप्रत्ययो बुगागमश्च, उभयत्रापि गच्छन्तिं देशाद् देशान्तरं वा, गम्यते वा प्राणिभिरिति अम्बु जलम्, तद् राति ददाति अम्बरो मेघः । 'आतोऽनुपसर्गे कः '३ ।२ ।३ ॥ पृषोदरादित्वादुकारस्याकारः, तद्वद् आकाशमपि अम्बरम्, 'लुक्भकाररेफाश्च वक्तव्याः ' ( ) इति मत्वर्थीयस्य लुक्, तदेव वर्षासु प्राणिभ्य उदकं ददातीति अम्बरम् । अथवा अम्बशब्दे उपपदे राजतेर्धातोः १० 'अन्येष्वपि दृश्यते '३ । २ । १०१ ॥ इति दृशिग्रहणाद् डः । सर्वोपाधिव्यभिचारार्थसिद्धिः, अम्बुवद् राजते स्वच्छस्तिमितसागराम्बुवदाभासते, कल्पितोपमानं चैतत् । यथा - " पुञ्जीकृतमिव ध्वान्तमेतेष्वाभाति किं गजः, सरः शरत्प्रशन्नाम्भो नभः खण्डमिवोर्जितम् "[ ] इत्यादि । १५ खन्यते हन्यते खम् । 'खन खनने ' (भ्वा.उ.से.), ' - खनेर्मुट् [स] चोदात्तः' (उणा६९८) इत्यच्, स च डित्, मुडागमस्त्वागमाऽनित्यत्वान्न भवति। १६ द्योतते रविकिरणसम्बन्धाद् द्यौः । 'द्युत दीसौ' (भ्वा.आ.से.), बाहुलकाद् डोप्रत्ययः । यद्वा 'द्यु अभिगमने ' ‘द्युगमिभ्यां डो:'( )इति श्रीभोजः । द्युवन्त्यभिगच्छन्ति स्वं २० स्वमभिमतं प्रदेशं प्राणिन इति, 'गोतो णित् ' ७ । २ ।९० ॥ इति वृद्धिः । १७ दिवशब्दस्तु प्राक् स्वर्गनामसु (अभि. श्री२।८७)साधितः । १८ विष्णोः पदं क्रमोऽत्र विष्णुपदम् । १९ वियच्छति न विरमति वियत्, क्लीबलिङ्ग: । 'यम उपरमे' (भ्वा.प.अ.), विपूर्वः, 'अन्येभ्योऽपि '३ ।२ ७५ ॥ इति क्विप्, 'क्वौ च गमादीनामनुनासिकलोपो भवतीति वक्तव्यम्' (वा - ६ ४ ४० ॥ ) इत्यनुनासिकलोपः, 'हुस्वस्य पिति कृति तुक् ६ । १ ७१ ॥ । यद्वा विपूर्वाद् 'यती प्रयत्ने' (भ्वा.आ.से.) अस्मात् क्विप् । विविधं यतन्तेऽस्मिन् प्राणिनः आकाशे हि सर्वे व्याप्रियन्ते । २० 'नह ( णह) बन्धने' (दि.उ.अ.), ३० 'नहेर्दिवि भश्च' (उणा - ६५० ) इत्यसुन्, भश्चान्तादेशः । न बभस्तीति वा । 'भस दीप्तौ ' (जु.प.से.), असुन् । नवं नवं भातीति वा नभः, क्ली. । ' भा दीप्तौ ' ( अ.प.अ.), पृषो
दरादिः।‘अत्यविचमि-'( उणा - ३९७) असचि 'नभसम्' इत्य
