________________
६२
२०
(कल्पान्तसङ्ख्या दिव्या वै कल्पमेवं तु कल्पयेत् ।) कल्पानां वै सहस्रं तु वर्षमेकमजस्य तु ॥३॥ कल्पानामष्टसाहस्रं ब्रह्मणैर्ब्रह्मणो युगम् ।" [ लिङ्गपुराणम्, प्रथमखण्डम्, कालमानब्रह्माण्डनिरूपणम्, श्रो-३६, ३७,४१, ४२] इति ॥
मन्वन्तरं तु दिव्यानां युगानामेकसप्ततिः॥१६०॥
दिव्यानां युगानामेकसप्ततिः मन्वन्तरम्, मनोरन्तरमवकाशोऽवधिर्वाऽत्रेति मन्वन्तरम्, 'सुप् सुपा' २ ।१ १४ ॥ इति समासः, तैश्चतुर्दशभिर्मन्वन्तरैर्ब्रह्मणो दिनमित्यर्थः । मन्वन्तर१० मानं तु लिङ्गपुराणे प्रोक्तम्, तथा हि
'एवं चतुर्युगाख्यानाम् साधिका ह्येकसप्ततिः । कृतत्रेतादियुक्तानां मनोरन्तरमुच्यते ॥१॥ मन्वन्तस्य संख्या च वर्षाग्रेणेह कीर्तिता । त्रिंशत्कोट्यस्तु वर्षाणां मानुषेण द्विजोत्तमाः । सप्तषष्टिस्तथान्यानि नियुतान्यधिकानि तु ॥२॥ विंशतिश्च सहस्राणि कालो यः साधिकं विना । मन्वन्तरस्य संख्यैषा लिङ्गेऽस्मिन् कथिता द्विजाः ॥३॥" [लिङ्गपुराणम्, खं-१, कालमानब्रह्माण्डनिरूपणम्, श्रो- ३०, ३४, ३५]। मनवो ब्रह्मपुत्राश्चतुर्दशैव । तथा च विष्णुपुराणे"मनुः स्वायम्भुवो नाम मनुः स्वारोचिषस्तथा । औत्तमिस्तामसिश्चैव रैवतश्चाक्षुषस्तथा ॥३॥
अभिधानचिन्तामणिनाममाला
षडेते मनवोऽतीताः सप्तमस्तु ( साम्प्रतं तु) रवेः सुतः । वैवस्वतोऽयं यस्यैतत्सप्तमो (म्) वर्तते युगम् ॥४॥" [विष्णुपुराणम्, खंडम् - १, तृतीयांशः, अध्य- १, श्री-६, ७] एकसप्ततिरिति यद्यपि गणनया सार्द्धयुगेनाधिकानां सा, यथाहुर्नामनिधाने सर्वज्ञश्रीनारायणचरणाः
“दैविकानां युगानां तु सहस्रं ब्रह्मणो दिनम् । मन्वन्तरं तथैवैकं तस्य भागश्चतुर्दश ॥५॥ [ "] तत्किञ्चिदधिका दिव्ययुगानामेकसप्ततिरिति, तथापि अन्यत्वात् ३० तदिह नोक्तम् । अपरे सप्त मनव:
" सावर्णिदक्षसावर्णो ब्रह्मसावर्ण इत्यपि । धर्मसावर्णरुद्रस्तु सावर्णौ रोच्यभौत्यवत् ॥६॥ [] एते चतुर्दश मनवः ॥१६०॥
Jain Education International
[ देवकाण्डः-२ कल्पो युगान्तः कल्पान्तः संहारः प्रलयः क्षयः । संवर्त्तः परिवर्त्तश्च समसुप्तिर्जिहार्नकः ॥१६१॥
