________________
२०
१५८-१६०]
भवेदिति क्रियाशेषः, तत्र कृष्णपक्षो दिनम्, शुक्लपक्षो रात्रि:, पितॄणां कव्यपालादीनामिदम्, 'तस्येदम् '४।३।१२० ॥ इत्यण् ॥ अब्देन दैव॑तम्॥१५९॥
१ मानुषेण अब्देन वर्षेण दैवतम् अहोरात्रम्, भवेदिति शेषः, देवतानामिदं दैवतम् । 'तस्येदम् ' ४ । ३ ।१२० ॥ इत्यण्, 'यस्येति च '६ |४ | १४८ ॥, 'तद्धितेष्वचामादे: '७।२।११७॥, उत्तरायणं देवानामहः, दक्षिणायनं रात्रिः ॥ १५९ ॥
दैवे युगसहस्त्रे द्वे ब्राह्म॑म्
१ देवानां युगसहस्रद्वयेन ब्राह्मम् अहोरात्रम्, स्या१० दिति शेषः, ब्रह्मण इदं ब्राह्मम्, 'ब्राह्मोऽजातौ '६ १४ । १७१ ॥ इत्यणि साधुः । अयमभिप्रायः- मानुषेण चतुर्युगेन देवानामेकं युगम् । लैङ्गं युगमानं यथा
व्युत्पत्तिरत्नाकरकलिता
" पूर्वं कृतयुगं नाम ततस्त्रेताभिधीयते ।
३
11311
द्वारश्च कलिश्चैव युगान्येतानि विश्रुताः (सुव्रताः ! ) ॥१॥ सहस्राणां शतान्यासंश्चतुर्दश च संख्यया । चत्वारिंशत्सहस्राणि तथान्यानि कृतं युगम् ॥२॥ तथा दशसहस्राणि वर्षाणां शतसंख्यया । अशीतिश्च सहस्राणि कालस्त्रेतायुगस्य वा सप्तैव नियुतान्याहुर्वर्षाणां मानुषाणि चं । विंशतिश्च सहस्राणि [कालस्तु द्वापरस्य च ॥४॥ तथा शतसहस्राणि] वर्षाणां शत (त्रीणि) संख्यया । षष्टिश्चैव सहस्राणि कालः कलियुगस्य वा ॥५॥ एवं चतुर्युगः काल ऋतु (ऋते) सन्ध्यांशकात् स्मृतः ॥" [लिङ्गपुराणम्, प्रथमखण्डम्, कालमानब्रह्माण्डनिरूपणम्, श्रो२४-३०॥] ।
ज्योतिषे तु
"वस्व८श्व७ मैत्री र ऋतु६ रन्ध्र७मासा१२वेदा४रसा६ष्टौ८भुज२वह्नि३वेदाः ४ ।
एतानि शून्यत्रयभाजितानि ।
३०
युगाब्दसंख्या[:] परिकीर्तिता च ( - नि) ॥ ६ ॥ "[] एतच्च मानुषमानेन सत्यादीनां मानम्, तदेकेनापि (तदङ्के
६१
नापि ), यथा सत्यस्य १७२८०००, त्रेताया : १२९६०००, द्वापरस्य ८६४०००, कले: ४३२०००, इदानीं च शकाब्दाः १३५३ द्वात्रिंशदब्दाधिकं (-क - ) पञ्चवर्षोत्तरचतुः सहस्रवर्षाणि कलिसन्ध्याया भूतानि ४५३२ । तथा च गणितचूडामणौ महितापनीयराजपण्डित श्रीनिवासः - "कलिसन्ध्याया: स्व (ख)समयकरकृतवर्षाणि भूतानि ४२६०, तच्च ब्रह्मणो दिनम् []। अयमाशय:- दैवैर्हि षष्ट्यधिकैस्त्रिभिरहोरात्रशतैः दिव्यं वर्षम्, तैर्द्वादशभिः सहस्त्रैलौकिकं चतुर्युगम्, तच्च देवानामेकं युगम्, तत्सहस्रं ब्रह्मणो दिनं भूतानां स्थितिकालः, तावत्येव रात्रि - ४० भूतानां प्रलयकालः । यन्मनुः