१. 'गच्छति' इति ॥ २. अयं धातुः क्षीरतरङ्गिण्यादौ न दृश्यते, तेन 'खनु अवदारणे' इति पाठ्यम् ॥ ३. 'अभिगमे' इति३ ॥ ४. 'यमु- ' इति१.२ ॥ ५. 'क्लीबं' इति३ ॥ ६. 'भर्त्सनदीप्त्योः' इति क्षीरतरङ्गिण्यादौ ॥ ७. द्र देसोसद्दसंग ६ ५८३ ॥ पृ. २२२ ॥ ८. 'नभोऽटवी' इति१.२.४ ॥ ९. ' - सचि-' इति १.२ ॥ १०. 'इषिमदिमुदिखिदिच्छिदिमिदिमन्दिचन्दितिमिमिहिमुचिरुचिरुधिबन्धिशुषिभ्यः किरच्' इत्युणादिगणे ॥ ११. द्र. पदचन्द्रिका, भा-१, दिग्वर्गः श्रो- ७४, पृ.१०० ॥ १२. करणः' इति १ ॥ १३. 'ड' इति३.४ ॥ १४. द्र अम. क्षीर. १२७ ॥ पृ. २४ ॥ पदचन्द्रिका, भा-१, दिग्वर्गः, श्रो- ७४, पृ. १०० ॥
12
जीमूतपर्जन्यबलाहका घनो धाराधरो वदग्ध जलात् ॥१६४॥
४०
१ न भ्राजत इत्येवंशीलो नभ्राट् । 'भ्राजू दीप्तौ ' (भ्वा.आ.से.), ' भ्राजभास भाषधूर्विद्युतोर्जि- '३।२।१७७ ॥ इति क्विप्, 'नभ्राण्नपान्नवेद - '६ ॥ ३ ॥ ७५ ॥ इति सूत्रेण नञः प्रकृतिभावः । २ तडिद् विद्यतेऽस्य तडित्वान् । 'तदस्यास्त्यस्मिन्निति मतुप् '५।२ ।९४ ॥, ' झयः ८ २ ॥१० ॥ इति मतुपो स्वः, 'तसौ मत्वर्थे ' १।४।१९ ॥ इति भसंज्ञकत्वाद् 'झलां जशोऽन्ते' ८।२ । ३९ ॥ इति जश्त्वाभावः । ३ मोदन्तेऽनेन जना:, मोदयति प्राणिन इति वा मुदिरः । 'मुद हर्षे' (भ्वा.आ.से.), 'इषिमदिमुदिखिदिच्छिदिभिदिमेदिचदितिमि - ५० मिहिमुहिरुर्चिरुधिशुषिबधिभ्यः किरं'(उणा-५१)इति किरच्। ४ हन्ति प्रवासिनः, विरहिणः, दुःकालं वा घनाघनः । 'हन हिंसागत्योः ' ( अ.प.अ.), 'हन्तेर्घत्वं च ' (वा - ) इत्यचि द्विर्वचनमभ्यासस्यागागमो हस्य घकारः, परस्य 'अभ्यासाच्च' ७ । ३ । ५५ ॥ इति कुत्वम्, आको दीर्घोच्चारणसामर्थ्यान्न [' ह्रस्वः ७ २४|५९ ॥ ], 'हलादिः शेष: '७ |४ |६० ॥ | ५ अभ्रति गच्छति अभ्रम्, क्लीबलिङ्गः । 'अभ्र गतौ' (भ्वा.प.से.), पचाद्यचि "[ ]इति उपाध्यायसर्वस्वम् । एव माघे " - घनमदभ्रमराणि " [शिशुपालवधम् ६ । ७३ ] इति यमकम् । " अपो बिभर्तीति मूलविभुजादित्वात् के अब्भ्रं ६० बकारवत्["]इति वैयाकरणाः । "न भ्रश्यन्त्यापोऽस्मादिति, 'अन्येभ्यो(ष्व)ऽपि-'३ ।२ । १०१ ॥ इति र्डे नभ्रम् ["]इति पौराणिका: । तदुक्तम् - "न भ्रश्यन्ति यतस्तेभ्यो जलान्यभ्राणि तान्यतः "[]इति । आप्नोति सर्वा दिश इति वा, पृषोदरादित्वात् साधुः । ६ धूमो योनिः कारणमस्य धूमयोनिः ।
११
''
For Private Personal Use Only
www.jainelibrary.org