१ कल्पते विरुद्धलक्षणया क्षीयते जगदत्रेति कल्पः । 'कृपू सामर्थ्ये ' (भ्वा.आ. वे.), 'पुंसि संज्ञायाम्- '३।३।११८ ॥ इति घः, 'कृपों रो ल : ' ८ । २ । १८ ॥ इति लत्वम्, 'पुगन्तलघूपधस्य च ७।३।८६॥ इत्युपधायां गुणः । २ युगस्यान्तो युगान्तः । ३ कल्पस्य ब्रह्मणो दिनस्यान्तोऽवधिः कल्पान्तः । ४० अत्रैकः कल्पः क्षयार्थोऽन्यस्तु ब्रह्मणो दिनार्थ:, यत् शाश्वत :"कल्पः शास्त्रे विधौ न्याये संवर्त्ते ब्रह्मणो दिने " [ शाश्वतकोषः, श्री - २०१] इति । ४ संह्रियते क्षीयते जगदत्रेति संहारः । 'हृञ् हरणे.' (भ्वा.उ. अ.), 'करणाधिकरणयोश्च '३ १३ | ११७ ॥ इत्यधिकरणे घञ्। ५ प्रलीयतेऽत्रेति प्रलयः । 'लीज् विलयनें ( ), 'एरच् '३ | ३ |५६ ॥ इत्यच् । ६ क्षीयते सर्वमत्रेति क्षयः । 'क्षि क्षये' (भ्वा.प.अ.), 'एरच् '३।३।५६ ॥ । ७ संवर्तत उपरमते जगदत्रेति संवर्त्तः । 'वृतु वर्त्तने ' (भ्वा.आ.से.), 'हलश्च' ३ । ३ । १२१ ॥ इति घञ् । वृत्तिरत्रावसानार्थः, यथा लोके अयं निवृत्तः, उपरत इत्यर्थ । ८ एवं परिवर्त्तः । ९ समा सर्वेषां ५० साधारणा सुप्तित्रेति समसुप्तिः । १० जिहीते गच्छति जिहान:, स्वार्थे कनि जिहानकैः । 'ओहाङ् गतौ' (जु.आ.अ.), 'लट: शतृशानचौ - '३।२।१२४ ॥ इति शतुः (लट :) शानजादेशः । प्रलयकालस्य दश ॥१६९॥
तत्कालस्तु
तदात्वं स्यात्
१ स चासौ कालश्च तत्कालः । २ तदेत्यस्य भावः तदात्वम् । द्वे तत्कालस्य । 'तिवारई" ज ' इति भाषा ॥ तज्जं सान्दृष्टिकं फलम् ।
१४
१ तज्जं तात्कालिकं फलम्, सन्दृष्टं प्रत्यक्षं प्रयोजनमस्य सान्दृष्टिकम् । 'तदस्य प्रयोजनम् '५ । १ । १०९ ॥ इति ठक्, ६० ‘ठस्येक:'७।३।५० ॥ किति च ' ७।२ । ११८ ॥ इत्यादिवृद्धिः । 'सांसृष्टिकम्' इत्यन्ये । एकं तत्कालफलस्य । 'तुरतफल' इति
भाषा ॥
१. तुलनीयोऽमरकोषः ११४ १२२ ॥ २. 'वकाशेऽव-' इति३ ॥ ३. 'कालोयमधिकं विना' इति लिङ्गपुराणे, खं-१, पृ. ४६ ॥ ४. 'सङ्ख्यैक' इति३ ॥ ५. " स्वायम्भुवो मनुः पूर्वं परः स्वारोचिषस्तथा । उत्तमस्तामसश्चैव रैवतश्चाक्षुषस्तथा ॥” इति विष्णुपुराणे खं-१, पृ. ३६१ ॥ ६. द्र. पदचन्द्रिका, भा-१, कालवर्ग:, श्रो- १२४, पृ. १५९ ॥ ७. 'मानवः' इति ॥ ८. 'कृपे' इति१.२.३ ॥ ९ - धागुणः' इति२.४ ॥ १०. 'लीङ्' इति४, वस्तुतस्तु क्षीरतरङ्गिण्यादौ लीञ्धातुर्विलयनेऽर्थे दृश्यते ॥ ११. वाचस्पत्ये 'जहानक:' इति प्रथमस्वरादिर्दृश्यते, पृ. ३०८१ ॥ १२. 'तिवार' इति ॥ १३. 'भाषाया:' इति३ ॥ १४. 'प्रयोजनम्' इत्येवाष्टाध्याय्याम् ॥
For Private
Personal Use Only
www.jainelibrary.org