Jain Education International
‘चत्वार्याहुः सहस्राणां वर्षाणां तु कृतं युगम् । तस्य तावच्छती सन्ध्या सन्ध्यांशश्च तथाविधः ॥७॥ इतरेषु ससन्ध्येषु ससन्ध्यांशेषु च त्रिषु । एकापायेन वर्तन्ते सहस्राणि शतानि च ॥ ८॥ यदेतत्परिसंख्यातमादावेव चतुर्युगम् । एतद्द्वादशसाहस्रं देवानां युगमुच्यते ॥९॥ दैविकानां युगानां तु सहस्रं परिसंख्यया । ब्राह्ममेकमहर्ज्ञेयं तावती रात्रिरुच्यते ॥१०॥ "
[ मनुस्मृतिः, अ- १, श्री - ६९-७१ ॥] ५० इयं च मानुषमानेनैव गणना कृता ॥
कल्पौ तु ते नृणाम् ।
ये द्वे दैवे युगसहस्रे ते नृणां कल्पौ, एकं स्थितिं कल्पयति, द्वितीयं तु क्षयमिति । अत्रापि स्थितिकालो भूतानां ब्रह्मणो दिनम्, प्रलयकालश्च ब्रह्मणो रात्रिः । तथा च लैङ्ग" चतुर्दशसहस्रो वै कल्पश्चैको द्विजोत्तम ! । (चतुर्युगसहस्रं वै कल्पश्चैको द्विजोत्तमाः । ) निशान्ते सृजतो (-ते) लोकान् नश्यन्ति निशि जन्तवः ॥१॥ कोटीनां द्वे सहस्रे तु अष्टौ कोटिशतानि च । द्विषष्टिश्च तथा कोट्यों नियुतानि तु सप्ततिः ॥२॥ कल्पस्य सङ्ख्या कथिता कल्पशेषं तु कल्पयेत् ।
१. 'लिङ्ग' इति२ ॥ २. 'सहस्राणां ' इति लिङ्गपुराणे, प्रथमखण्डम्, पृ.४६ ॥ ३. 'च' इति लिङ्गपुराणे, प्र.खण्डम्, पृ. ४६ ॥ ४. 'तु' इति लिङ्गपुराणे, प्र. खण्डम्, पृ.४६ ॥ ५. '२' इति२, '८' इति१.४ ॥ ६. '१७' इति२ ॥ ७. द्र टीकावस्वम्, भा-१, १४।२१ ॥ पृ.९० ॥ तत्र 'वस्वश्विमैत्रा ऋतुरन्ध्रमासा वेदा रसाष्टा (?) भुजवह्निदेहाः । एतानि शून्यत्रयताडितानि युगाब्दसङ्ख्याः परिकीर्तितानि ॥" इति दृश्यते, पदचन्द्रिकायामपि तथैव, परं तु' - ताडितानि' इत्यस्य 'सङ्ख्याः परि-' इत्यस्य च स्थाने क्रमेण भ्राजितानि' 'संख्यापरि-' इति दृश्यते, कालवर्ग:, श्रो- १२४, पृ. १५७ ॥ ८. द्र टीकासर्वस्वम्, भा-१, १४१२१ ॥ पृ. ९१ ॥, पदचन्द्रिका, भा-१, कालवर्ग, श्रो- १२४, पृ. १५७ ॥ ९. 'तत्' इति मनुस्मृतौ, १६९ ॥ पृ.१९ ॥ १०. 'परिसंस्थान -' इति२ ॥ ११. 'लिङ्गे' इतिर, 'लिङ्गं' इति३ ॥ १२. 'कोट्या' इति१ ॥ १३. 'सन्ध्या' इति१ ॥
For Private Personal Use Only
६०
www.jainelibrary.org